मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय १३

3
रुद्रसंहिता · सृष्टिखण्डः · 13

अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम्

ब्रह्मोवाच

अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।

श्रूयतामृषयो देवास्सर्वकामसुखावहम्

॥१॥

ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ।

कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः

॥२॥

उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।

उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु

॥३॥

जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।

त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि

॥४॥

इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।

बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः

॥५॥

देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ।

हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत्

॥६॥

दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम् ।

मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा

॥७॥

षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ।

वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने

॥८॥

यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।

देशकालाविरुद्धं च स्नानं कार्यं नरेण च

॥९॥

रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ।

महादाने तथा तीर्थे ह्युपवासदिने तथा

॥१०॥

अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।

यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः

॥११॥

तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ।

नित्यमभ्यंगके चैव वासितं वा न दूषितम्

॥१२॥

श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।

अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना

॥१३॥

देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ।

उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः

॥१४॥

उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।

शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम्

॥१५॥

परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।

तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत्

॥१६॥

तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।

धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत्

॥१७॥

शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ।

आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः

॥१८॥

शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।

चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम्

॥१९॥

यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।

तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः

॥२०॥

जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।

अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम्

॥२१॥

एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ।

संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम्

॥२२॥

पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ।

एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्

॥२३॥

अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।

अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम्

॥२४॥

कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।

अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम्

॥२५॥

दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।

गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च

॥२६॥

संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।

पूजयेत्परया भक्त्या शिवं सपरिवारकम्

॥२७॥

मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम् ।

सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम्

॥२८॥

लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः ।

चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः

॥२९॥

क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।

पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः

॥३०॥

द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ।

पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम्

॥३१॥

चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ।

नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्

॥३२॥

नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ ।

यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा

॥३३॥

धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।

नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः

॥३४॥

तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ।

स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम्

॥३५॥

कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ।

प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च

॥३६॥

दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।

गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः

॥३७॥

तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।

गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम्

॥३८॥

पूजाकाले च सांगं वै परिवारेण संयुतम् ।

आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते

॥३९॥

शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ।

उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत्

॥४०॥

प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।

मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः

॥४१॥

पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ।

एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः

॥४२॥

दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।

बध्वा पद्मासनं तत्र भद्रासनमथापि वा

॥४३॥

उत्तानासनकं कृत्वा पर्यंकासनकं तथा ।

यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च

॥४४॥

कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ।

यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च

॥४५॥

पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ।

अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च

॥४६॥

पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ।

कैलासशिखरस्थं च पार्वतीपतिमुत्तमम्

॥४७॥

यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ।

पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम्

॥४८॥

कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ।

व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम्

॥४९॥

वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ।

सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम्

॥५०॥

जयजयेति शब्दश्च सेवितं भक्त पूजकैः ।

तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम्

॥५१॥

शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ।

वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा

॥५२॥

भक्तवत्सलमानंदं शिवमावाहयाम्यहम् ।

एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत्

॥५३॥

चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ।

ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च

॥५४॥

ततश्चाचमनं कृत्वा शंभवे परमात्मने ।

पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा

॥५५॥

वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ।

चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा

॥५६॥

तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ।

ततश्च वारुणं स्नानं करणीयं शिवाय वै

॥५७॥

सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ।

ससुगंधजलेनैव जलधारां प्रकल्पयेत्

॥५८॥

वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ।

यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः

॥५९॥

पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।

तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः

॥६०॥

अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि ।

ततः पुष्पाणि देयानि पंचास्याय महात्मने

॥६१॥

प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।

कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा

॥६२॥

कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ।

तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः

॥६३॥

पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ।

सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै

॥६४॥

बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।

ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम्

॥६५॥

अर्पणीयं च विविधं शिवाय परया मुदा ।

ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा

॥६६॥

दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ।

अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः

॥६७॥

कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।

रूपं देहि यशो देहि भोगं देहि च शंकर

॥६८॥

भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते ।

ततो देयं शिवायैव नैवेद्यं विविधं शुभम्

॥६९॥

तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ।

ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च

॥७०॥

कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ।

पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले

॥७१॥

एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ।

ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत्

॥७२॥

यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।

गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः

॥७३॥

गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।

यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः

॥७४॥

स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।

ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः

॥७५॥

नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ।

ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः

॥७६॥

शंकराय परेशाय शिवसंतोषहेतवे ।

अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया

॥७७॥

कृतं तदस्तु सफलं कृपया तव शंकर ।

तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड

॥७८॥

इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।

भूमौ स्खलितवादानां भूमिरेवावलंबनम्

॥७९॥

त्वयि जातापराधानां त्वमेव शरणं प्रभो ।

इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः

॥८०॥

पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः ।

स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो ।

पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात् ।

इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्

॥८२॥

विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत् ।

इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।

भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ

॥८३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ॥ १३ ॥