मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १६

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 16

शिवरात्रिमाहात्म्यवर्णनम्

राजोवाच

अथासौ वामनो विप्रः प्रविष्टो गहने वने ॥

एकाकी किं चकाराथ कौतुकं तद्वदस्व मे

॥१॥

सारस्वत उवाच

अथासौ वामनो विप्रो गत्वा रैवतके गिरौ ॥

स्वर्णरेखानदीतोये स्नात्वाथ विधिपूर्वकम्

॥२॥

सुगंधपुष्पधूपाद्यैर्देवं संपूज्य भक्तितः ॥

तस्थौ तदग्रतो राजन्नेकाकी निर्जने वने

॥३॥

सर्वसत्त्वसमायुक्ते सरीसृपसमाकुले ॥

अनेकस्वरसंघुष्टे मयूरध्वनिनादिते

॥४॥

कोकिलारावरम्ये च वनकुक्कुटघोषिते ॥

खद्योतद्योतिते तस्मिन्वलीमुखविधूनिते

॥५॥

क्वचिद्वंशाग्निना शांते क्वचित्पुष्पितपादपे ॥

गगनासक्तविटपे सूर्यतापविवर्जिते

॥६॥

लुब्धकाघात संत्रस्तभ्रांतसूकरशंबरे ॥

संहृष्टक्षत्रियवातस्थानदानविचक्षणे

॥७॥

अनेकाश्चर्यसंपन्नं सस्मार मनसा हरिम् ॥

तं भीतमिव विज्ञाय नरसिंहः समाययौ

॥८॥

रक्षार्थं तस्य विप्रस्य बभाषे पुरतः स्थितः ॥

न भेतव्यं त्वया विप्र वद ते किं करोम्यहम्

॥९॥

विप्र उवाच

यदि तुष्टो वरो देयो नरसिंह त्वया मम ॥

सदात्र रक्षा कर्त्तव्या सर्वेषां तीर्थवासिनाम्

॥१०॥

देवस्याग्रे सदा स्थेयं यावदिंद्राश्चतुर्द्दश ॥

एवमस्त्विति तं प्रोच्य तथा चक्रे हरिस्तदा

॥११॥

अतो दामोदरस्याग्रे नरसिंहः स पूज्यते ॥

वनं सौम्यं कृतं तेन तीर्थरक्षां करोति सः

॥१२॥

भूतप्रेतादिसंवासो वने तस्मिन्न जायते ॥

नरसिंहप्रभावेन नष्टं सिंहादिजं भयम्

॥१३॥

कार्त्तिके वासरे विष्णोर्द्वादश्यां पारणे कृते ॥

दामोदरं नमस्कृत्य भवं द्रष्टुं ततो ययौ

॥१४॥

चतुर्दश्यां कृतस्नानो भवं संपूज्य भावतः ॥

भवभावभवं पापं भस्मीभूतं भवार्चनात्

॥१५॥

स क्षीणपापनिचयो जातो देवस्य दर्शनात् ॥

भवस्याग्रे स्थितं शांतं तथा वस्त्रापथस्य च

॥१६॥

तं कालमेघं समभ्यर्च्य ततो वस्त्रापथं ययौ ॥

देवं संपूज्य मंत्रैः स वेदोक्तैर्विधिपूर्वकम्

॥१७॥

धूपदीपादिनैवेद्यैः सर्वं चक्रे स वामनः ॥

प्रदक्षिणाशतं कृत्वा भवस्याग्रे व्यवस्थितः

॥१८॥

यावन्निरीक्षते सर्वं तावत्पश्यति पर्वतम् ॥

उज्जयंतं गिरिवरं मैनाकस्य सहोदरम्

॥१९॥

सुराष्ट्रदेशे विख्यातं युगादौ प्रथमं स्थितम् ॥

भूधरं भूधरैर्युक्तं शिलापादपमंडितम्

॥२०॥

तं दृष्ट्वा चिंतयामास सूक्ष्मान्धर्मान्स वामनः ॥

अल्पायासान्सुबहुलान्पुत्रलक्ष्मीप्रदायकान्

॥२१॥

अवश्यं क्रिय माणेषु स्वधर्म उपजायते ॥

दृष्ट्वा नदीं सागरगां स्नात्वा पापैः प्रमुच्यते

॥२२॥

गां स्पृष्ट्वा ब्राह्मणं नत्वा संपूज्य गुरुदेवताः ॥

