रुद्रावताराविर्भाववर्णनः
नारद उवाच
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ।
श्राविताद्याद्भुता शैवकथा परमपावनी
॥१॥तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ।
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह
॥२॥अनंतरं च यज्जातं माहात्म्यं चरितं तथा ।
सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः
॥३॥ब्रह्मोवाच
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ।
कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया
॥४॥अंतर्हिते तदा देवे शिवरूपे सनातने ।
अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान्
॥५॥मया च विष्णुना रूपं हंसवाराहयोस्तदा ।
संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया
॥६॥नारद उवाच
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ।
कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि
॥७॥हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ।
अन्यद्रूपं विहायैव किमत्र वद कारणम्
॥८॥सूत उवाच
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ।
स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत्
॥९॥ब्रह्मोवाच
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ।
तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत्
॥१०॥अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः ।
हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा
॥११॥विवेको नैव लब्धश्च यतो हंसो व्यलीयत ।
शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद
॥१२॥सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ।
यतो लब्धो विवेकोऽपि न मया हंसरूपिणा
॥१३॥गमनेऽधो वराहस्य गतिर्भवति निश्चला ।
धृतं वाराहरूपं हि विष्णुना वनचारिणा
॥१४॥अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ।
विष्णुना च वराहस्य भुवनावनकारिणा
॥१५॥यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ।
तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः
॥१६॥तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ।
तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक्
॥१७॥इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ।
स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने
॥१८॥अंतर्हिते महादेवे त्वहं लोकपितामहः ।
तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः
॥१९॥नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ।
आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे
॥२०॥विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ।
उपदिश्य च मां तात ह्यंतर्धानमुपागतः
॥२१॥ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ।
वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा
॥२२॥अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ।
पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम्
॥२३॥अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ।
विराड्रूपमभूद्विप्र जलरूपमपश्यतः
॥२४॥ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ।
द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः
॥२५॥तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ।
मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा
॥२६॥विष्णुरुवाच
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ।
ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः
॥२७॥ब्रह्मोवाच
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ।
तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते
॥२८॥विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ।
न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते
॥२९॥प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ।
प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह
॥३०॥इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ।
अनंतरूपमास्थाय प्रविवेश तदंडकम्
॥३१॥सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति
॥३२॥प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ।
सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम्
॥३३॥पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ।
राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः
॥३४॥कैलासनगरं रम्यं सर्वोपरि विराजितम् ।
निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह
॥३५॥ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ।
कदाचिदेव देवर्षे नाशो नास्ति तयोरिह
॥३६॥सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ।
सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम्
॥३७॥सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।
अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः
॥३८॥ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ।
मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात्
॥३९॥तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ।
सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः
॥४०॥तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ।
अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम्
॥४१॥देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ।
तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः
॥४२॥प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ।
अवाक्स्रोता इति ख्यातो मानुषः परसाधकः
॥४३॥महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ।
इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया
॥४४॥त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ।
तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः
॥४५॥वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ।
एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह
॥४६॥कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ।
एषामवांतरो भेदो मया वक्तुं न शक्यते
॥४७॥अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ।
कौमारः सनकादीनां यत्र सर्गो महानभूत्
॥४८॥सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ।
महावैराग्यसंपन्ना अभवन्पंच सुव्रताः
॥४९॥मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ।
शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम्
॥५०॥प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ।
अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद
॥५१॥कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ।
क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः
॥५२॥तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ।
प्रबोधितोहं त्वरितमागतेना हि विष्णुना
॥५३॥तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ।
तपोकारी महद्घोरं परमं मुनिसत्तम
॥५४॥तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ।
अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः
॥५५॥त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ।
आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः
॥५६॥तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ।
सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम्
॥५७॥दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ।
अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः
॥५८॥श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ।
ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून
॥५९॥अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ।
जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति
॥६०॥एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ।
प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम
॥६१॥महादेव उवाच
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ।
अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ
॥६२॥अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ।
सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः
॥६३॥त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ।
मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि
॥६४॥ब्रह्मोवाच
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ।
सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः
॥६५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः ॥ १५ ॥