नारदप्रश्नवर्णनः
सूत उवाच
अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः ।
विचचार महीं पश्यञ्छिवलिंगानि भक्तितः
॥१॥पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ।
ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः
॥२॥अथ तं विचरंतं कौ नारदं दिव्यदर्शनम् ।
ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः
॥३॥शिरसा सुप्रणम्याशु गणावूचतुरादरात् ।
गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ
॥४॥शिवगणावूचतुः
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्या वयोर्वचः ।
तवापराधकर्तारावावां विप्रौ न वस्तुतः
॥५॥आवां हरगणौ विप्र तवागस्कारिणौ मुने ।
स्वयम्बरे राजपुत्र्या मायामोहितचेतसा
॥६॥त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ।
ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम्
॥७॥स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ।
सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ
॥८॥सूत उवाच
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ।
प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः
॥९॥नारद उवाच
शृणुतं मे महादेव गणा मान्यतमौ सताम् ।
वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम् ।
! 2.1.5.१० ।
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशात् युवम् ।
सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः
॥११॥यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ।
शापोद्धारमहं वच्मि क्षमथा मघमद्य मे
॥१२॥वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ।
स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ
॥१३॥सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रियौ ।
शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः
॥१४॥सूत उवाच
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ।
उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा
॥१५॥नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ।
विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः
॥१६॥काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम् ।
शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम्
॥१७॥दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ।
आनर्च परम प्रीत्या परमानन्दसंयुतः
॥१८॥स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ।
नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः
॥१९॥ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ।
शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः
॥२०॥नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ।
पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः
॥२१॥नारद उवाच
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ।
त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम्
॥२२॥भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ।
दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम्
॥२३॥न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ।
चरित्रं विविधं तस्य निवेदय मम प्रभो
॥२४॥निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम् ।
शिवतत्त्वं न जानामि मोहितश्शिवमायया
॥२५॥सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः
॥२६॥तदन्ते च कथं देवस्स तिष्ठति महेश्वरः ।
कथं प्रसन्नतां याति शंकरो लोकशंकरः
॥२७॥संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ।
किं फलं यच्छति विधे तत्सर्वं कथयस्व मे
॥२८॥सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ।
भक्तप्रयासं स महान्न पश्यति दयापरः
॥२९॥ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः ।
महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः
॥३०॥तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा विभो
॥३१॥तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ
॥३२॥तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः ।
प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च
॥३३॥बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो ।
अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि
॥३४॥इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि ।
उवाच वचनं तत्र ब्रह्मा लोकपितामहः
॥३५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः ॥ ५ ॥