तपस्विनं यतिं शांतं श्रोत्रियं ब्रह्मचारिणम्

॥२३॥

पितरं मातरं भगिनीं तत्पतिं दुहितां पतिम् ॥

भागिनेयमथ दौहित्रं मित्रसंबधिबांधवान् ॥

संभोज्य पातकैः सर्वैर्मुच्यंते गृहमेधिनः

॥२४॥

राजा गजाश्वनकुलं सतीवृषमहीधराः ॥

आदर्शक्षीरवृक्षाश्च सततान्नप्रदास्तु ते

॥२५॥

दृष्टमात्राः पुनन्त्येते ये नित्यं सत्यवादिनः ॥

वेदधर्मकथां श्रुत्वा भुक्तिमुक्तिप्रदा नरान्

॥२६॥

स्मृत्वा हरिहरौ गंगां कृत्वा तीरेण मार्जनम् ॥

गत्वा जागरणे विष्णोर्दत्त्वा दानं च शक्तितः

॥२७॥

तांबूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् ॥

गीतं नृत्यं च वाद्यं च विधाय सुरमंदिरे

॥२८॥

एते सूक्ष्माः स्मृता धर्माः क्रियमाणा महोदयाः ॥

अतो गिरीन्द्रं पश्यामि सर्वदेवालयं शुभम्

॥२९॥

तेषां करतले स्वर्गः शिखरं यांति ये नराः

॥३०॥

इति ज्ञात्वा समा रूढो वामनो गिरिमूर्द्धनि ॥

ऐरावतपदाक्रांत्या यत्र तोयं विनिःसृतम्

॥३१॥

ततः शिखरमारूढां भवानीं स्कन्दमातरम् ॥

द्रष्टुं स वामनो याति शिखरे गगनाश्रिते

॥३२॥

यथायथा गिरिवरे समारोहंति मानवाः ॥

तथातथा विमुच्यंते पातकैः सर्वदेहिनः

॥३३॥

इति कृत्वा मतिं विप्रो जगाम गिरिमूर्द्धनि ॥

भवभक्तो भवानीं स ददर्श स्कन्दमातरम्

॥३४॥

अंबेति भाषते स्कंदस्ततोऽन्ये सर्वदेवताः ॥

पृथिव्यां मानवाः सर्वे पाताले सर्वपन्नगाः

॥३५॥

अतो ह्यंबेति विख्याता पूज्यते गिरिमूर्द्धनि ॥

संपूज्य विविधैर्मुख्यैः फलैर्नानाविधैर्द्विजः

॥३६॥

गगनासक्तशिखरे संस्थितः कौतुकान्वितः ॥

एकाकी शिखरे तस्मिन्नूर्द्ध्वबाहुर्व्यवस्थितः

॥३७॥

निरीक्ष्य मेदिनीं सर्वां सपर्वतससागराम् ॥

आद्यं सनातनं देवं भास्करं त्रिगुणात्मकम्

॥३८॥

सर्वतेजोमयं सर्वदेवं देवैर्नमस्कृतम् ॥

भ्रममाणं निराधारं कालमानप्रयोजकम्

॥३९॥

यावत्पश्यति तं विप्रस्तावत्पश्यति शंकरम् ॥

दिगंबरं भवं देवं समंतादश्मगुंठितम्

॥४०॥

बुद्धरूपाकृतिं देवं सर्वज्ञं गुणभूषितम् ॥

कृशांगं जटिलं सौम्यं व्योममार्गे स्वयं स्थितम्

॥४१॥

श्रीशिव उवाच

शृणु वामन तुष्टोऽहं दास्ये ते विविधान्वरान् ॥

त्रैलोक्यव्यापिनी वृद्धिर्भविष्यति न संशयः

॥४२॥

प्रतिभास्यंति ते वेदा गीतनृत्यादिकं च यत् ॥

असाध्यसाधनी शक्ति भविष्यति तव स्थिरा ॥

परं वस्त्रापथे गत्वा कुरु तीर्थावलोकनम्

॥४३॥

वामन उवाच

वस्त्रापथे महादेव यानि तीर्थानि तानि मे ॥

वद देव विशेषेण यद्यस्ति करुणा मयि

॥४४॥

रुद्र उवाच

वस्त्रापथस्य वायव्ये कोणे दिव्यं सरोवरम् ॥

तस्य पश्चिमदिग्भागे जालिर्गहनपल्लवा

