मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १७

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 17

बलियज्ञप्रभाववर्णनम्

राजोवाच

विचित्रमिदमाख्यानं त्वत्प्रसादाच्छ्रुतं मया ॥

दृष्ट्वा नारायणं शक्रं नारदो मंदरे गिरौ

॥१॥

किं चकार मुनींद्रोऽथ तन्मे विस्तरतो मुने ॥

वद संसारसरणोद्भूतमायाप्रपीडितम् ॥

कथामृतजलौघेन वितृषं कुरु मां प्रभो

॥२॥

सारस्वत उवाच

अथासौ नारदो देवं ज्ञात्वा शप्तं द्विजन्मना ॥

भृगुणा च तथा पूर्वं नान्यथैतद्भविष्यति

॥३॥

भविष्यं यद्भवं देव वर्तमानं विचिंत्यताम् ॥

अयं च वामनो भूत्वा विष्णुर्यास्यति तां पुरीम्

॥४॥

निग्रहं स बलेः पश्चात्करिष्यति मम प्रियम् ॥

युद्धं विना कथं स्थेयं वर्तमानं महोल्बणम्

॥५॥

देवदानवयुद्धानि दैत्यगन्धर्व रक्षसाम् ॥

निवारितानि सर्वाणि सरीसृपपतत्रिणाम्

॥६॥

सापत्नजः कलिर्नास्ति मम भाग्यपरिक्षये ॥

देवेन्द्रो गुरुणा पूर्वं वारितः किं करोम्यहम्

॥७॥

माननीयो गुरुर्मेऽयमतस्तं न शपाम्यहम् ॥

युद्धार्थं तु ततो यत्नो न सिध्यति करोमि किम्

॥८॥

केनापि दैवयोगेन पुरुषार्थो न सिध्यति ॥

तथापि यत्नः कर्तव्यः पुरुषार्थे विपश्चिता ॥

दैवं पुरुषकारेण विनापि फलति क्वचित्

॥९॥

यदुक्तं तद्वचो व्यर्थं यतः सिद्धिः प्रयत्नतः ॥

बलिं गत्वा भणिष्यामि यथा युद्धं करिष्यति

॥१०॥

न श्रोष्यति स चेद्वाक्यं निश्चितं तं शपाम्यहम् ॥

इत्युक्त्वा स ययौ वेगान्नारदो बलिमंदिरे ॥

निमेषांतरमात्रेण शिष्याभ्यां गगने स्थितः

॥११॥

प्रासादे शैलसंकाशे सप्तभौमे महोज्ज्वले ॥

तस्योपरि सभा दिव्या निर्मिता विश्वकर्मणा

॥१२॥

तस्यां सिंहासनं दिव्यं तत्रासीनो बलिर्नृप ॥

दैत्यैः परिवृतः सर्वैः प्रौढिहास्यकथापरैः

॥१३॥

ऋषिभिर्ब्राह्मणैः शांतैस्त थैवोशनसा स्वयम् ॥

पुत्रमित्रकलत्रैश्च संवृतो दिव्यमन्दिरे

॥१४॥

देवांगनाकरग्राहगृहीतैर्दिव्यचामरैः ॥

संवीज्यमानो दैत्येन्द्रः स्तूयमानः स चारणैः

॥१५॥

यावदास्ते मदोन्मत्ता मन्त्रयंति परस्परम् ॥

दैत्यदानवमुख्या ये ते सर्वे युद्धकांक्षिणः

॥१६॥

उत्थायोत्थाय भाषंते प्रगल्भंते सुरैः सह ॥

अस्मदीयमिदं सर्वं त्रैलोक्यं सांप्रतं गतम्

॥१७॥

शुक्रबुद्ध्या विना युद्धं प्राप्स्यते किं महोदयः ॥

दैत्येन्द्रो देवराजेन स्नेहं च कुरुतो यदि

॥१८॥

