मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १५

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 15

श्रीदामोदरमाहात्म्यवर्णनम्

सारस्वत उवाच

अथासौ वामनो विप्रो लब्धज्ञानो भवार्चने ॥

जगाम तद्वनं रम्यं गिरे रैवतकस्य यत्

॥१॥

यत्र वृक्षा बहुविधा दीर्घशाखाः फलान्विताः ॥

वटोदुम्बरबिल्वाश्च सर्जार्जुनकदंबकाः

॥२॥

पलाशाश्वत्थनिंबाश्च धवाटीवारुणीद्रुमाः ॥

शमीकंकोललिंबांश्च बीजपूरी च दाडिमः

॥३॥

बदरी निंबकः पूगः कदली शल्लकी शिवा ॥

तालहिंतालशिरसा बीजकावंशखादिराः

॥४॥

अजगासनगागुच्छा इंगुदीकोरवेंगुदाः ॥

ब्रह्मवृक्षाः कुरुबकाः करंजाः पुत्रजीविनः

॥५॥

अंकोल्लाः पारिभद्राश्च कलंबाः पनसास्तथा ॥

उज्ज्वलाश्च हरिद्राश्च गंगडीवायवा द्रुमाः

॥६॥

तेसुण्डकाः शिरीषाश्च खर्जूरीकरवंदिकाः ॥

सेवाली शाल्मली शाला मधूकाश्च विभीतकाः

॥७॥

हरीतक्यः कटाहाश्च कर्यष्टा आटरूषकाः ॥

विकच्छवः कपित्थाश्च रोहिणीवेत्रकद्रुमाः

॥८॥

मदनफलानिर्गुण्डीपाटलानंदिपादपाः ॥

लवंगैलालवल्यश्च सन्ताना अगरुद्रुमाः

॥९॥

श्रीखण्डकर्पूरनगाः कल्पवृक्षा नगोतमाः ॥

वामनेन तदा दृष्टाश्छायावृक्षाः सुरार्चिताः

॥१०॥

उदयास्तमने येषां छाया न प्रतिहन्यते ॥

तेषां दर्शनमात्रेण सर्वपापक्षयो भवेत्

॥११॥

ये जनाः पुण्यकर्माणस्तेषां ते दृष्टिगोचराः ॥

एतान्पश्यन्ययौ वृक्षांस्ततो रैवतकं गिरिम्

॥१२॥

यावन्निरीक्षते तुंगं शिखरं तस्य मूर्द्धनि ॥

आश्चर्यं ददृशे विप्रो महल्लोकभयंकरम्

॥१३॥

धूमज्वलनमध्यस्थान्पुरुषान्पंच पश्यति ॥

कृष्णांगान्खेचरान्रौद्रान्कृष्णागुरुविभूषितान्

॥१४॥

सारमेय समारूढान्करिहस्तान्समेखलान् ॥

खङ्गखेटकहस्तांश्च डमरुड्डामरस्वनान् ॥

सघर्घरीकचरणन्यासनादितपर्वतान् ॥

फेत्कारभासुराकारान्काशकुञ्चितमूर्द्धजान्

॥१६॥

नरमांसवसासारकवलव्यग्रतालुकान् ॥

जनगंधसमाज्ञानभवतीव्रविलोचनान्

॥१७॥

पञ्चाग्निसाधनाव्याप्तदिव्यचक्षुः प्रभावतः ॥

देवान्पश्यति विप्रेन्द्रो ज्ञातकार्यपरंपरः

॥१८॥

एते क्षेत्राधिपाः पञ्च महादेवेन निर्मिताः ॥

महाबला रैवतके निवसंति गिरौ सदा

॥१९॥

स्वेच्छाचारान्नरान्मर्त्त्यान्वारयति नगे तथा ॥

हरिं हरं नदीं देवीं न पश्यंति गिरिं यथा

॥२०॥

दृष्ट्वा ज्ञात्वा स्तुतिं चक्रे ध्यात्वा देवं महेश्वरम् ॥

जयंति दुष्टदैत्येंद्रयुद्धध्यानांकितं वपुः ॥

बिभ्रति भ्रातरो ये ते पंचेंद्रसमविक्रमाः

॥२१॥

रुद्रवक्त्रोद्भवा दक्षा दक्षाध्वरविनाशकाः ॥

स्वावलीढाहुतीनष्टभीतवाडवनंदिताः

॥२२॥

कुङ्कुमागरुकर्पूरलिप्तांगाः सुविभूषिताः ॥

मदिरामोदमत्तांगनृत्यगीतकराः सुराः

॥२३॥

ब्रह्मांडभ्रमणश्रांत स्वगंधत्रस्तसंचराः ॥

मनोजवाः कामगमा क्षेत्रपाला जयंति ते

॥२४॥

इत्यादिवचनात्तुष्टा द्विजस्याग्रे स्वयं स्थिताः ॥

एकपादोऽस्म्यहं चैको द्वितीयो गिरिदारुणः

॥२५॥

