मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय १२

3
रुद्रसंहिता · सृष्टिखण्डः · 12

सारासारविचारवर्णनः

नारद उवाच

ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।

एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे

॥१॥

ब्रह्मोवाच

एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।

निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः

॥२॥

यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।

आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः

॥३॥

इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।

यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः

॥४॥

तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ।

उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने

॥५॥

तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।

स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः

॥६॥

विष्णुरुवाच

किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।

सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना

॥७॥

ब्रह्मोवाच

इति पृष्टास्तदा तेन विष्णुना च मया सुराः ।

पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ।

विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम्

॥८॥

देवा ऊचुः

नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी

॥९॥

इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।

सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत्

॥१०॥

श्रीभगवानुवाच

ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ।

तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः

॥११॥

दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ।

ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः

॥१२॥

सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ।

ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः

॥१३॥

प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ।

त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः

॥१४॥

संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ।

तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः

॥१५॥

मया च मोहितास्ते वै मायया दूरतः कृताः ।

सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा

॥१६॥

तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ।

सेवनीयो विशेषेण श्रद्धया देवसत्तमः

॥१७॥

शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ।

अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया

॥१८॥

तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ।

तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया

॥१९॥

सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ।

यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत्

॥२०॥

भवभक्तिपरा ये च भवप्रणतचेतसः ।

भवसंस्मरणा ये च न ते दुःखस्यभाजनाः

॥२१॥

भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ।

धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः

॥२२॥

आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ।

ये वांछंति महाभागाः सुखं वा त्रिदशालयम्

॥२३॥

अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ।

पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम्

॥२४॥

योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ।

तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते

॥२५॥

ब्रह्मोवाच

इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ।

लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम्

॥२६॥

तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ।

अहं च मुनिशार्दूल जीवोद्धारपरायणः

॥२७॥

विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च ।

लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम

॥२८॥

ब्रह्मोवाच

लिंगानि कल्पयित्वेवमधिकारानुरूपतः ।

विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः

॥२९॥

तदेव कथयाम्यद्य श्रूयतामृषिसत्तम ।

पद्मरागमयं शक्रो हेम विश्र वसस्सुतः

॥३०॥

पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ।

इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा

॥३१॥

विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ।

आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने

॥३२॥

लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ।

मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः

॥३३॥

मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ।

चांदनं च मयो नागाः प्रवालमयमादरात्

॥३४॥

नवनीतमयं देवी योगी भस्ममयं तथा ।

यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा

॥३५॥

शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम् ।

पारदं पार्थिवं बाणस्समर्चति परेऽपि वा

॥३६॥

एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ।

ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा

॥३७॥

विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया ।

पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः

॥३८॥

तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ।

आगच्छं च स्वकं धाम हर्षनिर्भरमानसः

॥३९॥

तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने ।

शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम्

॥४०॥

ब्रह्मोवाच

श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ।

शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम्

॥४१॥

मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ।

तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः

॥४२॥

अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ।

शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत्

॥४३॥

यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ।

यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत्

॥४४॥

कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।

तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते

॥४५॥

ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ।

यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति

॥४६॥

ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ।

नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम्

॥४७॥

विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ।

नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः

॥४८॥

धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ।

सर्वदा निर्विकारास्ते विद्यया च तयामराः

॥४९॥

परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ।

निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम्

॥५०॥

लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ।

बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्

॥५१॥

कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ।

असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः

॥५२॥

आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ।

स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा

॥५३॥

ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ।

यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम्

॥५४॥

अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ।

निष्कलं सकलं चित्ते सर्वं शिवमयं जगत्

॥५५॥

एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ।

विधिश्चैव तथा नास्ति विहिताविहिते तथा

॥५६॥

यथा जलेषु कमलं सलिलैर्नावलिप्यते ।

तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते

॥५७॥

इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ।

तावच्च कर्मणा देवं शिवमाराधयेन्नरः

॥५८॥

प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः ।

एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु

॥५९॥

दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ।

तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम्

॥६०॥

भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ।

एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः

॥६१॥

हृदि संसारिणः साक्षात्सकलः परमेश्वरः ।

इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः ।

६२ऽ ।

इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ।

पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम्

॥६३॥

आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ।

निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम्

॥६४॥

सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ।

एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा

॥६५॥

देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ।

गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना

॥६६॥

तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ।

ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम्

॥६७॥

एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः ।

स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः

॥६८॥

यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ।

विना पूजनदानादि पातकं न च दूरतः

॥६९॥

यावच्च पातकं देहे तावत्सिद्धिर्न जायते ।

गते च पातके तस्य सर्वं च सफलं भवेत्

॥७०॥

तथा च मलिने वस्त्रे रंगः शुभतरो न हि ।

क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते

॥७१॥

तथा च निर्मले देहे देवानां सम्यगर्चया ।

ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः

॥७२॥

विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ।

ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते

॥७३॥

भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ।

तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ।

' संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ।

पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते

॥७४॥

विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ।

विज्ञानं च यदा जातं तदा भेदो निवर्तते

॥७६॥

भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ।

द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ

॥७७॥

द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ।

विहिताविहिते तस्य न स्यातां च सुरर्षयः

॥७८॥

ईदृशो विरलो लोके गृहाश्रमविवर्जितः ।

यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः

॥७९॥

तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ।

देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम्

॥८०॥

तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि

॥८१॥

यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ।

कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु

॥८२॥

अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ।

मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः

॥८३॥

शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ।

एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः

॥८४॥

सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ।

शिवे च पूजिते देवाः पूजितास्सर्व एव हि

॥८५॥

तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ।

सर्वकामफलावाप्त्यै सर्वभूतहिते रतः

॥८६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ॥ १२ ॥