ऐरावणं सदा मत्तं कथं नो याचते बलिः ॥

चतुरं तुरगं कस्मान्नार्पयति दिवाकरः

॥१९॥

यावन्नाक्रम्यते लुब्धो धनाध्यक्षो रणाजिरे ॥

तावन्नार्पयते वित्तं यदा तत्संचितं सुरैः

॥२०॥

न दर्शयति रत्नानि जलराशी रसातलात् ॥

यावन्न मन्दरं क्षिप्त्वा विमथ्नीमो वयं च तम्

॥२१॥

यथामृतकलाश्चन्द्राद्भुज्यन्ते क्रमशः सुरैः ॥

एवं भागं बलेः कस्मान्न ददाति जलात्मकः

॥२२॥

स्वर्धुनी शीतलो वातः पद्मर्किजल्कवासितः ॥

स्वर्गे वाति शनैर्यद्वत्तथा न बलिमंदिरे

॥२३॥

इन्द्रचापोद्यता मेघा जलं मुंचंति भूतले ॥

बलिखङ्गोद्धुताः स्वर्गं पुनस्ते यांति भूतलात्

॥२४॥

अस्मदीये धरापृष्ठे यमो मारयते जनम् ॥

नैवं स्वर्गे न पाताले पश्याहो कार्यकारणम्

॥२५॥

आयुर्वृत्तिं सुतान्सौख्यमस्माकं लिखति स्वयम् ॥

ललाटे चित्रगुप्तोऽसौ न देवानां तु तत्समम्

॥२६॥

वर्षाशीतातपाः काला वर्तंते भुवि सांप्रतम् ॥

न स्वर्गे नैव पाताले भीता भूमौ भ्रमंति हि

॥२७॥

एकवीर्योद्भवा यूयं स्वस्रीया देवदानवाः ॥

भूमौ स्थिता वयं कस्माद्देवाः केनोपरिकृताः

॥२८॥

समुद्रे मथ्यमाने तु दैत्येन्द्रो वंचितः सुरैः ॥

एकतः सर्वदेवाश्च बलिश्चैवैकतः स्थितः

॥२९॥

उत्पन्नेषु च रत्नेषु भाग्यं वै यस्य यादृशम् ॥

गजाश्वकल्पवृक्षाद्याश्चंद्रगोगणदंतिनः

॥३०॥

गृहीत्वा ह्यमृतं देवैर्वयं पाने नियोजिताः ॥

एतया चूर्णिता यूयं न जानीथातिगर्विताः

॥३१॥

पीतावशेषं पीयूषं सत्यलोके धृतं सुरैः ॥

अहोतिकुटिला देवाः कस्माच्छेषं न दीयते

॥३२॥

सुरामृतमिति ज्ञात्वा पीयूषाद्वंचिता वयम् ॥

तिलतैलमेवमिष्टं यैर्न दृष्टं घृतं क्वचित्

॥३३॥

विष्णोर्वक्रचरित्राणां संख्या कर्तु न शक्यते ॥

तथापि कथ्यते तुष्टैर्हृष्टैस्तैर्यदनुष्ठितम्

॥३४॥

गौरांगी सुन्दरी सुभ्रूः पीनोन्नतपयोधरा ॥

सुकेशा चंद्रवदना कर्णासक्तविलोचना

॥३५॥

वलित्रयांकिता मध्ये बाला मुष्ट्यापि गृह्यते ॥

स्थलारविंदचरणा लतेव भुजभूषिता

॥३६॥

सा सर्वाभरणोपेता सर्वलक्षणसंयुता ॥

त्रैलोक्यमोहिनी देवी संजाताऽमृतमन्थने

॥३७॥

अमृतादुत्थिता पूर्वं यस्य सा तस्य तद्ध्रुवम् ॥

त्रैलोक्यं वशगं तस्य यस्य सा चारुलोचना

॥३८॥

तया संमोहिताः सर्वे देवदानवराक्षसाः ॥

विमुच्य मन्थनं सर्वे तां ग्रहीतुं समुद्यताः

॥३९॥

एका स्त्री बहवो देवा दानवादैत्यराक्षसाः ॥

विवादः सुमहाञ्जातः कथमत्र भविष्यति