तृतीयो मेघनादस्तु सिंहनादश्चतुर्थकः ॥

पंचमः कालमेघोऽहं कुर्मः किं ते वदस्व तत्

॥२६॥

द्विज उवाच

यदि तुष्टा भवंतो मे यदि देयो वरो धुवम् ॥

अहो आप्रलयं यावत्स्थातव्यं मत्प्रतिष्ठितैः

॥२७॥

एकपादो गिरि तटे प्रहर्षात्प्रथमं स्थितः ॥

वसतौ वसता तेन गिरौ च गिरिदारुणः

॥२८॥

प्रतिष्ठितः प्रसाद्याथ वरदोऽसौ स्वयं स्थितः ॥

उज्जयंतगिरेर्मूर्ध्नि मेघनादः स्वयं ययौ

॥२९॥

भवानीशंकरं रम्यं सिंहनादस्तथाविशत् ॥

स्वयं वस्त्रापथेनैव भवस्याग्रे निरूपितः

॥३०॥

स्वणरेखानदीतीरे कालमेघो महाबलः ॥

सर्वलोकोपकारार्थं तीर्थं संस्थापितं पुरा

॥३१॥

वामनेन स्वयं गत्वा क्षेत्रपालास्तु पूजिताः ॥

पुरा युगादौ राजेंद्र सर्वे देवाः समागताः

॥३२॥

सुराष्ट्रदेशे संप्राप्ताः पुण्ये रैवतके गिरौ ॥

रक्षार्थं सर्वलोकानां वधार्थं देववैरिणाम्

॥३३॥

विष्णोः कण्ठे तदा मुक्ता जयमाला सुरोत्तमैः ॥

दामोदरेति विख्यातं दत्तं नामोत्तमं हरेः

॥३४॥

तत्रादौ कार्तिके शुक्ले वासरे विष्णुवल्लभे ॥

उपोष्य सहिते देवैस्तत्तीर्थं विष्णुना कृतम्

॥३५॥

सर्वतीर्थमयी पुण्या स्वर्णरेखा नदी स्थिता ॥

भुक्तिमुक्तिप्रदं पुण्यं विष्णुलोकप्रदायकम्

॥३६॥

क्षालनं सर्वपापानां रोगदारिद्र्यनाशनम् ॥

दामोदरं रैवतके परमानंददायकम्

॥३७॥

ये पश्यंति विमानैस्ते नीयंते विष्णुमंदिरे ॥

न गृहे कार्तिकः कार्यो विशेषाद्भीष्मपंचकम्

॥३८॥

पंचकाद्द्वादशी श्रेष्ठा कार्या दामोदरे जले ॥

प्रातःस्नानं प्रकर्त्तव्यं संप्राप्ते कार्तिके जनैः

॥३९॥

मासोपवासः कर्त्तव्यो यतिभिर्ब्रह्मचारिभिः ॥

सतीभिर्विधवाभिश्च मुक्तिस्थानमभीप्सुभिः

॥४०॥

एकभक्तेन नक्तेन तथैवायाचितेन च ॥

उपवासेवन कृच्छ्रेण शाकाहारेण वा पुनः

॥४१॥

संसेव्यः कार्त्तिके विष्णुर्दीपदानपरैर्नरैः ॥

ब्रह्मचर्यपरैर्मासो नीयते यदि मानवैः

॥४२॥

तदा विष्णुपुरे वासः क्रियते विष्णुना सह ॥

पञ्चोपवासाः कर्त्तव्याः संप्राप्ते भीष्मपंचके

॥४३॥

एकादशीं समारभ्य पंचमी पूर्णिमादिनम् ॥

तदेतत्पंचकं प्रोक्तं सर्वपापहरं नृणाम्

॥४४॥

सर्वेषामपि मासानां पञ्चकात्कार्तिकादपि ॥

एकादशी कार्तिकस्य पुण्या दामोदरे कृता

॥४५॥

मिष्टान्नं कार्तिके देयं हविष्यं सघृतप्लुतम् ॥

सुवर्णं रजतं वस्त्रं तोयमन्नं फलानि च

॥४६॥

मासांते विविधं देयं गौस्तिलाः कुसुमानि च ॥

सर्वदानेषु यत्पुण्यं सर्व तीर्थेषु यत्फलम्

॥४७॥

अश्वमेधादिभिर्यज्ञैर्गयायां पिंडदस्य यत् ॥

तत्फलं जायते नॄणां दृष्टे दामोदरे नृप

॥४८॥

एकादश्यां कृतस्नानो देव पूजापरो भवेत् ॥

स्नाप्य पञ्चामृतेनैव ततस्तीर्थोदकेन च

॥४९॥

कुंकुमागरुश्रीखंडकर्पूरोदकमिश्रितैः ॥

पूजयित्वा ततः पुष्पैः शतपत्रैः सुगं धिभिः

॥५०॥

मालतीकुसुमैः शुभ्रैर्बहुभिस्तुलसीदलैः ॥

वस्त्रयज्ञोपवीतं च दत्त्वा धूपं प्रधूपयेत्

॥५१॥

