मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १८

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 18

वस्त्रापथे महाक्षेत्रे सम्प्राप्तो वामनो यदा

राजोवाच

वस्त्रापथे महाक्षेत्रे सम्प्राप्तो वामनो यदा ॥

तदाप्रभृति किं चक्रे तन्मे विस्तरतो वद

॥१॥

सारस्वत उवाच

वामनो वसतिं चक्रे भवस्याग्रे नृपोत्तम ॥

स्वर्णरेखाजले स्नात्वा भवं सम्पूज्य भावतः

॥२॥

एकांते निर्मले स्थाने कण्टकास्थिविवर्जिते ॥

कृष्णाजिनपरिच्छन्न उपविष्टो वरा सने

॥३॥

कृत्वा पद्मासनं धीरो निश्चलोऽभूद्द्विजोत्तमः ॥

विधाय कन्धराबंधमृजुनासावलोककः

॥४॥

गृहक्षेत्रकलत्राणां चिंतां मुक्त्वा धनस्य च ॥

मायां च वैष्णवीं त्यक्त्वा कृतमौनो जितेन्द्रियः

॥५॥

निराहारो जितक्रोधो मुक्तसंसारबंधनः ॥

भुजौ पद्मासने कृत्वा किञ्चिन्मीलितलो चनः ॥

मनोतिचंचलं ज्ञात्वा स्थिरं चक्रे हृदि द्विजः

॥६॥

क्रमेणाभ्यासयोगेन भिन्नांश्चक्रे स चैकतः ॥

प्राणापानव्यानोदानसमानाख्यांश्च मारुतान्

॥६४॥

एवं तं हृदये कृत्वा गृहीत्वा सर्वसन्धिषु ॥

आनीय ब्रह्मणः स्थाने दृढं ब्रह्मण्ययोजयत्

॥८॥

गृहीत्वा पवनं बाह्यं यदा पूर यते तनुम् ॥

तदा स पूरको ज्ञेयो रेचकं तु वदाम्यहम्

॥९॥

यदा चाभ्यन्तरो वायुर्बाह्ये याति क्रमान्नृप ॥

तदा स रेचको ज्ञेयः स्तम्भनात्कुम्भको भवेत्

॥१०॥

पञ्चविंशतितत्त्वानि यदा जानंति योगिनः ॥

मुच्यन्ते पातकैः सर्वैः सप्तजन्मकृतैरपि

॥११॥

राजोवाच

कानि तत्त्वानि को देही किं ज्ञेयं योगिनां वद ॥

उत्पन्नज्ञानसद्भावो योगयुक्तः कथं भवेत्

॥१२॥

ईश्वर उवाच

प्रकृतिश्च ततो बुद्धिरहंकारस्ततोऽभवत् ॥

तन्मात्रपंचकं तस्मादेषा प्रकृतिरष्टधा

॥१३॥

बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेंद्रियाणि च ॥

एकादशं मनो विद्धि महा भूतानि पंच च

॥१४॥

गणः षोडशकः सांख्ये विस्तरेण प्रकीर्तितः ॥

चतुर्विंशतितत्त्वानि पुरुषः पंचविंशकः

॥१५॥

देहीति प्रोच्यते देहे स चात्मानं च पश्यति ॥

विंदन्ति परमात्मानं षष्ठं तं विंशतेः परम्

॥१६॥

आसनादिप्रकारा ये ते ज्ञेयाः प्रथमं सदा ॥

यदा दीपशिखाप्रायं ज्योतिः पश्यंति ते हृदि

॥१७॥

उत्पन्नज्ञानसद्भावा भण्यास्ते योगिनो बुधैः ॥

पूर्वं जरां जरयति रोगा नश्यति दूरतः

॥१८॥

सर्वपापचये क्षीणे पश्चान्मृत्युं स विंदति ॥

मृतो लोके नरो नास्ति योगी जानाति चेत्स्वयम्

॥१९॥

तदा द्वाराणि संरुद्ध्य दश प्राणान्स मुञ्चति ॥

पुण्य पापक्षयं कृत्वा प्राणा गच्छंति योगिनाम् ॥

अणिमादिगुणैश्वर्यं प्राप्नुवंति शिवालये

॥२०॥

अनेन ध्यानयोगेन भवं पश्यति मानवः ॥

मनसा चिंतितं सर्वं सम्प्राप्तं भवदर्शनात्

॥२१॥

एवमास्ते यदा विप्रो वामनो भवसन्निधौ ॥

गगनादवतीर्णं तं तदा पश्यति नारदम्

॥२२॥

वामन उवाच

महर्षे कुशलं तेऽद्य कस्मादागम्यते त्वया ॥

प्रणमामि महर्षे त्वां ब्रह्मैव त्वं जगत्त्रये

॥२३॥

नारद उवाच

स्वर्ग लोकादहं प्राप्तः कुशलं किं ब्रवीमि ते

॥२४॥

यातायातैर्दिनेशस्य पूर्य्यते ब्रह्मणो दिनम् ॥

दिनांते जायते रात्री रात्रौ नश्यंति देवताः

॥२५॥

का कथा मृत्युलोकस्य ये म्रियंते दिनेदिने ॥

नभो धूमाकुलं जातं देवा बलिगृहे गताः

॥२६॥

सप्तर्षयो गतास्तत्र ब्रह्मणा ब्रह्मचारिणः ॥

हाहाहूहूस्तुंबरुश्च गतौ नारदपर्वतौ

॥२७॥

अप्सरोगणगन्धर्वाः संप्राप्ता बलिमंदिरे ॥

उत्पातशांतिको यज्ञः क्रियते बलिना स्वयम्

॥२८॥

तत्रैव गन्तुमिच्छामि द्रष्टुं यज्ञं बलेर्गृहे ॥

सहस्रमेकं यज्ञानामेकोनं विदधे बलिः

॥२९॥

दैत्यानां भुवनं सर्वं संपूर्णेऽस्मिन्भविष्यति ॥

असावतिशयः कोऽपि प्रारब्धो यज्ञकर्मणि ॥

द्विजातिभ्यो मया देयं येन यद्याच्यते स्वयम्

॥३०॥

वारितेनापि मे देयं सत्यमस्तु वचो मम ॥

आत्मानमपि दारांश्च राज्यं पुत्रान्प्रियान्मम

॥३१॥

प्रार्थितश्चेन्न दास्यामि व्यर्थो भवतु मेऽध्वरः ॥

अनेन वचसा जाता महती मे शिरो व्यथा ॥

प्रतिज्ञाय कथं यज्ञः संपूर्णोऽयं भविष्यति

॥३२॥

भंगोपायं न पश्यामि भ्रमामि भुवनत्रये ॥

विध्वंसकारिणं ज्ञात्वा भवंतं पर्युपस्थितः

॥३३॥

यथा न पूर्यते यज्ञस्तथेदानीं विधीयताम्