॥४०॥

आगत्य विष्णुना सर्वे भुजे धृत्वा निवारिताः ॥

अस्यार्थे किमहो वादः क्रियते भोः परस्परम्

॥४१॥

अमृतार्थे समारम्भो महिलार्थे विनश्यति ॥

संकेतं प्रथमं कृत्वा विष्णुना चुंबिता पुनः

॥४२॥

दिव्यरूपधरः स्रग्वी वनमालाविभूषितः ॥

कौस्तुभोद्द्योतिततनुः शंखचक्रगदाधरः

॥४३॥

तस्या हस्ते शुभां मालां दत्त्वा विष्णुः पुरः स्थितः ॥

उद्धृत्य बाहुं सर्वेषां बभाषे वचनं हरिः

॥४४॥

कुर्वंतु कुण्डलं सर्वे तिष्ठन्तु स्वयमासने ॥

विलोक्य स्वेच्छया लक्ष्मीर्वरमालां प्रयच्छतु

॥४५॥

स्वयंवरविभेदं यः करिष्यत्यतिलंपटः ॥

स वध्यः सहितैः सर्वैः परस्त्रीलुब्धको यथा

॥४६॥

परदारकृतं पापं स्त्रीवध्या तस्य जायताम् ॥

अन्योऽपि यः करोत्येवमेवमस्तु तदुच्यताम्

॥४७॥

साधारणं हरिं ज्ञात्वा तथेत्युक्त्वा तथा कृतम् ॥

देवदानवदैत्यानां गंधर्वोरगरक्षसाम् ॥

मध्ये योऽभिमतो भर्ता स ते सत्यं भवेदिति

॥४८॥

तेनासौ मोहिता पूर्वं दृष्टिदानेन कर्षिता ॥

आद्यं संमोहनं स्त्रीणां चक्रे दृष्टिनिरीक्षणम्

॥४९॥

एवमेवेति तत्कर्णे हस्तं दत्त्वा यदुच्यते ॥

दधाति हृदि यं नारी कामबाणप्रपीडिता

॥५०॥

तमेव वरयेदत्र कश्चिन्नास्त्येव संशयः ॥

संजाते कलहे पूर्वं हरिणा तं निवर्तितुम्

॥५१॥

यदा गृहीता सर्वैः सा हरिं नैव विमुंचति ॥

त्वमेव भर्ता साऽऽचष्टे मुंच मां व्रज दूरतः

॥५२॥

मुक्त्वा दूरं ततो विष्णुः प्रविष्टः सुरमण्डले ॥

तदा सर्वे च मामुक्त्वा यथास्थानं स्वयं गताः

॥५३॥

आचष्ट विजया पूर्वं सर्वान्देवान्यथाक्रमम् ॥

सा च निरीक्षते पश्चात्तं विचार्य विमुञ्चति

॥५४॥

उदासीनः शिवः शांतो गौरीकांतस्त्रिलोचनः ॥

नान्यां निरीक्षते नित्यं ध्यानासक्तस्त्रिलोचनः

॥५५॥

पितामहोयमित्युक्तं यदा सख्या तदा तया ॥

नमस्कृत्य गतं दूरे कृत्वा मौनं न पश्यति

॥५६॥

आदित्यं पद्मकं मुञ्च दहनं दहनात्मकम् ॥

वाति वातो गता दूरे वरुणो मे पिता यतः

॥५७॥

पौलोमीवदनासक्तो देवेन्द्रो मे न रोचते

॥५८॥

वधबंधकृतच्छेदभेददण्डविकर्ष णम् ॥

कुर्वन्न कुरुते सौम्यं रूपं वैवस्वतो यमः

॥५९॥

देवदानवगंधर्वदैत्यपन्नगराक्षसान्

॥६०॥

दृष्ट्वात्युग्रांस्ततो याति दृष्टोऽसौ पुरुषो त्तमः ॥

कर्णांतलोचनभ्रांतवक्त्रं दृष्ट्यावलोक्य तम्

॥६१॥

सौभाग्यातिशयाक्रांतं रम्यं काममनोहरम् ॥

संजातपुलकोद्भेदस्वेदवारिकणांकितम्