॥४५॥

बिल्ववृक्षमयी मध्ये लिंगं तत्रास्ति मृन्मयम् ॥

यत्रासौ लुब्धकः सिद्धो गतो मम पुरे पुरा

॥४६॥

तस्य दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥

इंद्रो वै वृत्रहा यस्मिन्विमुक्तो ब्रह्महत्यया

॥४७॥

तस्माद्रुत्तरदिग्भागे धनदेन प्रतिष्ठितम् ॥

लिंगं त्रैलोक्यविख्यातं तत्र देवी त्रिशूलिनी

॥४८॥

यस्या दर्शनमात्रेण पुत्रोऽस्य नलकूबर ॥

पाशानुषक्तहस्तोऽभूद्देवं चक्रे त्रिशूलिनम्

॥४९॥

भवस्य नैर्ऋते कोणे गणो हेरंबसंज्ञितः ॥

यमेन कुर्वता लिंगं प्रथमं च प्रतिष्ठितः

॥५०॥

विचित्रं तस्य माहात्म्यं चित्रगुप्तोऽति विस्मितः ॥

दृष्ट्वा समागतो द्रष्टुं देवं तं मृन्मयं पुरा

॥५१॥

तेनापि निर्मितं लिंगं तस्मिन्क्षेत्रे द्विजोत्तम ॥

चित्रगुप्तेश्वरंनाम विख्यातं भुवन त्रये

॥५२॥

पश्चिमेन चकारोच्चैः प्रजापतिरुदारधीः ॥

केदाराख्यं तदा लिंगं गिरौ रैवतके स्थितम् ॥

प्रजापतिः स्वयं तस्थौ तत्र पर्वतसानुनि

॥५३॥

रुद्र उवाच

इंद्रेश्वरस्य माहात्म्यं कथयिष्ये शृणुष्व तत् ॥

ईशानकोणे विख्यातं भवस्य विदितं मम

॥५४॥

वामन उवाच

कस्मादिंद्रः समायातः कथं चक्रे हरं हरिः ॥

कथां सविस्तरामेतां कथयस्व मम प्रभो

॥५५॥

रुद्र उवाच

लुब्धकस्तु पुरा सिद्धः शिवरात्रिप्रजागरात् ॥

शिवलोके तदा प्राप्तं विमानं गणसंयुतम्

॥५६॥

सर्वत्रगं सुरुचिरं दिव्यस्त्रीगीतनादितम् ॥

तदारुह्य समायातो द्रष्टुं तां नगरीं हरेः

॥५७॥

यस्यां युद्धं समभवद्गणानां यमकिंकरैः ॥

आगच्छमानं तं ज्ञात्वा देवराजेन चिंतितम्

॥५८॥

पूज्योऽयं हरवत्सर्वैश्चित्रगुप्तयमादिभिः ॥

इंद्रो गजं समारुह्य महिषेण यमो यतः

॥५९॥

विधाय लेखनीं कर्णे चित्रगुप्तो यमाज्ञया ॥

ततो हूता गणाः सर्वे ये नीता धरणीतलात्

॥६०॥

निजापराधसंतप्ता गतास्ते दक्षिणामुखम् ॥

आथित्यपू जा कर्तव्या लुब्धके गृहमागते

॥६१॥

अपूजिते गते ह्यस्मिन्हरो मां शपयिष्यति ॥

तस्मात्पूजां करिष्यामि यथा तुष्यति शंकरः

॥६२॥

देवं द्रष्टुं समायातं ददर्शादूरतः स्थितम् ॥

विमानस्थं हराकारं सूर्यकोटिसमप्रभम्

॥६३॥

संस्तूयमानं चरितैः शिवरात्रेः शिवस्य च ॥

माघे मासे चतुर्द्दश्यां कृष्णायां जागरे कृते

॥६४॥

तदेवं जायते सर्वं सुरेश्वर धरातले ॥

एवं देवांगना काचिदाचक्षंती पुरंदरम् ॥

निवार्य हस्तमुद्यम्य गजेंद्रं चारुलोचना

॥६५॥

किं दानैर्बहुभिर्दत्तैर्व्रतैः किं किं सुरार्चनैः ॥

किं योगैः किं तपोभिश्च ब्रह्मचर्य्यैः सुरेश्वर

॥६६॥

गयायां पिंडदानेन प्रयागमरणेन किम् ॥

सोमेश्वरे सरस्वत्यां सोमपर्वणि किं गतैः

॥६७॥

