मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय ७

3
रुद्रसंहिता · सृष्टिखण्डः · 7

विष्णुब्रह्मविवादवर्णनः

ब्रह्मोवाच

सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम् ।

आविर्बभूव सहसा बहव संकरेच्छया

॥१॥

अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम् ।

अनंतयोजनायाममनंतोच्छ्रायसंयुतम्

॥२॥

कोटिसूर्यप्रतीकाशं सुंदर वचxसंयुतम् ।

अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम्

॥३॥

कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः ।

दक्षिणांगान्निजान्मां कैसाशीxश्शंभुरजीजनत्

॥४॥

स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।

तन्नाभिपंकजादाविर्भावयामास लीलया

॥५॥

एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।

चतुर्मुखो रक्तवर्णस्त्रिपुड्रांकितमस्तकः

॥६॥

तन्मायामोहितश्चाहं नाविदं कमल विना ।

स्वदेहजनकं तात पितरं ज्ञानदुर्बलः

॥७॥

कोहं वा कुत आयातः किं कार्य तु मदीयकम् ।

कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना

॥८॥

इति संशयमापन्नं बुद्धिर्मां समपद्यत ।

किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु

॥९॥

एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।

मत्कर्ता च स वै तत्र भविष्यति न संशयः

॥१०॥

इति बुद्धिं समास्थाय कमलादवरोहयन् ।

नाले नालेगतस्तत्र वर्षाणां शतकं मुने ।

न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।

संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः

॥१२॥

आरुरोहाथ कमलं नालमार्गेण वै मुने ।

कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः

॥१३॥

नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।

क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः

॥१४॥

तदा वाणी समुत्पन्ना तपेति परमा शुभा ।

शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने

॥१५॥

तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।

पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा

॥१६॥

तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः ।

मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह

॥१७॥

शंखचक्रायुधकरो गदापद्मधरः परः ।

घनश्यामलसर्वांगः पीताम्बरधरः परः

॥१८॥

मुकुटादिमहाभूषः प्रसन्नमुखपंकजः ।

कोटिकंदर्पसंकाशस्सन्दष्टो मोहितेन सः

॥१९॥

तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ।

कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम्

॥२०॥

तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ।

नारायणं महाबाहु हर्षितो ह्यभवं तदा

॥२१॥

मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ।

अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः

॥२२॥

ब्रह्मोवाच

कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।

तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु

॥२३॥

प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।

ददर्श निद्राविक्लिन्ननीरजामललोचनः

॥२४॥

मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।

आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत्

॥२५॥

विष्णुरुवाच

स्वागतं स्वागतं वत्स पितामह महाद्युते ।

निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः

॥२६॥

तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ।

रजसा बद्धवैरश्च तमवोचं जनार्दनम्

॥२७॥

ब्रह्मोवाच

भाषसे वत्स वत्सेति सर्वसंहारकारणम् ।

मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ

॥२८॥

कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ।

सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम्

॥२९॥

विश्वात्मानं विधातारं धातारम्पंकजेक्षणम् ।

किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम्

॥३०॥

वेदो मां वक्ति नियमात्स्वयंभुवमजं विभुम् ।

पितामहं स्वराजं च परमेष्ठिनमुत्तमम्

॥३१॥

इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ।

सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः

॥३२॥

विष्णुरुवाच

कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात् ।

विस्मृतोऽसि जगन्नाथं नारायणमनामयम्

॥३३॥

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।

विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्

॥३४॥

नारायणं महाबाहुं सर्वव्याप कमीश्वरम् ।

मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः

॥३५॥

तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ।

शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम्

॥३६॥

कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ।

अहमेव परं ब्रह्म परं तत्त्वं पितामह

॥३७॥

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।

अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम्

॥३८॥

तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।

मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम्

॥३९॥

नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः ।

प्रभावाच्च भवानंगान्यनेकानीह लीलया

॥४०॥

सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ।

तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रियाणि च

॥४१॥

आकाशादीनि भूतानि भौतिकानि च लीलया ।

इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे

॥४२॥

अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ।

ब्रह्मोवाच ।

इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ।

को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः

॥४३॥

किमर्थं भाषसे भूरि वह्वनर्थकरं वचः ।

नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव

॥४४॥

मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ।

हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः

॥४५॥

एवं मम हरेश्चासीत्संगरो रोमहर्षणः ।

प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः

॥४६॥

एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः ।

विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः

॥४७॥

ज्लामालासहस्राढ्यं कालानलशतोपमम् ।

क्षयवृद्धि विनिर्मुक्तमादिमध्यांतवर्जितम्

॥४८॥

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ।

तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः

॥४९॥

मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ।

आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः

॥५०॥

कुत एवात्र संभूतः परीक्षावो ऽग्निसंभवम् ।

अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च

॥५१॥

परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ।

भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हति सत्वरम्

॥५२॥

ब्रह्मोवाच

एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ।

वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने

॥५३॥

तदा प्रभृति मामाहुर्हंसहंसो विराडिति ।

हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति

॥५४॥

सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ।

मनोनिलजवो भूत्वा गत्वोर्द्ध्वं चोर्द्ध्वतः पुरा

॥५५॥

नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा ।

दश योजनविस्तीर्णं शतयोजनमायतम्

॥५६॥

मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ।

कालादित्यसमाभासं दीर्घघोणं महास्वनम्

॥५७॥

ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ।

वाराहाकारमास्थाय गतवांस्तदधौ जवात्

॥५८॥

एवम्बर्षसहस्रं च चरन्विष्णुरधो गतः ।

तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः

॥५९॥

कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ।

बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः

॥६०॥

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ।

तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन

॥६१॥

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।

श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः

॥६२॥

तथैव भगवान्विष्णुश्चांतं कमललोचनः ।

सर्वदेवनिभस्तूर्णमुत्थितस्स महावपुः

॥६३॥

समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ।

मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः

॥६४॥

पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ।

प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति

॥६५॥

अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ।

अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम्

॥६६॥

स्वस्थं चित्तं तदा कृत्वा नमस्कार परायणो ।

बभूवतुरुभावावामहं हरिरपि ध्रुवम्

॥६७॥

जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो ।

नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरन्

॥६८॥

एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ।

आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा

॥६९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं हितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः ॥ ७ ॥