मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय १४

3
रुद्रसंहिता · सृष्टिखण्डः · 14

शिवपूजाविधानवर्णनः

ऋषय ऊचुः

व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ।

कैः पुष्पैः पूजितश्शंभुः किं किं यच्छति वै फलम्

॥१॥

सूत उवाच

शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ।

कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम्

॥२॥

एष एव विधिः पृष्टो नारदेन महर्षिणा ।

प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम्

॥३॥

ब्रह्मोवाच

कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ।

शंखपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम्

॥४॥

एतैश्च लक्षसंख्याकैः पूजितश्चेद्भवेच्छिवः ।

पापहानिस्तथा विप्र लक्ष्मीस्स्यान्नात्र संशयः

॥५॥

विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ।

बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम्

॥६॥

शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ।

पलैः षोडशभिः प्रत्थः पलं टंकदशस्मृतः

॥७॥

अनेनैव तु मानेन तुलामारोपयेद्यदा ।

सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत्

॥८॥

राज्यस्य कामुको यो वै पार्थिवानां च पूजया ।

तोषयेच्छंकरं देवं दशकोष्ट्या मुनीश्वराः

॥९॥

लिंगं शिवं तथा पुष्पमखण्डं तंदुलं तथा ।

चर्चितं चंदनेनैव जलधारां तथा पुनः

॥१०॥

प्रतिरूपं तथा मंत्रं बिल्वीदलमनुत्तमम् ।

अथवा शतपत्रं च कमलं वा तथा पुनः

॥११॥

शंखपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ।

सर्वकामफलं दिव्यं परत्रेहापि सर्वथा

॥१२॥

धूपं दीपं च नैवेद्यमर्घं चारार्तिक तथा ।

प्रदक्षिणां नमस्कारं क्षमापनविसर्जने

॥१३॥

कृत्वा सांगं तथा भोज्यं कृतं येन भवेदिह ।

तस्य वै सर्वथा राज्यं शंकरः प्रददाति च

॥१४॥

प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ।

कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम्

॥१५॥

रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ।

कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः

॥१६॥

विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ।

वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम्

॥१७॥

उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ।

मारणे वै तु लक्षेण मोहने तु तदर्धतः

॥१८॥

सामंतानां जये चैव कोटिपूजा प्रशस्यते ।

राज्ञामयुतसंख्यं च वशीकरणकर्मणि

॥१९॥

यशसे च तथा संख्या वाहनाद्यैः सहस्रिका ।

मुक्तिकामोर्चयेच्छंभुं पंचकोट्या सुभक्तितः

॥२०॥

ज्ञानार्थी पूजयेत्कोट्या शंकरं लोक शंकरम् ।

शिवदर्शनकामो वै तदर्धेन प्रपूजयेत्

॥२१॥

तथा मृत्युंजयो जाप्यः कामनाफलरूपतः ।

पंचलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः

॥२२॥

लक्षेण भजते कश्चिद्द्वितीये जातिसंभवः ।

तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति

॥२३॥

पंचमं च यदा लक्षं फलं यच्छत्यसंशयम् ।

अनेनैव तु मंत्रेण दशलक्षे फलं भवेत्

॥२४॥

मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ।

लक्षसंख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम

॥२५॥

आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनश्चरेत् ।

पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत्

॥२६॥

रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ।

अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः

॥२७॥

भुक्तिमुक्तिफलं तस्य तुलस्याः पूजयेद्यदि ।

अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा

॥२८॥

जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ।

रोगोच्चाटनकानीह करवीराणि वै क्रमात्

॥२९॥

बंधुकैर्भूषणावाप्तिर्जात्यावाहान्न संशयः ।

अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात्

॥३०॥

शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ।

मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः

॥३१॥

यूथिकाकुसुमैश्शस्यैर्गृहं नैव विमुच्यते ।

कर्णिकारैस्तथा वस्त्रसंपत्तिर्जायते नृणाम्

॥३२॥

निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ।

बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात्

॥३३॥

शृङ्गारहारपुष्पैस्तु वर्द्धते सुख सम्पदा ।

ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः

॥३४॥

राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ।

एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम्

॥३५॥

विद्यते कुसुमं तन्न यन्नैव शिववल्लभम् ।

चंपकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत्

॥३६॥

अतः परं च धान्यानां पूजने शंकरस्य च ।

प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम

॥३७॥

तंदुलारोपणे नॄणां लक्ष्मी वृद्धिः प्रजायते ।

अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि

॥३८॥

षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ।

पलद्वयं तथा लक्षमानेन समदाहृतम्

॥३९॥

पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ।

शिवोपरि न्यसेत्तत्र तंदुलार्पणमुत्तमम् ।

2.1.14.४० उपरि श्रीफलं त्वेकं गंधपुष्पादिभिस्तथा ।

रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत्

॥४१॥

प्रजापत्यद्वयं रौप्यमासंख्या च दक्षिणा ।

देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता

॥४२॥

आदित्यसंख्यया तत्र ब्राह्मणान्भोजयेत्ततः ।

लक्षपूजा तथा जाता साङ्गश्च मन्त्रपूर्वकम्