॥३४॥

वामन उवाच

महर्षे शृणु मे वाक्यं का शक्तिर्मम विद्यते ॥

कोऽहं कस्मात्करिष्यामि यज्ञे देवाः समागताः

॥३५॥

ऋषयो ब्राह्मणाः सर्वे कथं व्यर्थो भविष्यति ॥

अपरं शृणु मे वाक्यं ब्रह्मर्षे ब्रह्मणस्पते

॥३६॥

न कलत्रं न ते पुत्राः कस्मात्प्रकृतिरीदृशी ॥

युद्धं विना न ते सौख्यं न सौख्यं कलहं विना

॥३७॥

यादृशस्ता दृशो वाऽपि वाग्वादोऽपि सदा प्रियः ॥

स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः

॥३६॥

नारदः कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः ॥

ममापि कौतुकं जातं महर्षे वद सत्वरम्

॥३९॥

नारद उवाच

पाद्मकल्पे व्यतिक्रांते रात्र्यंते शृणु वामन ॥

ब्रह्माण्डं वारिणा व्याप्तमन्यत्किं चिन्न विद्यते

॥४०॥

अप्सु शेते देवदेवः स च नारायणः स्मृतः ॥

स ब्रह्मा स शिवो नास्ति भेदस्तेषां परस्परम्

॥४१॥

यदा भवंति ते भिन्ना स्तदा देवत्रयं च ते ॥

कर्त्तुं वाराहकल्पं तु भिन्ना जातास्त्रयस्तदा

॥४२॥

ब्रह्मविष्णुहरा देवा रजःसत्त्वतमोमयाः ॥

सृष्टिं ब्रह्मा करोत्येवं तां च पालयते हरिः

॥४३॥

हरः संहरते सर्वं त्रैलोक्यं सचराचरम् ॥

एवं प्रवर्त्य देवेश उपविष्टा वरासने ॥

कैलासशिखरे रम्ये मंत्रयंति परस्परम्

॥४४॥

त्रयाणां को वरो देवः को ज्येष्ठः को गुणाधिकः ॥

चतुर्थो नास्ति यो वेत्ति सहसा ते त्रयः स्थिताः

॥४५॥

तेभ्यः समुत्थितं ज्योतिरेकीभूतं तदंबरे ॥

कालमानेन युक्तं तद्भ्राम्ते रविमंडलम्

॥४६॥

अहं ज्येष्ठो ह्यहं ज्येष्ठो वादोऽभूद्धरब्रह्मणोः ॥

द्वयोर्विवदतोः क्रोधात्संजातोऽहं मुखात्प्रभो

॥४७॥

कथं देव न जानासि यदुक्तं ब्रह्मणा तदा ॥

दशावतारास्ते रंतुं मत्स्यकूर्मादयः पुरा

॥४८॥

रुद्रेण वारिता गत्वा कलहो वो न युज्यते ॥

तथैव कृतवान्विष्णुरवतारान्दशैव तान्

॥४९॥

कल्पादौ ब्रह्मणो वक्त्रात्संजातोऽहं द्विजोत्तम ॥

कलहाजन्म मे यस्मात्तस्मान्मे कलहः प्रियः

॥५०॥

कल्पादौ सृजता पूर्वं चिन्वितं ब्रह्मणा स्वयम् ॥

वेदान्तिना कथं सृष्टिः कर्त्तव्याऽहो हरे मया

॥५१॥

नष्टान्वेदान्न जानामि क्व वेदास्ते गता इति ॥

पृथ्वीमपि न जानामि किं स्थाने किमधो गता

॥५२॥

गंतुं न विद्यते शक्तिर्जलमध्ये ममाधुना ॥

अवतारैस्त्वया कार्यं दशभिः सृष्टिरक्षण म्

॥९३॥

जले जलेचरो मत्स्यो महानद्यां भविष्यसि ॥

आदाय वेदान्वेगेन मम त्वं दातुमर्हसि

॥५४॥

तथा च कृतवान्देवो मत्स्यरूपं जले महत् ॥

वेदान्समानयामास ददौ च ब्रह्मणे पुरा ॥

कूर्मरूपं पुनः कृत्वा मंदरं धारयिष्यसि

॥५५॥

इत्युक्तो ब्रह्मणा विष्णुर्लक्ष्मीस्त्वां वरयिष्यति ॥

पुरा चित्रं चरित्रं ते मथने दृष्टवानहम्

॥५६॥

यदा रसातलं प्राप्ता पृथिवी नैव दृश्यते ॥

ब्रह्मांडार्थे स्थानकृते तत्र सा नैव दृश्यते

॥५७॥

वाराहं क्रियतां रूपं ब्रह्मणा प्रेरितः स्वयम् ॥

महावराहरूपं स कृत्वा भूमेरधो गतः

॥५८॥

उद्धृत्य च तदा विष्णुर्दंष्ट्राग्रेण वसुंधराम् ॥

स निनाय यथास्थानं मुस्तां व धरणीतलात्

॥५९॥

अवतारं तृतीयं वै हरस्यापि मनोहरम् ॥

येन सा पृथिवी पृथ्वी पर्वतैः सहिता धृता

॥६०॥

चतुर्थं नरसिंहं वै कथयामि सुदारुणम् ॥

आदित्या अदितेः पुत्रा दितेः पुत्रौ महावलौ

॥६१॥

हिरण्यकशिपुर्दैत्यो हिरण्याक्षो महाबलः ॥

स्वर्गे देवाः स्थिताः सर्वे पाताले दैत्यदानवाः

॥६२॥

हिरण्यकशिपुश्चक्रे दैत्यो राज्यं रसातले ॥

मनुपुत्रा धरापृष्ठे स्थापिता देवदानवैः

॥६३॥

व्यवस्थां तामतिक्रम्य हिरण्यकशिपुर्द्विज ॥

राज्यं चक्रे धरापृष्ठे सुरेन्द्रं स विजित्य च

॥६४॥

सप्तद्वीपवतीं पृथ्वीं गृहीत्वा साऽमरावतीम् ॥

ग्रहीतुकामो बुभुजे पुत्रपौत्रैः कृतादरः

॥६५॥

प्रह्लादप्रमुखान्पुत्रान्स पीडयति मंदधीः ॥

पुत्रेषु पाठ्यमानेषु प्रह्लादोऽपि पपाठ तत्

॥६६॥

येन वै पठ्यमानेन जायते तस्य वेदना ॥

भुवनद्वयराज्येन दैत्यो देवान्न मन्यते

॥६७॥

तपसा तोषितो ब्रह्मा ददौ तस्मै वरं प्रभुः ॥

अमरत्वं स देवेभ्यो मनुष्येभ्यः सुरोत्तम

॥६८॥

कस्मादपि न मे भूयान्मरणं यदि चेद्भवेत् ॥

किंचित्सिंहो नरः किंचिद्यो भवेद्धरणीधरः

॥६९॥

तस्मात्कररुहैभिन्नो मरिष्ये न धरातले ॥