कुरुक्षेत्रगतैः किं स्याद्राहुग्रस्ते दिवाकरे ॥

तुलासुवर्णदानेन वेदपाठेन किं भवेत्

॥६८॥

सर्वपापक्षयो येन वृषोत्सर्गेण तेन किम् ॥

गोदानं किं करोत्येवं जलदानं तथैव च

॥६९॥

अयने विषुवे चैव संक्रांतौ कीदृशं फलम् ॥

माघमासे चतुर्दश्यां यादृशं जागरे कृते

॥७०॥

यमः संभाषते वाण्या महिषोपरि संस्थितः ॥

पश्य रुद्रस्य माहात्म्यं चित्रगुप्त विचारय

॥७१॥

अयं स लुब्धको येन हरः संपूजितः पुरा ॥

सुराष्ट्रदेशे विख्यातं तीर्थं वस्त्रापथं शृणु

॥७२॥

उज्जयंतो गिरिस्तत्र तथा रैवतको गिरिः ॥

महती वर्त्तते जालिस्तयोर्मध्ये मया श्रुतम्

॥७३॥

मृन्मयं वर्तते लिगं रात्रौ चानेन पूजितः ॥

रात्रौ जागरणं कर्त्तुं येन कार्येण चागतः

॥७४॥

तदस्माभिः कथं वाच्यं स्वयं जानंति ते सुराः ॥

वरांगना वरं द्रष्टुं वरयंति परस्परम् ॥

इंद्रावासात्समायाता नंदने वेगवत्तराः

॥७५॥

विरंचिना रायणशंकरत्विषा देहेन चागच्छति कोऽपि पूरुषः ॥

पुरीं सुरेशाधिपतेर्निरीक्षितुं भर्त्ता ममायं तव चास्ति किं पतिः

॥७६॥

मृदंगवीणा पटहस्वरस्तुतैः प्रवोधिताभिः सुरराजमन्दिरे ॥

देवो हरोऽयं न नरो हराकृतिर्दृष्टोंगनाभिस्तव किं किमावयोः

॥७७॥

गायंति काश्चिद्विहसंति काश्चिन्नृत्यंति काश्चित्प्रपठंति काश्चित् ॥

वदन्ति काश्चिज्जयशब्दसंयुतैर्वाक्यैरनेकैर्गुरुसन्निधाने

॥७८॥

काचिच्छिवं स्तौति शिवां तथान्या पृच्छत्यथान्या किमु बिल्वपत्रात् ॥

किं वोपवासेन फलं तवेदं निद्राक्षयेणाथ फलं तवैतत्

॥७९॥

तासां नानाविधा वाचः श्रूयन्ते नन्दने वने ॥

ब्रह्मलोकादिका वार्त्ताः कृत्वा च तदनन्तरम्

॥८०॥

देवेन्द्रो लुब्धकं भूयो बभाषे कौतुकान्वितः ॥

कस्मिन्देशे गिरौ जालिर्लिंगं यत्रास्ति दर्शय

॥८१॥

लुब्धक उवाच

सुराष्ट्रदेशे विख्यातो यस्मिन्देशे सरस्वती ॥

वाडवं शिरसा धृत्वा प्रविष्टा लवणोदधौ

॥८२॥

यत्र सा गोमती याति यत्रास्ते गन्धमादनः ॥

उज्जयंतो गिरिवरो यत्र रैवतको गिरिः

॥८३॥

तत्र वस्त्रापथं क्षेत्रं भवस्तत्र व्यवस्थितः ॥

तत्रास्ते मृन्मयं लिंगं जालिमध्ये सुरोत्तम

॥८४॥

इन्द्र उवाच

सहितैस्तत्र गंतव्यं पूजयिष्ये भवं स्वयम् ॥

जालिमध्ये तथा लिंगं दर्शयस्व च लुब्धक

॥८५॥

परदारादिकं पापं दैत्यानां तु विकृंतने ॥

वधे वृत्रस्य संजातं तत्सर्वं क्षालयाम्यहम्

॥८६॥

इत्युक्त्वा सहिताः सर्वे संप्राप्ता गिरिमूर्द्धनि ॥

वाहनानि च ते त्यक्त्वा प्रस्थिताः पादचारिणः

॥८७॥

उज्जयन्तगिरेर्मूर्ध्नि गजराजः समागतः ॥

तदाग्रचरणं तस्य ददौ मूर्धनि कारणात्

॥८८॥

तेनाक्रान्तो गिरिवरस्तोयं सुस्राव निर्मलम् ॥