॥६२॥

देवदानवदैत्येन्द्रक्रोधदृष्टिनिरीक्षितम् ॥

रम्यं रामा वरं चक्रे ददौ मालां ततः स्वयम्

॥६३॥

दैत्याः परस्परं प्रोचुः प्रेक्ष्य तत्सुरचेष्टितम् ॥

विभागं पश्य देवानां स्वर्गे सर्वे स्वयं गताः

॥६४॥

पातालस्य तले यूयं मानवा धरणीतले ॥

देवास्त्रिभुवने यांतु न वयं स्वर्गगामिनः

॥६५॥

मानवाः क्षत्रिया राज्यं कुर्वंतु पृथिवीतले ॥

पातालं तु परित्यज्य धात्री यदि तु रक्ष्यते

॥६६॥

दैत्यदानवजैः कैश्चिद्राक्षसैस्तन्न शोभनम् ॥

अथ किं बहुनोक्तेन राजा त्रिभुवने बलिः

॥६७॥

संविभज्याथ रत्नानि समं राज्यं विधीयताम् ॥

यावदेवं प्रगल्भंते तावत्पश्यंति नारदम्

॥६८॥

गगनात्समुपायांतं द्वितीयमिव भास्करम् ॥

ब्रह्मदंडकरासक्तयुद्धपुस्तकधारिणम्

॥६९॥

कृष्णाजिनधरं शांतं छत्रवीणाकमण्डलून् ॥

मौंजीगुणत्रयासक्तग्रंथिप्रवरमेखलम्

॥७०॥

ब्रह्मरूपधरं शांतं दिव्यरुद्राक्षभूषितम् ॥

गत कल्पकृतग्रंथिसूत्रमालावलंबितम्

॥७१॥

विरंचिहरसंवादो जन्माहंकारगर्वितः ॥

संक्रुद्धैः क्रियते कोऽद्य चिंतातत्परमानसम्

॥७२॥

आयातं नारदं दृष्ट्वा विस्मिताः समुपस्थिताः ॥

प्रभो प्रसादः क्रियतामागंतव्यं गृहे मम

॥७३॥

धन्योऽहं कृतपुण्योऽहं यस्य मे त्वं गृहागतः ॥

इत्युक्तो बलिना विप्रो विवेशासुरमंदिरे ॥

आसनं पाद्यमर्घ्यं च दत्त्वा संपूजितो द्विजः

॥७४॥

प्रविश्य सहिताः सर्वे संविष्टा दैत्यदानवाः ॥

शुक्रेण सहितो दैत्यो बभाषे नारदं बलिः

॥७५॥

इदं राज्यमिमे दारा इमे पुत्रा अहं बलिः ॥

ब्रूहि येनात्र ते कार्यं दानं मे प्रथमं व्रतम्

॥७६॥

नारद उवाच

भक्त्या तुष्यंति ये विप्रास्ते विप्रा भूमिदेवताः ॥

न तु ये पूजिताः शक्त्या पुनर्याचंति तेऽधमाः

॥७७॥

त्वयाऽहं पूजितो हृष्टो न वित्तैर्मे प्रयोजनम् ॥

हृष्टोऽहं तव राज्येन यज्ञैर्दानैर्व्रतैस्तथा ॥

देवैः कृतं विप्रियं ते किंचित्पश्याम्यहं बले ॥

त्वया संपूज्यमानोऽपि देवराजो न तुष्यति

॥७९॥

न क्षमंति सुराः सर्वे तव राज्यं धरातले ॥

स्वर्गे मे तापको जातो देवानां तव विग्रहे

॥८०॥

संनह्य प्रथमं याति यः सैन्यं शत्रुभूमिषु ॥

स क्षत्रियो विजयते तस्य राज्यं च वर्धते

॥८१॥

उच्छेदस्तव राज्यस्य भविष्यति श्रुतं मया ॥

एवं ज्ञात्वा यथायुक्तं तच्छीघ्रं तु विधीयताम्

॥८२॥

बलिरुवाच

यैर्गुणैः कुरुते राज्यं राजा तान्वद मे विभो ॥