एवं भविष्यतीत्युक्त्वा गतो ब्रह्मा च विस्मयम्

॥७०॥

कालेन गच्छता तस्य संजातो विग्रहो महान् ॥

देवाः किं मे करिष्यंति विष्णुना किं प्रयोजनम्

॥७१॥

यष्टव्योऽहं सदा यज्ञै रुद्रः किं मे करिष्यति ॥

एवं हि वर्त्तमानस्य प्रह्लादः स्तौति तं हरिम्

॥७२॥

येनास्य जायते मृत्युस्तमेव स्मरते हरिम् ॥

यदासौ वार्यमाणोऽपि विरौति च हरिं हरिम्

॥७३॥

चतुर्भुजं शंखगदासिधारिणं पीतांबरं कौस्तुभ लाञ्छितं सदा ॥

स्मरामि विष्णुं जगदेकनायकं ददाति मुक्तिं स्मृतमात्र एव यः

॥७४॥

अनेन वचसा क्षुब्धो दैत्यो देत्यान्दि देश ह ॥

मारयध्वं तु तं दुष्टं गज सर्पजलाग्नितः

॥७५॥

प्रह्लाद उवाच

गजेपि विष्णुर्भुजगेऽपि विष्णुर्जलेऽपि विष्णुर्ज्वलनेऽपि विष्णुः ॥

त्वयि स्थितो दैत्य मयि स्थितश्च विष्णुं विना दैत्यगणाऽपि नास्ति

॥७६॥

यदा स मार्यमाणोऽपि मृत्युं प्राप्नोति न क्वचित् ॥

हिरण्यकशिपोर्वक्षो दह्यते क्रोधवह्निना ॥

तदा शिक्षयितुं पुत्रं मुखाग्रे संनिवेश्य च

॥७७॥

वचोभिः कठिनैः पुत्रं स्वयं हन्तुं समुद्यतः ॥

धिक्त्वा नारायणं स्तौषि ममारिं स्तौषि चेत्पुनः

॥७८॥

पुष्पलावं लविष्यामि शिरस्तेऽहं वरासिना ॥

अहं विष्णुरहं ब्रह्मा रुद्र इन्द्रो वरं वद

॥७९॥

आत्मीयं पितरं मुक्त्वा कमन्यं स्तौषि बालक

॥८०॥

यदा न पठते बालः स्तौति नो पितरं स्वकम् ॥

दण्डेनाहत्य गुरुणा प्रह्लादः प्रेरितः पुनः ॥

वदैकं वचनं शिष्य देहि मे गुरुदक्षिणाम्

॥८१॥

यथा मे तुष्यते स्वामी ददाति विपुलं धनम्

॥८२॥

प्रह्लाद उवाच

प्रहरस्व प्रथमं मां करिष्ये वचनं गुरो ॥

स्तौमि विष्णुमहं येन त्रैलोक्यं सचराचरम्

॥८३॥

कृतं संवर्द्धितं शांतं स मे विष्णुः प्रसीदतु ॥

ब्रह्मा विष्णुर्हरो विष्णु रिन्द्रो वायुर्यमोऽनलः

॥८४॥

प्रकृत्यादीनि तत्त्वानि पुरुषं पंचविंशकम् ॥

पितृदेहे गुरोर्देहे मम देहेऽपि संस्थितः

॥८५॥

एवं जानन्कथं स्तौमि म्रियमाणं नराधमम्

॥८६॥

गुरुरुवाच

नरेषु कोऽधमः शिष्य जन्मादिमरणेऽधम ॥

कथं न पितरं स्तौषि म्रियमाणो हरिं हरिम्

॥८७॥

प्रह्लाद उवाच

भोजने शयने याने ज्वरे निष्ठीवने रणे ॥

हरिरित्यक्षरं नास्ति मरणेऽसौ नराधमः ॥

भये राजकुले युद्धे व्याधौ स्त्रीसंगमे वने ॥

अशक्तौ वाऽथ संन्यासे मरणे भूमिसंस्थिताः ॥

स्मरंति मातरं मूर्खाः पितरं च नराधमाः

॥८९॥

माता नास्ति पिता नास्ति नास्ति मे स्वजनो जनः ॥

हरिं विना न कोऽप्यस्ति यद्युक्तं तद्विधीयताम्

॥९०॥

इत्यादिवचनैः क्रुद्धो हन्तुं दैत्यः समुत्थितः ॥

तदा माता समागत्य पुत्रस्य पुरतः स्थिता

॥९१॥

भ्रातरः स्वजनो भगिनी भाषते मा हरिं वद ॥

अहं माता स्वसा चेयं भ्रातरः स्वजनो जनः ॥

यथा संमिलितैर्वत्स स्थीयते वहुवासरम्

॥९२॥

प्रह्लाद उवाच

माता मे का स्वसा मे का भ्रातरः के पिता च कः ॥

स्वजनं शृणु मे मातः सहितैः स्थीयते सदा

॥९३॥

यस्याः पीतं मया मूत्रं पुरीषमुदरे बहु ॥

सा माता नरकोऽस्माकमग्रे वक्तुं न शक्यते

॥९४॥

निर्मितो न द्वितीयस्तु निर्मितो विश्वकर्मणा ॥

त्वादृशस्तु पुमान्कश्चिद्यस्य नो हदये हरिः

॥९५॥

दशमासं ध्रुवं मन्ये मूत्रं पास्यति तर्पितः ॥

भ्रातरो भ्रातरः सत्यं गर्भेऽपि स्युः कथं यदि

॥९६॥

युध्यतस्तान्कथं माता वराकी वारयिष्यति ॥

स्वजनो दृश्यते वृद्धः परेषु पण्डितायते

॥९७॥

कुटुंबं भण्यते कस्माद्यश्च नायाति याति च ॥

बंधनं च कुटुम्बस्य जायते नरकाय नः

॥९८॥

माता मे विद्यते चान्या पितान्यो भ्रातरश्च ये ॥

स्वसा स्वजनसम्वन्धं ज्ञात्वा मुक्तिमवाप्नुयात्

॥९९॥

माता प्रकृतिरस्माकं स्वसा बुद्धिर्निगद्यते ॥

अहंकारस्ततो जातो योऽहमित्यनुमीयते

॥१००॥

तन्मात्राः सोदराः पञ्च ये गच्छन्ति सहैव मे ॥

एषा प्रकृतिरस्माकं विकारः स्वजनो मम

॥१०१॥

एतेषां वाहको यस्तु पुरुषः पञ्च विंशकः ॥

स मे पिता शरीरेऽस्मिन्परमात्मा हरिः स्थितः

॥१०२॥

यद्यसौ चित्यन्ते चित्ते दृश्यते हृदये हरिः ॥

अणिमादिगुणैश्वर्यं पदं तस्यैव जायते

॥१०३॥

भवता सम्मतं राज्यं तन्मे नित्यं तृणैः समम् ॥

यत्र नो पूज्यते विष्णुर्ब्रह्मा रुद्रोऽनिलोऽनलः

॥१०४॥

प्रत्यक्षो दृश्यते यस्तु निरालम्बो भ्रमत्यसौ ॥

