मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय ५

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 5

गंगेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि मंगलात्पश्चिमे स्थितम् ॥

गंगास्रोतस्तथा लिंगं सुरार्कं च विशेषतः

॥१॥

तान्गच्छेद्विधिवद्देवि यदि यात्राफलेप्सुता ॥

स्नात्वा पिण्डप्रदानं च कुर्यात्तत्र यथार्थतः ॥

ब्राह्मणेभ्यस्तथा देयमन्नं भूरि सदक्षिणम्

॥२॥

इति ते कथितं मया प्रिये कलिपापौघविनाशनं शुभम् ॥

निखिलं तीर्थमहोदयोदयं पठितं सद्विनिहंति पापसंहतिम्

॥३॥

इदं न देयं दुर्बुद्धेः सुतरां पापनाशनम् ॥

श्रोतव्यं विधिना तद्वद्भविष्योक्तविधानतः

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