वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनम्
[[File:Bhavnath Mahadev.jpg|thumb|600px|भवनाथमहादेवः ]] ॥
ईश्वर उवाच ॥
ततो गच्छेन्महादेवि क्षेत्रं वस्त्रापथं पुनः ॥
यत्प्रभासस्य सर्वस्वं क्षेत्रं नाभिः प्रियं मम
॥१॥यत्र साक्षाद्भवो देवः सृष्टिसंहारकारकः ॥
पृथिव्यां स त्वधिष्ठाता तत्त्वानामादिमः प्रभुः
॥२॥स स्वयंभूः स्थितस्तत्र प्रभासे भूतिदो भवः ॥
भवतीदं जगद्यस्मात्तस्माद्भव इति स्मृतः
॥३॥यः सकृत्कुरुते यात्रां क्षेत्रे वस्त्रापथे पुनः ॥
विगाह्य तत्र तीर्थानि कृतकृत्यः स जायते
॥४॥अथ दृष्ट्वा भवं देवं सकृत्पूज्यविधानतः ॥
केदारयात्राफलभाक्स भवेन्मनुजोत्तमः
॥५॥चैत्रे मासि भवं दृष्ट्वा न पुनर्जायते भुवि ॥
वैशाख्यामथवा सम्यग्भवं दृष्ट्वा विमुच्यते
॥६॥वाराणस्यां कुरुक्षेत्रे नर्मदायां तु यत्फलम् ॥
तत्फलं निमिषार्द्धेन भवं दृष्ट्वा दिनेदिने
॥७॥दुर्ल्लभस्तत्र वासस्तु दुर्ल्लभं भवदर्शनम् ॥
प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा
॥८॥येषां भवालये प्राणा गता वै वरवर्णिनि ॥
धन्यानामपि धन्यास्ते देवानामपि देवताः
॥९॥वस्त्रापथे मतिर्येषां भवे येषां मतिः स्थिरा ॥
गोदानं तत्र शंसंति ब्राह्मणानां च भोजनम् ॥
पिंडदानं च तत्रैव कल्पांतं तृप्तिमा वहेत्
॥१०॥इति संक्षेपतः प्रोक्तं माहात्म्यं ते भवोद्भवम् ॥
श्रुतं पापोपशमनं यज्ञायुतफलप्रदम्
॥११॥इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