गजपादोद्भवं वारि भविष्यति सदा स्थिरम्

॥८९॥

इति प्रोक्तं सुरेन्द्रेण लोकानां हितकाम्यया ॥

सर्वे समागतास्तत्र यत्र जालिर्व्यवस्थिता

॥९०॥

संपूज्य विविधैः पुष्पैर्माघमासे चतुर्दशी ॥

तस्यां जागरणं कृत्वा सञ्जातो निर्मलो हरिः

॥९१॥

वस्त्रापथे भवं पूज्य हरिं रैवतके गिरौ ॥

इन्द्रेश्वरं प्रतिष्ठाप्य संप्राप्तः स्वनिकतनम्

॥९२॥

लुब्धकोऽपि विमानेन संप्राप्तो हरिमन्दिरे ॥

इत्युक्त्वा स भवो देवस्तत्रैवांतरधीयत

॥९३॥

वामनोपि ततश्चक्रे तत्र तीर्थावगाहनम् ॥

यादृग्रूपः शिवो दृष्टः सूर्यबिंबे दिगंबरः

॥९४॥

पद्मासनस्थितः सौम्यस्तथा तं तत्र संस्मरन् ॥

प्रतिष्ठाप्य महामूर्त्तिं पूजयामास वासरम्

॥९५॥

मनोऽभीष्टार्थसिद्ध्यर्थं ततः सिद्धिमवाप्तवान् ॥

नेमिनाथशिवेत्येवं नाम चक्रे स वामनः

॥९६॥

भवस्य पश्चिमे भागे प्रत्यासन्ने धरातले ॥

वामनो वसतिं चक्रे तीर्थे वस्त्रापथे तदा

॥९७॥

अतो यवाधिकं प्रोक्तं तीर्थं देवैः सवासवैः ॥

इंद्रेण कुर्वता देवं समागत्य भवाग्रतः

॥९८॥

यवाधिकं प्रभासात्तु तीर्थमेतद्भवाज्ञया ॥

अन्येषां षड्गुणं तीर्थं भविष्यति शिवाज्ञया

॥९९॥

इत्येतत्कथितं सर्वं किमन्यत्परिपृच्छसि

॥१००॥

राजोवाच

शिवरात्रिप्रभावोयमतुलः परिकीर्त्तितः ॥

अजानता कृता तेन लुब्धकेन पुरा श्रुतम्

॥१०१॥

इदानीं वद कर्त्तव्या कथमन्यैर्जनैर्विभो ॥

किं ग्राह्यं किं नु मोक्तव्यं शिवरात्र्यां वदस्व मे

॥१०२॥

सारस्वत उवाच

संप्राप्य मानुषं जन्म ज्ञात्वा देवं महेश्वरम् ॥

शिवरात्रिः सदा कार्या भुक्तिमुक्तिप्रदायिनी

॥१०३॥

ईदृशं जायते पुण्यमेकया कृतया नृप ॥

ये कुर्वंति सदा मर्त्त्यास्तेषां पुण्यमनंतकम्

॥१०४॥

द्वादशाब्दं व्रतमिदं कर्त्तव्यं प्रतिवत्सरम् ॥

जीवितं चंचलं नृणां यदि कर्तुं न शक्यते

॥१०५॥

तदा द्वादशभिर्मासैर्व्रत मेतत्समाप्यते ॥

माघमासे चतुर्दश्यां प्रारम्भः क्रियते नृप

॥१०६॥

प्रतिमासं ततः कार्यं पौषांते तु समाप्यते ॥

विघ्नश्चेज्जायते मध्ये कथं चिद्दैवयोगतः

॥१०७॥

न भवेद्व्रतभंगस्तु पुनः कार्यमनन्तरम् ॥

द्वादशैव प्रकर्तव्याः कृत्वा संख्या विशेषतः

॥१०८॥

कृतं न नश्यते लोके शुभं वा यदि वाऽशुभम् ॥

कृष्णायां तु चतुर्दश्यां कृतपूर्वाह्निकक्रियः

॥१०९॥

उपवासनियमो ग्राह्यो नद्यां स्नानं विधीयते ॥

तदभावे तडागादौ कार्यं स्नानं स्वशक्तितः

॥११०॥

तैलाभ्यंगो न कर्त्तव्यो न कार्यं गमनं क्वचित् ॥

तीर्थसेवा प्रकर्त्तव्या तस्मिंश्चागमनं शुभम्

॥१११॥

शिवरात्रिः सदा कार्या लिंगे स्वायंभुवे नरैः ॥

