मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय १७

3
रुद्रसंहिता · सृष्टिखण्डः · 17

गुणनिधिचरित्रवर्णनः

सूत उवाच

इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।

पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः

॥१॥

नारद उवाच

कदागतो हि कैलासं शंकरो भक्तवत्सलः ।

क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना

॥२॥

किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ।

एतत्सर्वं समाचक्ष्व परं कौतूहलं मम

॥३॥

ब्रह्मोवाच

शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ।

यथा जगाम कैलासं सखित्वं धनदस्य च

॥४॥

असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः ।

दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः

॥५॥

वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः ।

राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः

॥६॥

अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ।

सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः

॥७॥

आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः ।

कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः ।

अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत्

॥८॥

आदायादाय बहुशो धनं मातुस्सकाशतः ।

समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः

॥९॥

संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः ।

निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः

॥१०॥

स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ।

नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः

॥११॥

प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम् ।

गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम्

॥१२॥

यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः ।

न दृश्यते मया गेहे कल्याणि विदधाति किम्

॥१३॥

तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।

स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्

॥१४॥

अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ ।

एकपुत्रेति तन्माता प्रतारयति दीक्षितम्

॥१५॥

न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ।

सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे

॥१६॥

अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च ।

गृह्योक्तेन विधानेन पाणिग्राहमकारयम्

॥१७॥

प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु ।

शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ।

क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ।

यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति

॥१९॥

आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ।

लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः

॥२०॥

ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः ।

किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः

॥२१॥

सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः ।

इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः

॥२२॥

त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ।

सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर

॥२३॥

तातानुरूपो रूपेण यशसा कुलशीलतः ।

ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम्

॥२४॥

ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।

एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव

॥२५॥

श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः ।

ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत

॥२६॥

मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ।

तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः

॥२७॥

पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान् ।

गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान्

॥२८॥

राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।

श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति

॥२९॥

बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ।

अनंतरं हरिष्यंति युक्तां दीक्षिततामिह

॥३०॥

सर्वेप्याक्षारयिष्यंति तव तातं च मामपि ।

मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति

॥३१॥

पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ।

तदंघ्रिलीनमनसो मम साक्षी महेश्वरः

॥३२॥

न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम् ।

अहो बलीयान्स विधिर्येन जातो भवानिति

॥३३॥

प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः ।

न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः

॥३४॥

मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ।

स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः

॥३५॥

यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।

अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम्

॥३६॥

न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ।

चोरयित्वैकदादाय दुरोदरकरेऽर्पयत्

॥३७॥

दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे ।

उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका

॥३८॥

पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः ।

मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा

॥३९॥

लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ।

मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः

॥४०॥

न केवलं ममैवैतदंगुलीयं समर्पितम् ।

अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु

॥४१॥

रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च ।

भाजनानि विचित्राणि कांस्यताम्रमयानि च

॥४२॥

नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ।

न तेन सदृशः कश्चिदाक्षिको भूमिमंडले

॥४३॥

अद्यावधि त्वया विप्र दुरोदर शिरोमणिः ।

कथं नाज्ञायि तनयोऽविनयानयकोविदः

॥४४॥

इति श्रुत्वा त्रपाभारविनम्रतरकंधरः ।

प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम्

॥४५॥

महापतिव्रतामस्य पत्नी प्रोवाच तामथ ।

स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः

॥४६॥

यज्ञदत्त उवाच

दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः ।

अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका

॥४७॥

अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ।

सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे

॥४८॥

इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ।

प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ

॥४९॥

व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ।

समयोऽयमतिक्रामेदतिथीनां प्रियातिथे

॥५०॥

इदानीमेव पक्वान्नकारणव्यग्रया मया ।

स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम्

॥५१॥

दीक्षित उवाच

हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।

यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति

॥५२॥

तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ।

अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः

॥५३॥

कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः ।

लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज

॥५४॥

सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः ।

पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता

॥५५॥

क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।

नागदंतमयी सा क्व सुखकौतुक मंचिका

॥५६॥

क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता ।

दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका

॥५७॥

किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।

तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा

॥५८॥

अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ।

उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम्

॥५९॥

अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ।

त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी

॥६०॥

स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ।

श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः

॥६१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ॥ १७ ॥