॥४३॥

शतमष्टोत्तरं तत्र मंत्रे विधिरुदाहृतः ।

तिलानां च पलं लक्षं महापातकनाशनम्

॥४४॥

एकादशपलैरेव लक्षमानमुदाहृतम् ।

पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया

॥४५॥

भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ।

महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम्

॥४६॥

यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ।

प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः

॥४७॥

पलद्वययुतं तत्र मानमेतत्पुरातनम् ।

यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी

॥४८॥

प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ।

गोधूमान्नैस्तथा पूजा प्रशस्ता शंकरस्य वै

॥४९॥

संततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ।

द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम्

॥५०॥

मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ।

प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः

॥५१॥

पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ।

ब्राह्मणाश्च तथा भोज्या रुद्रसंख्याप्रमाणतः

॥५२॥

प्रियंगुपूजनादेव धर्माध्यक्षे परात्मनि ।

धर्मार्थकामा वर्द्धंते पूजा सर्वसुखावहा

॥५३॥

प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः ।

ब्रह्मभोजं तथा प्रोक्तमर्कसंख्याप्रमाणतः

॥५४॥

राजिकापूजनं शंभोश्शत्रोर्मृत्युकरं स्मृतम् ।

सार्षपानां तथा लक्षं पलैर्विशतिसंख्यया

॥५५॥

तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ।

आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम्

॥५६॥

वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ।

मरीचिसंभवा पूजा शत्रोर्नाशकरी स्मृता

॥५७॥

आढकीनां दलैश्चैव रंजयि त्वार्चयेच्छिवम् ।

नानासुखकरी ह्येषा पूजा सर्वफलप्रदा

॥५८॥

धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ।

लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर

॥५९॥

प्रस्थानां च तथा चैकं शंखपुष्पसमुद्भवम् ।

प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना

॥६०॥

प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ।

यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम्

॥६१॥

प्रस्थैर्विंशतिकैश्चैव मल्लिकामान मुत्तमम् ।

तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च

॥६२॥

ततश्च द्विगुणं मानं करवीरभवे स्मृतम् ।

निर्गुंडीकुसुमे मानं तथैव कथितं बुधैः

॥६३॥

कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ।

बंधुजीवे तथा मानं प्रस्थानं दशकेन च

॥६४॥

इत्याद्यैर्विविधै मानं दृष्ट्वा कुर्याच्छिवार्चनम् ।

सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः

॥६५॥

अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ।

यस्य श्रवणमात्रेण कल्याणं जायते नृणाम्

॥६६॥

विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ।

पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः

॥६७॥

ज्वरप्रलापशांत्यर्थं जल धारा शुभावहा ।

शतरुद्रियमंत्रेण रुद्रस्यैकादशेन तु

॥६८॥

रुद्रजाप्येन वा तत्र सूक्तेन् पौरुषेण वा ।

षडंगेनाथ वा तत्र महामृत्युंजयेन च

॥६९॥

गायत्र्या वा नमोंतैश्च नामभिः प्रणवादिभिः ।

मंत्रैवाथागमोक्तैश्च जलधारादिकं तथा

॥७०॥

सुखसंतानवृद्ध्यर्थं धारापूजनमुत्तमम् ।

नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा

॥७१॥

घृतधारा शिवे कार्या यावन्मंत्रसहस्रकम् ।

तदा वंशस्य विस्तारो जायते नात्र संशयः

॥७२॥

एवं मदुक्तमंत्रेण कार्यं वै शिवपूजनम् ।

ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः

॥७३॥

केवलं दुग्धधारा च तदा कार्या विशेषतः ।

शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत्

॥७४॥

तस्या संजायते जीवसदृशी बुद्धिरुत्तमा ।

यावन्मंत्रायुतं न स्यात्तावद्धाराप्रपूजनम्

॥७५॥

यदा चोच्चाटनं देहे जायते कारणं विना ।

यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम्

॥७६॥

स्वगृहे कलहो नित्यं यदा चैव प्रजायते ।

तद्धारायां कृतायां वै सर्वं दुःखं विलीयते

॥७७॥

शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ।

कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्धुवं भवेत्

॥७८॥

मासि तेनैव तैलेन भोगवृद्धिः प्रजायते ।

सार्षपेनैव तैलेन शत्रुनाशो -भवेद्ध्रुवम्

॥७९॥

मधुना यक्षराजो वै गच्छेच्च शिवपूजनात ।

धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे

॥८०॥

धारा गंगाजलस्यैव भुक्तिमुक्तिफलप्रदा ।

एतास्सर्वाश्च याः प्रोक्ता मृत्यंजयसमुद्भवाः

॥८१॥

तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ।

कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसंख्यया

॥८२॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ।

एतद्वै सफलं लोके सर्वकामहितावहम्

॥८३॥

स्कंदोमासहितं शंभुं संपूज्य विधिना सह ।

यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम्

॥८४॥

अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ।

ततो याति महेशस्य लोकं सर्वसुखावहम्

॥८५॥

सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ।

रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः

॥८६॥

क्रीडते शिवभूतश्च यावदाभूतसंप्लवम् ।

ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम्

॥८७॥

इति श्रीशिवमहापुराणे प्रथम खंडे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ॥ १४ ॥