स एव भगवान्विष्णुर्य एते गगने स्थिताः

॥१०५॥

ध्रुवे बद्धा ग्रहाः सर्वे य एतेऽप्युडवः स्थिताः ॥

ते सर्वे विष्णुवचसा न पतंति धरातले

॥१०६॥

काले विनाशः सर्वेषां तेनैव विहितः स्वयम् ॥

इति संचिंत्य मे नास्ति भवद्भ्यो मरणाद्भयम्

॥१०७॥

इति तद्वचनस्यांते पदा हत्वा पिताऽब्रवीत् ॥

कुत्राऽसौ हन्मि तत्पूर्वं पश्चात्त्वां हरिभाषिणम्

॥१०८॥

प्रह्लाद उवाच

पृथिव्यादीनि भूतानि तान्येव भगवान्हरिः ॥

स्थले जले किं बहुना सर्वं विष्णुमयं जगत्

॥१०९॥

तृणे काष्ठे गृहे क्षेत्रे द्रव्ये देहे स्थितो हरिः ॥

ज्ञायते ज्ञानयोगेन दृश्यते किं नु चक्षुषा

॥११०॥

ब्रह्मालये याति रसातले वा धरातलेऽसौ भ्रमति क्षणेन ॥

आघ्राति गन्धं विदधाति सर्वं शृणोति जानाति स चात्र विष्णुः

॥१११॥

इत्युक्तः सहजां मायां त्यक्त्वा सिंहासनोत्थितः ॥

दृढं परिकरं बद्ध्वा खङ्गं चाकृष्य चोज्ज्वलम्

॥११२॥

हत्वा तं फलकाग्रेण बभाषे दुस्सहं वचः ॥

इदानीं स्मर रे विष्णुं नो चेज्जवलितकु ण्डलम् ॥

पतिष्यति शिरो भूमौ फलं पक्वं यथा नगात्

॥११३॥

नो चेद्दर्शय तं विष्णुमस्मात्स्तंभाद्विनिर्गतम् ॥

प्रह्लादस्तु भयं त्यक्त्वा चक्रे पद्मासनं भुवि

॥११४॥

विधाय कंधरां नेतुमुच्चैः श्वासं निरुध्य च ॥

हृदि ध्यात्वा हरिं देवं मरणायोन्मुखः स्थितः

॥११५॥

प्रभो मया तदा दृष्टमाश्चर्यं गगनाद्भुवि ॥

पुष्पमाला स्थिता कण्ठे प्रह्लादस्य स्वयं गता

॥११६॥

गगनं व्याप्यमानं च किंकिमेवं कृतं जनैः ॥

झटिति त्रुट्यति स्तम्भाच्छब्देन क्षुभितो जनः

॥११७॥

धरणी याति पातालं द्यौर्वा भूमिं समेष्यति ॥

पतिष्यति शिरो भूमौ खड्गघाताहतं नु किम्

॥११८॥

तावत्स्तंभाद्विनिष्क्रान्तः सिंहनादो भयंकरः ॥

भूमौ निपतिताः सर्वे दैत्याः शब्देन मूर्च्छिताः

॥११९॥

हिरण्यकशिपोर्हस्तात्खड्गचर्म पपात च ॥

न स जानाति किं किमेतदिति पुनःपुनः

॥१२०॥

उत्थितो वीक्षते यावत्तावत्पश्यति तं हरिम् ॥

अधो नरं स्थितं सिंहमुपरिष्टाद्विभी षणम्

॥१२१॥

दंष्ट्रा करालवदनं लेलिहानमिवांबरम् ॥

जाज्वल्यमानवपुषं पुच्छाच्छोटितमस्तकम्

॥१२२॥

महाकण्ठकृतारावं सशब्द मिव तोयदम् ॥

समुच्छ्वसितकेशांतं दुर्निरीक्ष्यं सुरासुरैः

॥१२३॥

नरसिंहमथो दृष्ट्वा निपपात पुनः क्षितौ ॥

विगृह्य केशपाशे तं भ्रामयामास चांबरम्

॥१२४॥

भ्रामयित्वा शतगुणं पृथिव्यां समपोथयत् ॥

न ममार स दैत्येन्द्रो ब्रह्मणो वरकारणात्

॥१२५॥

गगनस्थैस्तदा देवै रुच्चैः संस्मारितो हरिः ॥

दैत्यं जानुनि चानीय वक्षो हृष्टो निरीक्ष्य च

॥१२६॥

जयजयेति यक्षानां सुराणां सोऽवधारयत् ॥

शब्दं कर्णे भुजौ सज्जौ कृत्वा तौ पद्मलांछितौ

॥१२७॥

बिभेद वक्षो दैत्यस्य वज्रघातकिणांकितम् ॥

नखैः कुन्दसुमप्रख्यैरस्थिसंघातकर्शितम्

॥१२८॥

भिन्ने वक्षसि दैत्येन्द्रो ममारच पपात च ॥

तदा सहर्षमभवत्त्रैलोक्यं सचराचरम्

॥१२९॥

ममापि तृप्तिः सञ्जाता प्रसादात्तव केशव ॥

यदा पुरत्रये दग्धे प्रसादाच्छंकरस्य च

॥१३०॥

हिण्याक्षे पुनर्जाता सा काले विनिपातिते ॥

इदानीं नास्ति मे तृप्तिः कुत्र यामि करोमि किम्

॥१३१॥

पृथिव्यां क्षत्रियाः सन्ति न युध्यंते परस्परम् ॥

देवानां दानवैः सार्द्धं नास्ति युद्धं कथं प्रभो

॥१३२॥

इदानीं बलिना व्याप्तं त्रैलोक्यं सचराचरम् ॥

पञ्चमो योऽवतारस्ते न जाने किं करिष्यति ॥

वलिनिग्रहकालोऽयं तद्दर्शय जनार्दन

॥१३३॥

सारस्वत उवाच

तदेतत्सकलं श्रुत्वा बभाषे वामनो मुनिम्

॥१३४॥

वामन उवाच

शृणु नारद यद्वृत्तं हिण्यकशिपौ हते ॥

दैत्यराजः कृतो राजा प्रह्लादोऽतीव वैष्णवः

॥१३५॥

तेन राज्यं धरापृष्ठे कृतं संवत्सरान्बहून् ॥

तस्यापि कुर्वतो राज्यं विग्रहो हि सुरैः समम्

॥१३६॥

नो पश्याम्यपि दैत्यानां पूर्ववैरमनुस्मरन् ॥

उत्पाद्य पुत्रान्सबहून्राज्यं चक्रे स पुष्कलम्

॥१३७॥

विरोचनाद्बलिर्जातो बाल एव यदाऽभवत् ॥

एकान्ते स हरिं ज्ञात्वा तदा योगेन केनचित्

॥१३८॥

मुक्त्वा राज्यं प्रियान्पुत्रान्गतोऽसौ गिरिसानुषु ॥

कल्पान्तस्थायिनं देहं तस्य चक्रे जनार्द्दनः

॥१३९॥

दैत्यानां दानवानां च बहूनां राज्यकारणे ॥

विवादोतीव संजातः को नो राजा भवेदिति

