श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च
ब्रह्मोवाच
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ।
कांचिद्दिशं समालोक्य निर्ययौ दीक्षितांगजः
॥१॥कियच्चिरं ततो गत्वा यज्ञदत्तात्मजस्स हि ।
दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः
॥२॥चिंतामवाप महतीं क्व यामि करवाणि किम् ।
नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम्
॥३॥देशांतरे यस्य धनं स सद्यस्सुखमेधते ।
भयमस्ति धने चौरात्स विघ्नस्सर्वतोभवः
॥४॥याजकस्य कुले जन्म कथं मे व्यसनं महत् ।
अहो बलीयान्हि विधिर्भाविकर्मानुसंधयेत्
॥५॥भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित् ।
न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत्
॥६॥सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् ।
दद्यादद्यात्र कं याचे न चेह जननी मम
॥७॥ब्रह्मोवाच
इति चिंतयतस्तस्य बहुशस्तत्र नारद ।
अति दीनं तरोर्मूले भानुरस्ताचलं गतः
॥८॥एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः ।
सहोपहारानादाय नगराद्बहिरभ्यगात्
॥९॥नानाविधान्महादिव्यान्स्वजनैः परिवारितः ।
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः
॥१०॥शिवालयं प्रविश्याथ स भक्तश्शिवसक्तधीः ।
यथोचितं सुचित्तेन पूजयामास शंकरम्
॥११॥पक्वान्नगंधमाघ्राय यज्ञदत्तात्मजो द्विजः ।
पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात्
॥१२॥इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि ।
सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत्
॥१३॥इत्याशामवलम्ब्याथ द्वारि शंभोरुपाविशत् ।
ददर्श च महापूजां तेन भक्तेन निर्मिताम्
॥१४॥विधाय नृत्यगीतादि भक्तास्सुप्ताः क्षणे यदा ।
नैवेद्यं स तदादातुं भर्गागारं विवेश ह
॥१५॥दीपं मंदप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः ।
निजचैलांजलाद्वर्तिं कृत्वा दीपं प्रकाश्य च
॥१६॥यज्ञदत्तात्मजस्सोऽथ शिवनैवेद्यमादरात् ।
जग्राह सहसा प्रीत्या पक्वान्न वहुशस्ततः
॥१७॥ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः ।
तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत
॥१८॥कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यता मसौ ।
इति चुक्रोश स जनो गिरा भयमहोच्चया
॥१९॥यावद्भयात्समागत्य तावत्स पुररक्षकैः ।
पलायमानो निहतः क्षणादंधत्वमागतः
॥२०॥अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने ।
शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः
॥२१॥अथ बद्धस्समागत्य पाशमुद्गरपाणिभिः ।
निनीषुभिः संयमनीं याम्यैस्स विकटैर्भटैः
॥२२॥तावत्पारिषदाः प्राप्ताः किंकि णीजालमालिनः ।
दिव्यं विमानमादाय तं नेतुं शूलपाणयः
॥२३॥शिवगणा ऊचुः
मुंचतैनं द्विजं याम्या गणाः परम धार्मिकम् ।
दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसंचयः
॥२४॥इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः ।
महादेवगणानाहुर्बभूवुश्चकिता भृशम्
॥२५॥शंभोर्गणानथालोक्य भीतैस्तैर्यमकिंकरैः ।
अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः
॥२६॥यमगणा ऊचुः
कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः ।
सत्यशौचपरिभ्रष्टस्संध्यास्नानविवर्जितः
॥२७॥आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलंघकः ।
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम्
॥२८॥शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलंघकाः ।
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत्
॥२९॥विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम् ।
सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि
॥३०॥यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ।
अस्ति चेद्धर्मलेशोस्य गणास्तं शृणुमो वयम्
॥३१॥इत्थं तद्वाक्यमाकर्ण्य यामानां शिवकिंकराः ।
स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान्
॥३२॥शिवकिंकरा ऊचुः
किंकराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः ।
स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः
