मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय १९

3
रुद्रसंहिता · सृष्टिखण्डः · 19

पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात्

ब्रह्मोवाच

पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात् ।

पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः

॥१॥

तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।

आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा

॥२॥

व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।

याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम्

॥३॥

भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ।

पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम्

॥४॥

शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः ।

अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः

॥५॥

शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम् ।

कामक्रोधमहाविघ्नपतंगाघात वर्जितम्

॥६॥

प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ।

संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम्

॥७॥

तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ।

यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम्

॥८॥

ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम् ।

अलकापतिमालोक्य प्रसन्नेनांतरात्मना

॥९॥

लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम् ।

उवाच वरदोऽस्मीति तदाचक्ष्वालकापते

॥१०॥

उन्मील्य नयने यावत्स पश्यति तपोधनः ।

तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम्

॥११॥

पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम् ।

तत्तेजः परिभूताक्षितेजाः संमील्य लोचने

॥१२॥

उवाच देवदेवेशं मनोरथपदातिगम् ।

निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे

॥१३॥

अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।

किमन्येन वरेणेश नमस्ते शशिशेखर

॥१४॥

इति तद्वचनं श्रुत्वा देवदेव उमापतिः ।

ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्

॥१५॥

प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ।

तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च

॥१६॥

शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी ।

अनया किं तपस्तप्तं ममापि तपसोऽधिकम्

॥१७॥

अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ।

इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि

॥१८॥

क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन् ।

तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात्

॥१९॥

अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः ।

असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम्

॥२०॥

असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ।

असूयमानो मे रूपप्रेम सौभाग्यसंपद

॥२१॥

इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।

उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा

॥२२॥

संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ।

इति देवीं समाभाष्य तमीशः पुनरब्रवीत्

॥२३॥

वरान्ददामि ते वत्स तपसानेन तोषितः ।

निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः

॥२४॥

यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ।

पतिः पुण्यजनानां च सर्वेषां धनदो भव

॥२५॥

मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ।

अलकां निकषा मित्र तव प्रीतिविवृद्धये

॥२६॥

आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।

याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा

॥२७॥

ब्रह्मोवाच

इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।

प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै

॥२८॥

इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका ।

अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा

॥२९॥

देव्युवाच

वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ।

भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह

॥३०॥

देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते ।

कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत

॥३१॥

इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।

धनदायाविवेशाथ धाम वैश्वेश्वराभिधम्

॥३२॥

इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम् ।

अलकान्निकषा चासीत्कैलासश्शंकरालयः

॥३३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥ १९ ॥