मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय ११

3
रुद्रसंहिता · सृष्टिखण्डः · 11

सूतसूत महाभाग व्यासशिष्य नमोस्तु ते

ऋषय ऊचुः

सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ।

श्राविताद्याद्भुता शैवकथा परमपावनी

॥१॥

तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ।

श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह

॥२॥

ब्रह्मनारदसंवादमनुसृत्य दयानिधे ।

शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः

॥३॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः ।

कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम्

॥४॥

तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम् ।

उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः

॥५॥

सूत उवाच

साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ।

तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम्

॥६॥

भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा ।

पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना

॥७॥

ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ।

मह्यं च पाठितं तेन लोकानां हितकाम्यया

॥८॥

तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ।

तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा

॥९॥

ब्रह्मोवाच

शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम् ।

वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने

॥१०॥

एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम् ।

पूजयेत्परया भक्त्या सर्वकामफलाप्तये

॥११॥

दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम् ।

पापं चतुर्विधं तावद्यावन्नार्चयते शिवम्

॥१२॥

सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ।

संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते

॥१३॥

ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम् ।

तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः

॥१४॥

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात् ।

शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये

॥१५॥

प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके ।

गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः

॥१६॥

तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ।

ममापि निर्जराणां वै मुन्यादीनां तथा मुने

॥१७॥

ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ।

ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि

॥१८॥

एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम् ।

तदेव कथयाम्यद्य शृण्वाधाय मनो मुने

॥१९॥

शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये ।

क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा

॥२०॥

शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ।

गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः

॥२१॥

दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ।

प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः

॥२२॥

स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम् ।

हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत्

॥२३॥

दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः

॥२४॥

विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः ।

एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम्

॥२५॥

शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ।

कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत्

॥२६॥

षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम् ।

तथा श्राद्धदिनं तात निषिद्धं रदधावने

॥२७॥

स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ।

देशकालविशेषेण स्नानं कार्यं समंत्रकम्

॥२८॥

आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत् ।

एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत्

॥२९॥

यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ।

मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च

॥३०॥

पूजाविधिं समादाय स्वासने ह्युपविश्य वै ।

न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम्

॥३१॥

प्रथमं च गणाधीशं द्वारपालांस्तथैव च ।

दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत्

॥३२॥

अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः ।

उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम्

॥३३॥

आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ।

प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम्

॥३४॥

पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ।

सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम्

॥३५॥

तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा ।

शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम्

॥३६॥

देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात् ।

सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत्

॥३७॥

कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ।

पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत्

॥३८॥

स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि ।

दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा

॥३९॥

तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम् ।

प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान्

॥४०॥

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।

जातीकं कोलकर्पूरवटमूल तमालकम्

॥४१॥

चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ।

एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम्

॥४२॥

पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत् ।

गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम्

॥४३॥

लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ।

यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः

॥४४॥

कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ।

तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम्

॥४५॥

लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ।

प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च

॥४६॥

ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे ।

सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते

॥४७॥

सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम् ।

धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात्

॥४८॥

अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम् ।

सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम्

॥४९॥

वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि ।

सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत्

॥५०॥

ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत् ।

पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत्

॥५१॥

स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा ।

पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च

॥५२॥

प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ।

दध्ना च मधुना चैव तथा चेक्षुरसेन तु

॥५३॥

घृतेन तु यथा पूज्य सर्वकामहितावहम् ।

पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्

॥५४॥

पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः ।

शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः

॥५५॥

तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ।

तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा

॥५६॥

कुशापामार्गकर्पूर जातिचंपकपाटलैः ।

करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः

॥५७॥

अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ।

जलेन जलधाराञ्च कल्पयेत्परमेश्वरे

॥५८॥

पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ।

मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा

॥५९॥

मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ।

प्रवक्ष्यामि समासेन सावधानतया शृणु

॥६०॥

पाठयमानेन मंत्रेण तथा वाङ्मयकेन च ।

रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च

॥६१॥

होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ।

शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च

॥६२॥

अर्थाभीष्टेन साम्ना च तथा देवव्रतेन च

॥६३॥

रथांतरेण पुष्पेण सूक्तेन युक्तेन च ।

मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च

॥६४॥

जलधाराः सहस्रेण शतेनैकोत्तरेण वा ।

कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः

॥६५॥

ततश्चंदनपुष्पादि रोपणीयं शिवोपरि ।

दापयेत्प्रणवेनैव मुखवासादिकं तथा

॥६६॥

ततः स्फटिकसंकाशं देवं निष्कलमक्षयम् ।

कारणं सर्वलोकानां सर्वलोकमयं परम्

॥६७॥

ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ।

वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम्

॥६८॥

आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ।

शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम्

॥६९॥

प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि ।

धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा

॥७०॥

नीराजनेन रम्येण यथोक्तविधिना ततः ।

नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि

॥७१॥

अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च ।

प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम्

॥७२॥

हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ।

प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम्

॥७३॥

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।

कृतं तदस्तु सफलं कृपया तव शंकर

॥७४॥

पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ।

स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा

॥७५॥

मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ।

नमस्कारं ततः क्षांतिं पुनराचमनाय च ।

७६ अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत् ।

प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः

॥७७॥

शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे ।

अन्यथा शरणं नास्ति त्वमेव शरणं मम

॥७८॥

इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ।

पूजयेत्परया भक्त्या गलनादैर्विशेषतः

॥७९॥

नमस्कारं ततः कृत्वा परिवारगणैस्सह ।

प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम्

॥८०॥

एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ।

तस्य वै सकला सिद्धिर्जायते तु पदे पदे

॥८१॥

वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम् ।

रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा

॥८२॥

कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ।

तद्दुःखं नाश यत्येव शिवः शिवकरः परः

॥८३॥

कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ।

वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात्

॥८४॥

इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम ।

अतः परं च शुश्रूषुः किं प्रष्टासि च नारद

॥८५॥

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥ ११ ॥