मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय १०

3
रुद्रसंहिता · सृष्टिखण्डः · 10

शिवतत्त्ववर्णनम्

परमेश्वर उवाच

अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत ।

सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि

॥१॥

ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ।

तदा त्वं सर्वदुःखानां नाशाय तत्परो भव

॥२॥

सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ।

तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान्

॥३॥

विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ।

विस्तारय हरे लोके तारणाय परो भव

॥४॥

गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ।

कार्यं करिष्ये लोकानां तवाशक्यं न संशयः

॥५॥

रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ।

युवयोरन्तरन्नैव तव रुद्रस्य किंचन

॥६॥

वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ।

लीलयापि महाविष्णो सत्यं सत्यं न संशयः

॥७॥

रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ।

तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति

॥८॥

नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ।

मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः

॥९॥

लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ।

ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु

॥१०॥

इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ।

कथयामास दुःखेषु सहायो भव सर्वदा

॥११॥

सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ।

भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः

॥१२॥

सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ।

संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे

॥१३॥

त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः ।

अंतरं यश्च जानाति निरये पतति ध्रुवम्

॥१४॥

आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ।

संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम्

॥१५॥

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।

रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह

॥१६॥

तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः ।

शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्

॥१७॥

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ।

सोऽपि वर्षशतं यावदात्ममानेन जीवति

॥१८॥

वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम् ।

हरो वर्षशते याते नररूपेण संस्थितः

॥१९॥

यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ।

पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत्

॥२०॥

निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ।

ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम्

॥२१॥

एकविंशसहस्राणि शतैः षड्भिश्शतानि च ।

अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ

॥२२॥

षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ।

घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा

॥२३॥

निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ।

सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः

॥२४॥

इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ।

तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः

॥२५॥

ब्रह्मोवाच

इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः ।

प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी

॥२६॥

विष्णुरुवाच

शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ।

सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः

॥२७॥

मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ।

भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया

॥२८॥

क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ।

चेतसो दूरतो नैव निर्गच्छतु कदाचन

॥२९॥

मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ।

तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम्

॥३०॥

त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ।

एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा

॥३१॥

महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ।

कदाचिदगुणश्चैव जायते क्षम्यतामिति

॥३२॥

ब्रह्मोवाच

तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ।

उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया

॥३३॥

एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ।

पस्पर्श सकलांगेषु कृपया तु कृपानिधिः

॥३४॥

आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ।

ददौ वराननेकांश्चावयोर्हितचिकीर्षया

॥३५॥

ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ।

दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः

॥३६॥

तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ।

लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः

॥३७॥

लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ।

लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत्

॥३८॥

यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ।

षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा

॥३९॥

यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ।

तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने

॥४०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ १० ॥