मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय ३

3
रुद्रसंहिता · सृष्टिखण्डः · 3

नारदमोहवर्णनम्

ऋषय ऊचुः

सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ।

अद्भुतेयं कथा तात वर्णिता कृपया हि नः

॥१॥

मुनौ गते हरिस्तात किं चकार ततः परम् ।

नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि

॥२॥

व्यास उवाच

इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ।

प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः

॥३॥

सूत उवाच

मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे ।

शिवेच्छया चकाराशु माया मायाविशारदः

॥४॥

मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ।

शतयोजनविस्तारमद्भुतं सुमनोहरम्

॥५॥

स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ।

नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम्

॥६॥

तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः ।

सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः

॥७॥

चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः ।

नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः

॥८॥

एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ।

कौतुकी तन्नृपद्वारं जगाम मदनेधितः

॥९॥

आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ।

उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे

॥१०॥

अथ राजा स्वतनयां नामतश्श्रीमतीं वराम् ।

समानीय नारदस्य पादयोस्समपातयत्

॥११॥

तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ।

केयं राजन्महाभागा कन्या सुरसुतोपमा

॥१२॥

तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः ।

दुहितेयं मम मुने श्रीमती नाम नामतः

॥१३॥

प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ।

सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता

॥१४॥

अस्या भाग्यं वद मुने सर्वं जातकमादरात् ।

कीदृशं तनयेयं मे वरमाप्स्यति तद्वद

॥१५॥

इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः ।

समाभाष्य स राजानं नारदो वाक्यमब्रवीत्

॥१६॥

सुतेयं तव भूपाल सर्वलक्षणलक्षिता ।

महाभाग्यवती धन्या लक्ष्मीरिव गुणालया

॥१७॥

सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ।

अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः

॥१८॥

इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः ।

बभूव कामविवशश्शिवमाया विमोहितः

॥१९॥

चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम् ।

स्वयंवरे नृपालानामेकं मां वृणुयात्कथम्

॥२०॥

सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा ।

तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः

॥२१॥

विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ।

विष्णुलोकं जगामाशु नारदः स्मरविह्वलः

॥२२॥

प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह ।

रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः

॥२३॥

तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि ।

ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्

॥२४॥

नारद उवाच

त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः ।

तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी

॥२५॥

जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी ।

परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम्

॥२६॥

स्वयंवरं चकरासौ भूपतिस्तनयेच्छया ।

चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः

॥२७॥

यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ।

त्वद्रूपं सा विना कंठे जयमालां न धास्यति

॥२८॥

स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ।

वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा

॥२९॥

सुत उवाच

वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ।

शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः

॥३०॥

विष्णुरुवाच

स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव ।

भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे

॥३१॥

इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे ।

स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः

॥३२॥

एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः ।

मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः

॥३३॥

अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः ।

चक्रे स्वयंवरं यत्र राजपुत्रैस्समाकुलम्

॥३४॥

स्वयंवरसभा दिव्या राजपुत्रसमावृता ।

शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभा परा

॥३५॥

तस्यां नृपसभायां वै नारदः समुपाविशत् ।

स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा

॥३६॥

मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम् ।

आननस्य कुरूपत्वं न वेद मुनिसत्तमः

॥३७॥

पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः।

तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः

॥३८॥

तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ।

विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम्

॥३९॥

मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ।

कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम्

॥४०॥

पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ।

मुखं तु वानरस्येव विकटं च भयंकरम्

॥४१॥

इच्छत्ययं नृपसुता वृथैव स्मरमोहितः ।

इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः

॥४२॥

न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ।

पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः

॥४३॥

एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा ।

स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी

॥४४॥

मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ।

तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा

॥४५॥

बभ्राम सा सभां सर्वां मालामादाय सुव्रता ।

वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा

॥४६॥

वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ।

दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा

॥४७॥

न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ।

अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम्

॥४८॥

एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः ।

न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि

॥४९॥

अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ।

अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी

॥५०॥

तामादाय ततो विष्णू राजरूपधरः प्रभुः ।

अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल

॥५१॥

सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति ।

मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः

॥५२॥

तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम् ।

विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ

॥५३॥

गणावूचतुः

हे नारदमुने त्वं हि वृथा मदनमोहितः ।

तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्

॥५४॥

सूत उवाच

इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ।

मुखं ददर्श मुकुरे शिवमायाविमोहितः

॥५५॥

स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम् ।

शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः

॥५६॥

युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि ।

भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती

॥५७॥

श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ ।

न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम्

॥५८॥

स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम् ।

चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा

॥५९॥

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