दीपं दद्याद्धृतेनैव तैलेनापि घृतं विना ॥

नैवेद्यं विविधं देयं फलं तांबूलमेव च

॥५२॥

प्रासादपूजा कर्त्तव्या ध्वजदानादिना नृप ॥

गौः सवत्सा ततो देया संसारार्णवतारिणी

॥५३॥

ततः प्रदक्षिणां कृत्वा गीतवादित्रनिस्वनैः ॥

वेदपाठपुराणैश्च व्याख्यादिव्यकथादिभिः

॥५४॥

देवाग्रे जागरः कार्यो दीपो देयोंऽतिभूमिषु ॥

सप्तधान्यमयाः सप्त पर्वता दीपसंयुताः

॥५५॥

फलतांबूलपक्वान्नपूरिताः परिकल्पिताः ॥

विद्वद्भिः श्रोत्रियैः श्रांतैर्ब्राह्मणैर्गृहमेधिभिः

॥५६॥

स्त्रीभिश्च नरशार्दूल श्रोतव्या वैष्णवी कथा ॥

एवं जागरणं कार्यं रागक्रोधविवर्जितैः

॥५७॥

कृत्वा जागरणं रात्रावुदिते सूर्यमडले ॥

पूर्वां संध्यां ततः स्नात्वा कृत्वा मध्याह्नमाचरेत्

॥५८॥

देवान्पितॄन्मनुष्यांश्च संतर्प्य विधिपूर्वकम् ॥

कृत्वा श्राद्धं पितॄणां तु दद्याद्दानं स्वशक्तितः

॥५९॥

देवं दामोदरं पूज्य पुष्पधूपादिना पुनः ॥

नरसिंहं सुरं पूज्य वैनतेयं च पूजयेत्

॥६०॥

कृत्वा जागरणं रात्रावुत्थाप्य मधुसूदनम् ॥

द्वादशीभुक्तिमासाद्य कार्यं पारणकं नरैः

॥६१॥

ब्राह्मणान्भोजयित्वा च सहितः पुत्रबांधवैः ॥

विकलांधकृपणानां देयमन्नं स्वशक्तितः

॥६२॥

दामोदरे रैवतके स्वर्णरेखानदीजले ॥

एवं यः कुरुते यात्रां तस्य पुण्यफलं शृणु

॥६३॥

ब्रह्मघ्नश्च सुरापश्च ग्रामसीमाविलोपकः ॥

राजद्रोही गुरुद्रोही मिथ्याव्रतधरश्च यः

॥६४॥

कूटसाक्ष्यप्रदो यश्च यश्च न्यासापहारकः ॥

बालस्त्रीघातको विप्रः संध्यास्नानविवर्जितः

॥६५॥

देवब्रह्म स्वहर्त्ता च वेदविक्रयकारकः ॥

कन्याविक्रयकर्त्ता च देवब्राह्मणनिंदकः

॥६६॥

विश्वासघातको विप्रः शूद्रान्नादोऽथ लुब्धकः ॥

नायकः परदाराणां स्वयंदत्तापहारकः

॥६७॥

पर्वमैथुनसेवी च तथा वै सेतुभेदकः ॥

परिणीतामृतुस्नातां स्वयं यो नाभिगच्छति

॥६८॥

ब्राह्मणी विधवा बाला न भवेच्छ्रुतधारिणी ॥

महापातकिनश्चैते तथान्ये बहवो नृप

॥६९॥

स्वर्णरेखाजले स्नात्वा दृष्ट्वा दामोदरं हरिम् ॥

रात्रौ जागरणं कृत्वा मुच्यते सर्वपातकैः

॥७०॥

न तु ये पापकर्माणः समायाताः प्रजागरे ॥

संसारसागरे तीर्थे गच्छंति न हरेः पुरम्

॥७१॥

यथा यथा याति नरः प्रजागरे तथातथा विष्णुपुरे विचिंत्यते ॥

वासः सुरैर्वैष्णवलोकहेतवे मृदंगगीतध्वनिनादिते गृहे

॥७२॥

गदासि शंखारिधराश्चतुर्भुजा दैतेयदर्पापहरूपधारिणः ॥

प्रगीयमानाः सुरसुंदरीभिस्ते यांति खं खेचरगात्रसंगाः

॥७३॥

वाराहकल्पे प्रथमं युगादौ दामोदरो रैवतके प्रसिद्धः ॥

सैषा नदी या सरितां वरिष्ठा सोऽयं हरिर्यो भुवनस्य कर्ता

॥७४॥

इदं पुराणं पठते शृणोति नरो विमानैर्मधुसूद नालये ॥

देवांगनादत्तभुजश्चतुर्भुजः स नीयते देवगणैरभिष्टुतः

॥७५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सारस्वतप्रोक्ततीर्थयात्राविधाने श्रीदामोदरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