॥१४०॥

नारद उवाच

हिण्याक्षस्य ये पुत्राः पौत्राश्च बलवत्तराः ॥

विरोचनप्रभृतयः सन्ति ये बलवत्तराः

॥१४१॥

वृषपर्वापि बलवान्राज्यार्थे समुपस्थितः ॥

इन्द्रवित्तेशवरुणा वायुः सूर्योनलो यमः

॥१४२॥

दैत्येन सदृशा न स्युर्बलरूपक्षमादिभिः ॥

औदार्यादिगुणैः कृत्वा सन्तत्या चासुराधिकः

॥१४३॥

शुक्रेणा चार्यमाणास्ते युद्ध्यंते च परस्परम् ॥

अमृताहरणे दौष्ट्यं यदा दैत्याः स्मरन्ति तत्

॥१४४॥

पीतावशेषममृतं कस्माद्यच्छंति देवताः ॥

नास्माकमिति संनह्य युध्यन्ते च परस्परम्

॥१४५॥

कदाचिदपि नो युद्धं विश्रांतिमुपगच्छति ॥

एककार्योद्यता यस्माद्बहवो दैत्यदानवाः

॥१४६॥

पीत्वाऽमृतं सुरा जाता अमरास्ते जयन्ति च ॥

देवदानवदैत्यानां गन्धर्वोरगरक्षसाम् ॥

विष्णुर्बलाधिको युद्धे तदेतत्कारणं वद

॥१४७॥

वामन उवाच

अनादिनिधनः कर्त्ता पाता हर्त्ता जनार्दनः ॥

एकोऽयं स शिवो देवः स चायं ब्रह्मसंज्ञितः ॥

एकस्य तु यदा कार्यं जायते भुवने नृप

॥१४८॥

तस्य देहं समाश्रित्य मृत्युकार्यं कुर्वंति ते ॥

ब्रह्मांडं सकलं विष्णोः करदं वरदो यतः ॥

तस्माद्बलाधिको विष्णुर्न तथान्योऽस्ति कश्चन

॥१४९॥

पालनायोद्यतो विष्णुः किमन्यैश्चर्मचक्षुभिः ॥

इन्द्राद्याश्च सुराः सर्वे विष्णोर्व्यापारकारिणः

॥१५०॥

सृष्टिं कृत्वा ततो ब्रह्मा कैलासे संस्थितो हरः ॥

न शक्यते सुरैर्विष्णुर्भ्राम्यन्ते भुवनत्रये

॥१५१॥

जगत्यस्मिन्यदा कश्चिद्वैपरीत्येन वर्तते ॥

तस्योच्छेदं समागत्य करोत्येव जनार्दनः

॥१५२॥

त्वमेजय महाबाहो न मनो नारदाऽदयम् ॥

सर्वपापहरां दिव्यां तां कथां कथयाम्यहम्

॥१५३॥

पुरा विवदतां तेषां दैत्यानां राज्यहेतवे ॥

प्रह्लादेन समागत्य व्यवस्था विहिता स्वयम्

॥१५४॥

सर्वलक्षणसं पन्नो दीर्घायुर्बलवत्तरः ॥

यज्ञशीलः सदानंदो बहुपुत्रोतिदुर्जयः

॥१५५॥

न युध्यते सुरैः साकं विष्णुं यो वेत्ति दुर्जयम् ॥

संग्रामे मरणं नास्ति यस्य यः सर्वदक्षिणः

॥१५६॥

आत्मनो वचनं व्यर्थं न करोति कथंचन ॥

सर्वेषां पुत्रपौत्राणां मध्ये यो राजते श्रिया

॥१५७॥

अभिषिक्तस्तु शुक्रेण स वो राजा भवेदिति ॥

गुरुप्रमाणमित्युक्त्वा ययौ यत्रागतः पुनः

॥१५८॥

तथा च कृतवंतस्ते सहिता दैत्यदानवाः ॥

विरोचनप्रभृतयः पुत्राः पौत्राः स्वयंगताः

॥१५९॥

प्रत्येकं वीक्षिताः सर्वे गुरुणा ज्ञानपूर्वकम् ॥

प्रह्लादेन गुणाः प्रोक्ता न ते संति विरोचने

॥१६०॥

अन्येषामपि दैत्यानां वृषपर्वापि नेदृशः ॥

यथा निरीक्षिताः पुत्रा बलिप्रभृतयो मुने ॥

सर्वान्संवीक्ष्य शुक्रेण बलौ दृष्टा गुणास्तथा

॥१६१॥

बलिदेहेऽधिकान्दृष्ट्वा दैत्येभ्यो विनिवेदिताः ॥

बलिर्गुणाधिको दैत्याः कथं कार्यं भवेन्मया

॥१६२॥

केनापि दैवयोगेन बलिरिंद्रो भविष्यति ॥

यादृशस्तु पिता लोके तादृशस्तु सुतो भवेत्

॥१६३॥

पौत्रश्च निश्चितं तादृग्भवतीति न चेत्सुतः ॥

प्रह्लादस्तु महायोगी वैष्णवो विष्णुवल्लभः

॥१६४॥

तस्माद्विरोचने केचिद्धिरण्यकशिपोर्गुणाः ॥

ज्येष्ठो विरोचनो राज्ये यदि चेत्क्रियतेऽसुराः ॥

नरसिंहः समागत्य निश्चितं मारयिष्यति

॥१६५॥

मुक्तं विरोचनेनापि राज्यं मरणभीरुणा ॥

प्रह्लादस्य गुणाः सर्वे बलिदेहे व्यवस्थिताः

॥१६६॥

एवं ते समयं कृत्वा बलिं राज्येऽभ्यषिंचय न् ॥

यः प्रह्लादः स वै विष्णुर्यो विष्णुः स बलिः स्वयम्

॥१६७॥

अतो मित्रीकृतो देवैर्विग्रहैस्तु विवर्जितः ॥

एकीभावं कृतं सर्वं बलिराज्ये सुरासुरैः

॥१६८॥

तस्यापि भाषितं श्रुत्वा देवेंद्रो मम मंदिरे ॥

समागता वालखिल्याः शप्तोहं वामनः कृतः

॥१६९॥

प्रसाद्य ते मया प्रोक्ताः शापमुक्तिप्रदा मम ॥

भविष्यतीति तैरुक्तं बलिनिग्रहणादनु

॥१७०॥

तवापि कौतुकं युद्धे बलिर्यज्ञं करोति च ॥

देवानां निग्रहो नास्ति सर्वे यज्ञे समागताः

॥१७१॥

स मां यजति यज्ञेन वधं तस्य करोतु कः ॥

अहं च वामनो जातो नारदः कौतुकान्वितः

॥१७२॥

विपरीतमिदं सर्वं वर्त्तते मम चेतसि ॥

तथाऽपि क्रमयोगेन सर्वं भव्यं करोम्यहम्

॥१७३॥

नारद उवाच

प्रसादं कुरु देवेश युद्धार्थं कौतुकं मम ॥

एकेन ब्राह्मणेनाजौ हन्यंते क्षत्रिया यदा ॥

पित्रा प्रोक्तं च मे पूर्वं तदा युद्धं भविष्यति

