मुनिप्रश्नवर्णनः
श्रीगणेशायः नमः
श्रीगौरीशंकराभ्यां नमः
अथ द्वितीया रुद्रसंहिता प्रारभ्यते
विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपर्तिविदिततत्त्वमनन्तकीर्तिम् ।
मायाश्रयम्विगतमायमचिंत्यरूपम्बोधस्वरूपममलं हि शिवन्नमामि
॥१॥वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि ।
स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः
॥२॥वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे ।
जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम्
॥३॥व्यास उवाच
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम् ।
तत्पुत्रश्च गणाधीशन्नत्वैतद्वर्णयामहे
॥४॥एकदा मुनयस्सर्वे नैमिषारण्य वासिनः ।
पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः
॥५॥ऋषय ऊचुः
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ।
साध्यसाधनखंडा ख्या रम्याद्या भक्तवत्सला
॥६॥सूत सूत महाभाग चिरञ्जीव सुखी भव ।
यच्छ्रावयसि नस्तात शांकरीं परमां कथाम्
॥७॥पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम् ।
अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ
॥८॥व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ।
नाज्ञातम्विद्यते किंचिद्भूतं भब्यं भवच्च यत्
॥९॥गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ।
सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः
॥१०॥इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ।
दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः
॥११॥अगुणो गुणतां याति कथं लोके महेश्वरः ।
शिवतत्त्वं वयं सर्वे न जानीमो विचारतः
॥१२॥सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः
॥१३॥तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः ।
कथम्प्रसन्नतां याति शंकरो लोकशंकरः
॥१४॥स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ।
स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः
॥१५॥सद्यः प्रसन्नो भगवान्भवतीत्यनुशश्रुम ।
भक्तप्रयासं स महान्न पश्यति दयापरः
॥१६॥ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः ।
महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः
॥१७॥तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो
॥१८॥तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ
॥१९॥व्यास उवाच
इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः।
स्मृत्वा शंभुपदांभोजम्प्रत्युवाच मुनीश्वरान्
॥२०॥सूत उवाच
सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः ।
सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः
॥२१॥सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ।
वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा
॥२२॥शंभोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।
विना पशुघ्नं त्रिविधजनानन्दकरात्सदा
॥२३॥गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ।
मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै
॥२४॥कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ।
शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात्
॥२५॥भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ।
पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा
॥२६॥ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः ।
जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम्
॥२७॥व्यास ।
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ।
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः
॥२८॥ऋषय ऊचुः
सूत सूत महाभाग शैवोत्तम महामते ।
श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम्
॥२९॥कदा बभूव सुखकृद्विधिनारदयोर्महान् ।
संवादो यत्र गिरिशसु लीला भवमोचिनी
॥३०॥विधिनारदसंवादपूर्वकं शांकरं यशः ।
ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः
॥३१॥इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः
॥३२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