प्रवरतीर्थानुकीर्तनम्
ईश्वर उवाच
अथ वस्त्रापथे क्षेत्रे संति तीर्थानि कोटिशः ॥
तथापि सारं ते वच्मि सर्वतीर्थमहोदयम्
॥१॥दामोदरे नदी प्रोक्ता स्वर्णरेषेति या स्मृता ॥
ब्रह्मकुण्डं च तत्रैव तथा ब्रह्मेश्वरः स्मृतः
॥२॥कालमेघश्च संप्रोक्तो भवो दामोदरः स्मृतः ॥
गव्यूतिद्वितयेनैव कालिका तत्र कीर्तिता
॥३॥इन्द्रेश्वरश्च तत्रैव रैवतः पर्वतस्तथा ॥
उज्जयंतश्च तत्रैव देवः कुम्भीश्वरः स्मृतः
॥४॥भीमेश्वरश्च तत्रैव ततः क्षेत्रं महाप्रभम् ॥
तैलसारणिकंनाम त्रेतायां हैममारकम्
॥५॥पंचगव्यूतिमात्रं तु तत्क्षेत्रं संप्रकीर्तितम् ॥
मृगीकुण्डं च तत्रैव सर्वपातकनाशनम्
॥६॥एतद्वस्त्रापथं क्षेत्रं रत्नधात्वोस्तथाऽऽकरम् ॥
कथितं तव देवेशि पुनः संक्षेपतो मया
॥७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये प्रवरतीर्थानुकीर्तननाम तृतीयोऽध्यायः ॥ ३ ॥