॥१७४॥

ब्राह्मणोसि भवाञ्जातः कदा युद्धं करिष्यसि ॥

विहस्य वामनो ब्रूते सत्यं तव भविष्यति

॥१७५॥

जमदग्निसुतो भूत्वा गुरुं कृत्वा महेश्वरम् ॥

कार्त्तवीर्यं वधिष्यामि बहुभिः क्षत्रियैः सह

॥१७६॥

समंतपंचके पंच करिष्ये रुधिरह्रदान् ॥

तत्राहं तर्पयिष्यामि पितॄनथ पितामहान्

॥१७७॥

पुण्यक्षेत्रं करिष्यामि भवांस्तत्रागमिष्य ति ॥

परं च कौतुकं युद्धे भविष्यति तव प्रियम्

॥१७८॥

ब्राह्मणेभ्यो ग्रहीष्यंति यदा कुं क्षत्रियाः पुनः ॥

तदैव तान्हनिष्यामि पुनर्दा स्यामि मेदिनीम्

॥१७९॥

त्रिसप्तवारं दास्यामि जित्वा जित्वा वसुंधराम् ॥

शस्त्रन्यासं करिष्यामि निर्विण्णो युद्धकर्मणि ॥

विहरिष्यामि रम्येषु वनेषु गिरिसानुषु

॥१८०॥

लंकायां रावणो राज्यं करिष्यति महाबलः ॥

त्रैलोक्यकंटकं नाम यदासौ धारयिष्यति

॥१८१॥

तदा दाशरथी रामः कौसल्यानंदवर्द्धनः ॥

भविष्ये भ्रातृभिः सार्द्धं गमिष्ये यज्ञमंडपे

॥१८२॥

ताडकां ताडयित्वाहं सुबाहुं यज्ञमंदिरे ॥

नीत्वा यज्ञाद्गमिष्यामि सीतायास्तु स्वयंवरे

॥१८३॥

परिणेष्याभि तां सीतां भंक्त्वा माहेश्वरं धनुः ॥

त्यक्त्वा राज्यं गमिष्यामि वने वर्षांश्चतुर्दश

॥१८४॥

सीताहरणजं दुःखं प्रथमं मे भविष्यति ॥

नासाकर्णविहीनां तां करिष्ये राक्षसीं वने

॥१८५॥

चतुर्द्दशसहस्राणि त्रिशिरःखरदूषणान् ॥

द्हत्वा हनिष्ये मारीचं राक्षसं मृगरूपिणम्

॥१८६॥

हृतदारो गमिष्यामि दग्ध्वा गृध्रं जटायुषम् ॥

सुग्रीवेण समं मैत्रीं कृत्वा हत्वाऽथ वालिनम्

॥१८७॥

समुद्रं बंधयिष्यामि नलप्रमुखवानरैः ॥

लंकां संवेष्टयिष्यामि मारयिष्यामि राक्षसान्

॥१८८॥

कुम्भकर्णं निहत्याजौ मेघनादं ततो रणे ॥

निहत्य रावणं रक्षः पश्यतां सर्वरक्षसाम्

॥१८९॥

विभीषणाय दास्यामि लंकां देवविनिर्मिताम् ॥

अयोध्यां पुनरागत्य कृत्वा राज्यमकंटकम्

॥१९०॥

कालदुर्वाससोश्चित्रचरित्रेणामरावतीम् ॥

यास्येहं भ्रातृभिः सार्द्धं राज्यं पुत्रे निवेद्य च

॥१९१॥

द्वापरे समनुप्राप्ते क्षत्रियैर्बहुभिर्मही ॥

भाराक्रांता न शक्नोति पातालं गंतुमुद्यता

॥१९२॥

मथुरायां तदा कर्त्ता कंसो राज्यं महासुरः ॥

शिशुपालजरासंधौ कालनेमिर्महासुरः

॥१९३॥

पौंड्रको वासुदेवश्च बाणो राजा महासुरः ॥

गजवाजितुरंगाढ्या वध्यंते मे तदा मुने

॥१९४॥

कलौ स्वल्पोदका मेघा अल्पदुग्धाश्च धेनवः ॥

दुग्धे घृतं न चैवास्ति नास्ति सत्यं जनेषु च

॥१९५॥

चोरैरुपहता लोका व्याधिभिः परिपीडिताः ॥

त्रातारं नाभि गच्छंति युद्धावस्थां गता अपि

॥१९६॥

क्षुद्राः पश्चिमवाहिन्यो नद्यः शुष्यंति कार्त्तिके ॥

एकादशीव्रतं नास्ति कृष्णा या च चतुर्द्दशी

॥१९७॥

न जानाति जनः कश्चिद्विक्रांतमपि स्वे गृहे ॥

दरिद्रोपहतं सर्वं संध्यास्नानविवर्जितम् ॥

भविष्यति कलौ सर्वं न तत्पूर्वयुगत्रये

॥१९८॥

पितरं मातरं पुत्रस्त्यक्त्वा भार्यां निषेवते ॥

न गुरुः स्वजनः कश्चित्कोऽपि कं नानुसेवते

॥१९९॥

यथायथा कलिर्व्याप्तिं करोति धरणीतले ॥

तथातथा जनः सर्व एकाकारो भविष्यति

॥२००॥

म्लेच्छैरुपहतं सर्वं संध्यास्नानविवर्जितम् ॥

कल्किरित्यभिविख्यातो भविष्ये ब्राह्मणो ह्यहम्

॥२०१॥

म्लेच्छानां छेदनं कृत्वा याज्ञवल्यपुरोहितः ॥

बहुस्वर्णेन यज्ञेन यक्ष्ये निष्कृतिकारणात्

॥२०२॥

भविष्यंत्यवतारा मे युद्धं तेषु भविष्यति ॥

इदानीं बलिना युद्धं करिष्यंति न देवताः

॥२०३॥

स मां यजति दैत्येन्द्रो न मे वध्यो बलिर्भवेत् ॥

सर्वस्वदाननियमं करोति स महाध्वरे

॥२०४॥

सारस्वत उवाच

इत्युक्त्वा नारदं देवो विसृज्य तमथाभ्यगात् ॥

द्रष्टुं बलिकृतं यज्ञं देवकार्यप्रसिद्धये

॥२०५॥

वामनो नगरं गत्वा वीक्षमाणो गृहाद्गृहम् ॥

ब्राह्मणानां गृहं गत्वा भोजनं स तु याचते

॥२०६॥

नित्यं स्नानपरो विप्रो वेदाध्ययनतत्परः ॥

वामनो लभते भिक्षां भोजनं द्विजमंदिरे

॥२०७॥

चतुष्पथेषु रम्येषु देवतायतनेषु च ॥

आस्ते परिवृतो लोकैश्चालयन्विपुलां कटिम्

॥२०८॥

शिरो विधूनते स्थूलं स्थूलस्कन्धो महाहनुः ॥

नृत्यते तालमानेन गायत्यतिमनोहरम्

॥२०९॥

वेदानधीते चतुरो वामनो द्विजसंसदि ॥

दैत्यानां तनयाः सर्वे ब्राह्मणानां तथैव च

॥२१०॥

