दुन्नाविल्लहृद्गिरिस्थानमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि दुन्नाविल्लेति विश्रुतम् ॥
योजनस्यांतरे देवि पश्चिमे मंगलस्थितेः
॥१॥दुन्नको यत्र भीमेन भुक्त्वा त्यक्तः पुरा प्रिये ॥
तत्रैव विवरं दिव्यं महा पातालमार्गदम्
॥२॥तस्य कल्पः पुरा प्रोक्तः पातालोत्तरसंग्रहे ॥
तत्र लिंगान्यनेकानि सिद्धस्थानानि षोडश
॥३॥सुवर्णस्याकरः पूर्वं तत्स्थानमभवत्प्रिये ॥
तस्मिन्स्थाने नरैर्देवि गन्तव्यं भूतिलिप्सया
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दुन्नाविल्लहृद्गिरिस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