तदभावे महापुण्ये लिंगे वर्षशताधिके

॥११२॥

गिरौ वने समुद्रांते नद्यां यच्च शिवालये ॥

तद्वै स्वायंभुवं लिंगं स्वयं तत्रैव संस्थितम्

॥११३॥

वालुलिंगादिकं लिंगं पूजितं फलदं स्मृतम् ॥

दिवा संपूज्य यत्नेन पुष्पधूपादिना नरः

॥११४॥

वर्जयेन्मदिरां द्यूतं नारीं नखनिकृन्तनम् ॥

ब्रह्मचर्यपरैः शांतैः कर्त्तव्यं समुपोषणम्

॥११५॥

रात्रौ देवाग्रतो गत्वा कर्त्तव्याः सप्त पर्वताः ॥

पक्वान्नफलतांबूलपुष्पधूपादिचर्चिताः

॥११६॥

घृतेन दीपः कर्त्तव्यः पापनाशनहेतवे ॥

यतो दीपस्य माहात्म्यं विज्ञेयं मुक्तिदायकम्

॥११७॥

दीपः सदैव कर्त्तव्यो गृहे देवालये नरैः ॥

दिवा निशि च संध्यायां दीपः कार्यः स्वशक्तितः

॥११८॥

किञ्चिदुद्द्योतमात्रेण देवास्तुष्यंति भूतले ॥

पितॄणां प्रथमं दीपः कर्त्तव्यः श्राद्धकर्मणि

॥११९॥

रात्रौ जागरणं कार्यं यथा निद्रा न जा यते ॥

शिवरात्रिप्रभावोऽयं श्रोतव्यः शिवसंनिधौ

॥१२०॥

शिवस्य चरितं रात्रौ श्रोतव्यं बहुविस्तरम् ॥

गीतं नृत्यं तथा वाद्यं कर्तव्यं शिवसंनिधौ

॥१२१॥

एवं सा नीयते रात्रिर्मुख्यं जागरणं यतः ॥

रात्रौ देयानि दानानि शक्त्या वै तत्र जागरे

॥१२२॥

पुनः स्नात्वा प्रभाते तु कर्त्तव्यं शिवपूजनम् ॥

पूजनीयाश्च यतयो भोजनाच्छादनादिभिः

॥१२३॥

तपस्विनां प्रदातव्यं भोजनं गृहमेधिभिः ॥

द्वादशाष्टौ च चत्वारो भोक्तव्या एक एव वा

॥१२४॥

एकोऽपि ब्रह्मचारी यो ब्रह्मविच्छिवपूजकः ॥

सहस्राणां समो भक्त्या गृहे संभोजितो भवेत्

॥१२५॥

अक्षारालवणं पत्रे भोक्तव्यं वाग्यतैः स्वयम् ॥

पुत्रमित्रकलत्राणां दातव्यं भोजनं पुरः

॥१२६॥

अनेन विधिना कार्या शिवरात्रिः शिवव्रतैः ॥

द्वादशैता यदा पूर्णास्तिलपात्राणि वै तदा

॥१२७॥

द्वादशैव प्रदेयानिगुरुब्राह्मणज्ञातिषु ॥

व्रतांते गौः प्रदातव्या कृष्णा वत्सयुता दृढा

॥१२८॥

सवस्त्राभरणा देया घंटाभरणभूषिता ॥

अंगुलीयकवासांसि च्छत्रोपानत्कमण्डलु

॥१२९॥

गुरवे दक्षिणा देयाब्राह्मणेभ्यः स्वशक्तितः ॥

एवं कृत्वा ततो देयं तपस्विभ्योऽथ भोजनम् ॥

मिष्टान्नं विविधं दत्त्वा क्षमाप्य च विसर्जयेत्

॥१३०॥

एवं यः कुरुते सत्यं तस्य पापं न विद्यते ॥

संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान्

॥१३१॥

दिव्यविमानमारूढो दिव्यस्त्रीपरिवेष्टितः ॥

गतिवादित्रनिर्घोषैर्नीयते शिवमन्दिरे

॥१३२॥

तदेतत्कथितं पुण्यं शिवरात्रिव्रतं मया ॥

कृतेन येन लोकानां सर्वपापक्षयो भवेत्

॥१३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये शिवरात्रिमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