वामनं पर्युपासंते दिवारात्रं मनोरमम् ॥

अथ तैः सकलैर्नीतो वामनो यज्ञमंडपे

॥२११॥

निश्चितं मठिकास्थानं याचितव्यो बलिस्त्वया ॥

तदास्माकं महच्छ्रेयो देशस्य नगरस्य च

॥२१२॥

विज्ञप्तो वामनः सर्वैर्दैत्यद्विजकुमारकैः ॥

वामन वस्तव्यं दैत्येंद्रनगरे सदा

॥२१३॥

सारस्वत उवाच

प्रविवेश तथेत्युक्त्वा वामनो यज्ञमंडपे ॥

ततः कोलाहलो जातो द्वाःस्थैर्द्वारि कृतो महान्

॥२१४॥

ब्राह्मणैर्बहुभिः सार्द्धं वेदानुच्चारयन्स्थितः ॥

ततो वेदध्वनिर्जातो महान्वै यज्ञमंडप्रे

॥२१५॥

प्रविष्टौ प्रथमं दैत्यौ दैत्याय विनिवेदितः ॥

द्रष्टुं समागतो देव ब्राह्मणो वामनोऽध्वरे

॥२१६॥

भवंतं कौतुकात्तावद्द्वारदेशे समाविशत् ॥

एक एव यथायाति वामनस्तव सन्निधौ

॥२१७॥

निरीहो वामनो देव यावत्तत्रैव किंचन ॥

वेदानां तु ध्वनिं कृत्वा चतुर्णामेकवक्त्रतः

॥२१८॥

बलिर्हृष्टोऽब्रवीद्वाक्यं द्वाःस्थमेनं प्रवेशय ॥

पूजयिष्यामि विप्रेद्रं दास्ये चास्य यदीप्सितम्

॥२१९॥

स्मरामि स्मृतिवाक्यानि यानि प्राह गुरुर्मम ॥

किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम्

॥२२०॥

आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥

यज्ञे प्रवर्त्तमाने तु दातव्या दक्षिणा मया

॥२२१॥

वामनो न विचार्यस्तु सत्यमस्तु वचो मम ॥

इति श्रुत्वा गुरुः शुक्रो वारयामास तं बलिम्

॥२२२॥

शुक्र उवाच

द्वारि पूज्या द्विजाः सवें दीनांध कृपणादयः ॥

बधिरा वामनाः कुब्जा रोगिणो ये तु निष्ठुराः

॥२२३॥

सुवर्णरजतैर्वस्त्रैर्वामनो द्वारि पूज्यताम् ॥

चतुर्णां तु वृथा जन्म वृथा दानानि षोडश

॥२२४॥

अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ॥

परपाकं च येश्नंति परदाररताश्च ये

॥२२५॥

अन्यायेनार्जितं वित्तं न देयं श्रेय इच्छता ॥

व्यर्थमब्राह्मणे दानमारूढपतिते तथा

॥२२६॥

संध्याहीने द्विजे नष्टे पतिते तस्करे तथा ॥

गुरोश्चाप्रीतिजनके पितृमातृपराङ्मुखे

॥२२७॥

ब्रह्मबन्धौ च यद्दतं यद्दत्तं वृषलीपतौ ॥

वेदविक्रयके चैव कृतघ्ने ग्रामयाजके

॥२२८॥

स्त्रीनिर्जिते च यद्दत्तं व्यालग्राहे तथैव च ॥

परिवारेषु यद्दत्तं वृथा दानानि षोडश

॥२२९॥

सारस्वत उवाच

अत्रांतरे बलिर्ब्रूते नैवं वाच्यं त्वया गुरो ॥

वेदानधीते यः कश्चित्स मे विष्णुः समागतः

॥२३०॥

न विलंबस्तु कर्त्तव्यः श्रोत्रिये गृहमागते ॥

अभ्युत्थानेन वचसा पादप्रक्षालनेन च

॥२३१॥

यथा शक्त्या प्रदातव्यं भोजनं गृहमेधिना ॥

अपूजितो यदा याति वामनो मंडपाद्बहिः

॥२३२॥

तदायं व्यर्थतां याति यज्ञः सर्वस्वदक्षिणः ॥

अत्रांतरे समानीतो वामनो बलिसंनिधौ

॥२३३॥

आयांतं ददृशे दैत्यो वामनं विष्णुरूपिणम् ॥

जाज्वल्यमानं वपुषा पिंगलं सूर्यसंनिभम्

॥२३४॥

उत्थायाभिमुखः प्रायान्नमस्कृत्याग्रतः स्थितः ॥

धन्योऽहं यस्य मे यज्ञे प्राप्तो विष्णुसमो द्विजः

॥२३५॥

वेदिमध्ये समानीतो ददौ तस्यासनं बलिः ॥

पाद्यमाचमनीयं च दत्त्वार्घ्यं विष्टरं बलिः ॥

श्रीखंडगंधपुष्पाद्यैः पूजयित्वाग्रतः स्थितः

॥२३६॥

मधुपर्कं च गां तस्मै सत्वरं स निवेद्य च ॥

आघ्राते मधुपर्के च वामनेन ततः परम्

॥२३७॥

स्वागतं बलिना प्रोक्तं स्वस्तीत्युक्तं द्विजन्मना ॥

अहमर्थी समायातो दीयतां वद किं विभो

॥२३८॥

मेदिनीं देहि मे दैत्य कियन्मात्रां द्विजोत्तम ॥

वासार्थं मम दैत्येन्द्र दीयतां मे क्रम त्रयम्

॥२३९॥

विधाय मठिकां दिव्यां शिष्यानध्यापयाम्यहम् ॥

दत्तं क्रमत्रयं तुभ्यं गृहीतं वामनोऽब्रवीत्

॥२४०॥

मा देहीत्यवदच्छुक्रो विष्णुरेव सनातनः ॥

हृष्टो ब्रूते बलिः शुक्रं पात्रं स्यात्किमतः परम्

॥२४१॥

सव्यं कृत्वा बलिर्दर्भान्साक्षतान्दक्षिणे करे ॥

प्रयोगं न गुरुश्चक्रे न मुंचति जलं करे

॥२४२॥

विस्मिता ऋषयः सर्वे होतारो ये सभासदः ॥

ब्राह्मणा बटवो दैत्या भार्यापुत्राश्च बांधवाः

॥२४३॥

दत्तं गृहीतमित्युक्ते कस्मात्तोयं न मुञ्चति ॥

वामनाय करे तोयं विवेकाय प्रदीयते

॥२४४॥

यद्दानं वचसा दत्तं कर्मणा नोपपाद्यते ॥

विधाय नरके पूये यजमानं न निष्कृतिः

॥२४५॥

उशना प्राह दैत्येन्द्र वामनो हरिरित्ययम् ॥

केनापि दैवयोगेन त्वां द्रष्टुं समुपागतः

