मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय ९

3
रुद्रसंहिता · सृष्टिखण्डः · 9

शिवतत्त्ववर्णनः

ब्रह्मोवाच

अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः ।

प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः

॥१॥

पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ।

गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः

॥२॥

दशबाहुर्नीलगल सर्वाभरणभूषितः ।

सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः

॥३॥

तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ।

तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह

॥४॥

निगमं श्वासरूपेण ददौ तस्मै ततो हरः ।

विष्णवे च प्रसन्नात्मा महेशः करुणाकरः

॥५॥

ततो ज्ञानमदात्तस्मै हरये परमात्मने ।

परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने

॥६॥

संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ।

कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम्

॥७॥

विष्णुरुवाच

कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।

कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम्

॥८॥

किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ।

सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर

॥९॥

एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ।

कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव

॥१०॥

ब्रह्मोवाच

इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ।

उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः

॥११॥

श्रीशिव उवाच

भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ ।

पश्यतं मां महादेवं भयं सर्वं विमुंचताम्

॥१२॥

मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम ।

इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः

॥१३॥

पूजितो लिंगरूपेण प्रसन्नो विविधं फलम् ।

दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः

॥१४॥

यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ ।

पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम्

॥१५॥

युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ।

गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि

॥१६॥

अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः ।

वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः

॥१७॥

प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम् ।

मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया

॥१८॥

पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ।

सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ

॥१९॥

ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ।

वत्स वत्स हरे त्वं च पालयैवं चराचरम्

॥२०॥

ब्रह्मोवाच

इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम् ।

येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः

॥२१॥

ब्रह्मोवाच

इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः ।

प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः

॥२२॥

विष्णुरुवाच

यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।

भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी

॥२३॥

त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ।

सहायं कुरु नौ तात त्वं परः परमेश्वरः

॥२४॥

आवयोर्देवदेवेश विवादमपि शोभनम् ।

इहागतो भवान्यस्माद्विवादशमनाय नौ

॥२५॥

ब्रह्मोवाच

तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ।

प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम्

॥२६॥

श्रीमहेश उवाच

प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ।

परब्रह्म निर्विकारी सच्चिदानंदलक्षणः

॥२७॥

त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया ।

सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे

॥२८॥

स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे ।

प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः

॥२९॥

मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।

प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः

॥३०॥

मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ।

योहं सोहं न भेदोस्ति पूजाविधिविधानतः

॥३१॥

यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै ।

तथा ममागुणस्यापि संयोगाद्बन्धनं न हि

॥३२॥

शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा ।

न तत्र परभेदो वै कर्तव्यश्च महामुने

॥३३॥

वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ।

अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन

॥३४॥

सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ।

अलंकृतिकृते देव नामभेदो न वस्तुतः

॥३५॥

तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः ।

कारणस्यैव कार्ये च सन्निधानं निदर्शनम्

॥३६॥

ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ।

एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम्

॥३७॥

वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम ।

अहं भवानजश्चैव रुद्रो योऽयं भविष्यति

॥३८॥

एकरूपा न भेदस्तु भेदे वै बंधनं भवेत् ।

तथापि च मदीयं हि शिवरूपं सनातनम्

॥३९॥

मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम् ।

एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः

॥४०॥

श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया ।

भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः

॥४१॥

मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम् ।

गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः

॥४२॥

वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः ।

नामतो वस्तुतो नैव तामसः परिचक्ष्यते

॥४३॥

एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया ।

सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः

॥४४॥

मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ।

इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी

॥४५॥

तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति ।

अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति

॥४६॥

समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा ।

पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम्

॥४७॥

ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति ।

एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः

॥४८॥

सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ।

एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम

॥४९॥

त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ।

ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च

॥५०॥

सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि ।

अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम्

॥५१॥

रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ।

चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम्

॥५२॥

तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः ।

ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः

॥५३॥

मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ।

मद्दर्शने फलं यद्वत्तदेव तव दर्शने

॥५४॥

इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः ।

ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम्

॥५५॥

उभयोरंतरं यो वै न जानाति मनो मम ।

वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः

॥५६॥

महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः ।

त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया

॥५७॥

सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः ।

गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः

॥५८॥

परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः ।

अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः

॥५९॥

अंतस्सत्त्वस्तमोबाह्यस्त्रिजगल्लयकृद्धरः

॥६०॥

अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः ।

एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः

॥६१॥

विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ।

संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया

॥६२॥

तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ।

शिवपूर्णावतारो हि त्रिजगल्लयकारकः

॥६३॥

पाद्मे भविष्यति सुतः कल्पे तव पितामहः ।

तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः

॥६४॥

एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ।

पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः

॥६५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ॥ ९ ॥