॥३३॥अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् ।
यज्ञदत्तात्मजेनाथ सावधानतया गणाः
॥३४॥पतंती लिंगशिरसि दीपच्छाया निवारिता ।
स्वचैलांचलतोऽनेन दत्त्वा दीपदशां निशि
॥३५॥अपरोपि परो धर्मो जातस्तत्रास्य किंकरः ।
शृण्वतः शिवनामानि प्रसंगादपि गृह्णताम्।
ऽ
॥३६॥भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ।
उपोषितेन भूतायामनेनास्थितचेतसा
॥३७॥शिवलोकमयं ह्यद्य गंतास्माभिस्सहैव तु ।
कंचित्कालं महाभोगान्करिष्यति शिवानुगः
॥३८॥कलिंगराजो भविता ततो निर्धूतकल्मषः ।
एष द्विजवरो नूनं शिवप्रियतरो यतः
॥३९॥अन्यत्किंचिन्न वक्तव्यं यूयं यात यथागतम् ।
यमदूतास्स्वलोकं तु सुप्रसन्नेन चेतसा
॥४०॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर ।
यथागतं ययुस्सर्वे यमलोकं पराङ्मुखाः
॥४१॥सर्वं निवेदयामासुश्शमनाय गणा मुने ।
तद्वृत्तमादितः प्रोक्तं शंभुदूतैश्च धर्मतः
॥४२॥धर्मराज उवाच
सर्वे शृणुत मद्वाक्यं सावधानतया गणाः ।
तदेव प्रीत्या कुरुत मच्छासनपुरस्सरम्
॥४३॥ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
॥४४॥उद्धूलनकरा ये हि विभूत्या सितया गणाः ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
॥४५॥शिववेषतया लोके येन केनापि हेतुना ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
॥४६॥ये रुद्राक्षधरा लोके जटाधारिण एव ये ।
ते सवे परिहर्तव्या नानेतव्याः कदाचन
॥४७॥उपजीवनहेतोश्च शिववेषधरा हि ये ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
॥४८॥दंभेनापि च्छलेनापि शिववेषधरा हि ये ।
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
॥४९॥एवमाज्ञापयामास स यमो निज किंकरान् ।
तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः
॥५०॥ब्रह्मोवाच
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः ।
शिवलोकं जगामाशु तैर्गणैश्शुचिमानसः
॥५१॥तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ ।
अरिंदमस्य तनयः कलिंगाधिपतेरभूत्
॥५२॥दम इत्यभिधानोऽभूच्छिवसेवापरायणः ।
बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः
॥५३॥क्रमाद्राज्यमवापाथ पितर्युपरते युवा ।
प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः
॥५४॥नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः ।
शिवालयेषु सर्वेषु दीपदानादृते द्विजः
॥५५॥ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् ।
इत्थमाज्ञापयामास दीपा देयाश्शिवालये
॥५६॥अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति ।
दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम्
॥५७॥यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः ।
तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम्
॥५८॥ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम् ।
इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम्
॥५९॥अनेनैव स धर्मेण यावज्जीवं दमो नृपः ।
धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः
॥६०॥स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै ।
अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः
॥६१॥एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ।
इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः
॥६२॥क्व स दीक्षितदायादः सर्वधर्मारतिः सदा ।
शिवालये दैवयोगाद्यातश्चोरयितुं वसु ।
स्वार्थदीपदशोद्योतलिंगमौलितमोहरः
॥६३॥कलिंगविषये राज्यं प्राप्तो धर्मरतिं सदा ।
शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात्
॥६४॥कैषा दिक्पालपदवी मुनीश्वर विलोकय ।
मनुष्यधर्मिणानेन सांप्रतं येह भुज्यते
॥६५॥इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि ।
चरितं शिवसंतोषं शृण्वतां सर्वकामदम्
॥६६॥सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् ।
तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते
॥६७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्यु पाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