॥२४६॥

अप्रियं वा प्रियं वापि न जाने किं करिष्यति ॥

बभाषे भार्गवं यष्टा श्रूयतां वचनं गुरो

॥२४७॥

प्रोच्यते दानकालेषु यजमानैर्द्विजैरपि ॥

अहमिन्द्रो द्विजो विष्णुर्द्रव्यमादित्यदेवता ॥

तत्कथं न मया देयं विष्णवे प्रीयतामिति

॥२४८॥

इत्युक्त्वा स ददौ तोयं वामनाय करे बलिः ॥

ततः किमिदमित्युक्त्वा संस्थितो मण्डपाद्बहिः

॥२४९॥

मध्येऽपि वामनो विप्रो बलिमात्रो वभूव सः ॥

दत्तहस्तोऽसुरेन्द्रेण ग्रहीतुं तु पदत्रयम्

॥२५०॥

यजमानद्विजौ हष्टौ दृष्टौ यज्ञे सुरादिभिः ॥

ववृधे वामनोतीव कृत्वा रूपं चतुर्भुजम्

॥२५१॥

नारदोऽपि समायातो बभाषे कि कृतं बले ॥

शिष्याभ्यां सहितो हृष्टो नरीनर्ति पुरः स्थितः

॥२५२॥

गृहाण दक्षिणां देव सभार्यो भाषते बलिः ॥

अद्य किं न मया प्राप्तं यद्गृह्णाति जनार्द्दनः

॥२५३॥

सार्द्धक्रमक्षयं कृत्वा धरणीं याचते त्रयम् ॥

यदस्ति तेन कर्तव्यः सन्तोषो मधुसूदन

॥२५४॥

वर्द्धमानं हरिं दृष्ट्वा ब्राह्मणा ऋषयः सुराः ॥

तुष्टुवुर्गगने यांतं भगवंतं जनार्द्दनम्

॥२५५॥

देवर्षय ऊचुः

जय देव जयानन्त जय विष्णो जयाऽच्युत ॥

जय मत्स्य नमस्तुभ्यं जय कूर्म धराधर

॥२५६॥

वराहाय नमस्तुभ्यं नरसिंह नमोनमः ॥

जामदग्न्य नमस्तुभ्यं जय राम सलक्ष्मण

॥२५७॥

जय कृष्ण जगन्नाथ जय देवकिनन्दन ॥

नमामि बुद्धं कृष्णं च कल्किनं प्रणमाम्यहम्

॥२५८॥

सारस्वत उवाच

नरीनर्ति तथा स्तौति नारदो गगनं गतः ॥

योगिनः सनकाद्या ये स्तुवंति च जनार्दनम्

॥२५९॥

अन्तरिक्षे गते कृष्णे वर्द्धमाने बलेः पुरः ॥

ऊर्ध्ववक्त्राः स्थिताः सर्वे निरी क्षन्ते दिवाकरम्

॥२६०॥

दृष्टच्छत्राकृतिस्तावत्पश्चादूर्ध्वं गतो हरिः ॥

चूडामणिरिवाभाति भास्करो हरिमस्तके

॥२६१॥

दैत्यैर्निरीक्षितः सम्यग्ललाटे तिलकायते ॥

हरिः संवर्द्धते यावत्कर्णेऽसौ कुण्डलायते

॥२६२॥

वर्द्धमानस्य च हरेर्हृदये कौस्तुभायते ॥

इंद्राद्या देवता रुद्रा वसवो गगने स्थिताः

॥२६३॥

ऊर्ध्वं पुनर्यत्र हरिर्न तत्र गगनं मतम् ॥

वनमाला तदा कण्ठे वासवेन निवेशिता

॥२६४॥

पृथिवी कम्पते सर्वा दिविस्थं सूर्यमण्डलम् ॥

किं भविष्यति दैत्यास्ते भीताः पश्यंति भास्करम्

॥२६५॥

नाभौ पद्मायते सूर्यः कटौ च रशनायते ॥

एवं संवर्द्धितो विष्णुर्जगृहे च पदद्वयम्

॥२६६॥

स्थानं नास्ति तृतीयस्य ब्रह्मांडं सकलं कृतम् ॥

अहर्दण्डो जगत्स्रष्टा ब्रह्मदंडायते तदा

॥२६७॥

देवदानव गंधर्वमनुष्योरगपन्नगैः ॥

पूज्यते चरणो विष्णोः स्तूयते चानुमीयते

॥२६८॥

धर्मात्मा यतदण्डो हि गंधर्वैर्गीयते मुहुः ॥

ज्योतिश्चक्राक्षदंडः किं हरिणा निर्मितः स्वयम्

॥२६९॥

जित्वेदं भुवनं गंगा ध्वजदंडोऽमरैः कृतः ॥

त्रिविक्रमांघ्रिदण्डोऽयं कीर्तिदंडायते ध्रुवम्

॥२७०॥

वेगेनाक्षिप्य हरिणा नीतो ब्रह्मांडमस्तके ॥

पादस्तन्मस्तकं भित्त्वा बहिर्यास्यति वेगतः

॥२७१॥

तावद्ब्रह्मांडवेगोऽयं विराडिति हि संज्ञितः ॥

स सर्व बीजरूपो हि परमात्मेति गद्यते

॥२७२॥

तेनेदं सकलं जातं पादस्याग्रे व्यवस्थितम् ॥

ब्रह्मांडभेदनं कृत्वा न गन्तव्यं बहिस्त्वया

॥२७३॥

तेनैव सह ब्रह्मांडे पफाल चरणो हरेः ॥

ब्रह्मांडं जर्जरं जातं पादसंकोचनादपि

॥२७४॥

भिन्ने तस्मिन्समायातं ब्राह्मं तोयं जगत्त्रये ॥

विष्णुपादोद्भवा गंगा मस्तकान्निःसृता तदा

॥२७५॥

त्रैलोक्यप्लाविनी देवी या रुद्रेण स्वयं धृता ॥

स्वर्धुनी पूज्यते स्वर्गे गंगेति गां गता सती

॥२७६॥

पाताले सा यदा प्राप्ता ख्याता त्रिपथगैव सा ॥

यस्याः स्मरणमात्रेण सर्वपापक्षयो भवेत्

॥२७७॥

दर्शनादश्वमेधस्य संपूर्णस्य फलं लभेत् ॥

स्नानमात्रेण नश्येत सप्तजन्मकृतं त्वघम्

॥२७८॥

स्नात्वा संपूजयेद्यस्तु देवौ हरिहरौ नरः ॥

इन्द्रलोकमतिक्रम्य विष्णुलोके महीयते

॥२७९॥

विष्णुपादोदकं पीत्वा ज्ञात्वा तत्त्वानि संयमी ॥

उपोष्य दिवसं विष्णोर्मुक्तिं गच्छति देहवान्

॥२८०॥

शुद्धस्वभावसत्त्वस्था विरक्ता जन्मभूमिषु ॥

संसारबंधनं छित्त्वा याति ते परमां गतिम्

॥२८१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलिनिग्रहवृत्तांतवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