दानं पात्रे प्रदातव्यं मया त्वमपि तं वद

॥८३॥

नारद उवाच

षड्विंशद्गुणसंपन्नो राजा राज्यं करोति च ॥

स राज्यफलमाप्नोति शृणु तत्कथयाम्यहम्

॥८४॥

चरेद्धर्मानकटुको मुंचेत्स्नेहमनास्तिके ॥

अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः

॥८५॥

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ॥

दाता चाऽऽयामवर्जः स्यात्प्रगल्भः स्यादनिष्ठुरः

॥८६॥

संदधीत न चानार्यान्विगृह्णीयान्न बंधुभिः ॥

नानाप्तैश्चारयेच्चारान्कुर्यात्कार्यमपीडयन्

॥८७॥

अर्थान्ब्रूयान्न चापत्सु गुणान्ब्रूयान्न चात्मनः ॥

आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत्

॥८८॥

नापरीक्ष्य नयेद्दण्डं न च मंत्रं प्रकाशयेत् ॥

विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु

॥८९॥

आप्तैः सुगुप्तदारः स्याद्रक्ष्यश्चान्यो घृणी नृपः ॥

स्त्रियं सेवेत नात्यर्थं मृष्टं भुंजीत नाऽहितम्

॥९०॥

अस्तेयः पूजयेन्मान्यान्गुरुं सेवेदमायया ॥

अर्च्यो देवो न दम्भेन श्रियमिच्छेदकुत्सिताम्

॥९१॥

सेवेत प्रणयं कृत्वा दक्षः स्यादथ कालवित् ॥

सांत्ववाक्यं सदा वाच्यमनुगृह्णन्न चाक्षिपेत्

॥९२॥

प्रहरेन्न च विप्राय हत्वा शत्रून्न शेषयेत् ॥

क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु

॥९३॥

एवं राज्ये चिरं स्थेयं यदि श्रेय इहेच्छसि ॥

तपःस्वाध्यायदानानि तीर्थयात्राऽऽश्रमाणि च

॥९४॥

योगेनात्मप्रबोधस्य कलां नार्हंति षोडशीम् ॥

त्वया संसारवैराग्यं कर्त्तव्यं विप्रपूजनम्

॥९५॥

यष्टव्यं विविधैर्यज्ञैर्ध्येयो नारायणो हरिः ॥

प्रसंगेन समायातो यास्ये रैवतके गिरौ

॥९६॥

तत्रास्ते भगवान्विष्णुर्नदी त्रैलोक्यपावनी ॥

तत्रास्ते च शिवावृक्षो बहुपुष्पफलान्वितः ॥

तत्र गत्वा करिष्यामि व्रतं तद्विष्णुवल्लभम्

॥९७॥

बलिरुवाच

कोऽयं रैवतकोनाम व्रतं किं विष्णुवल्लभम् ॥

शिवावृक्षास्तु के प्रोक्तास्तत्कथं कथयस्व मे

॥९८॥

नारद उवाच

पुरा युगादौ दैत्येन्द्र सपक्षाः पर्वताः कृताः ॥

संचिंत्य ब्रह्मणा पश्चादचलास्ते कृताः पुनः

॥९९॥

उत्पतंति महाकाया निपतंति यदृच्छया ॥

मेरुमंदरकैलासा वचसा संस्थिताः स्थिराः

॥१००॥

वारिता न स्थिता ये तु त इंद्रेण स्थिरीकृताः ॥

मेरोर्दक्षिण शृंगे तु कुमुदेति स पर्वतः

॥१०१॥

दिव्यः सपक्षः सौवर्णो दिव्यवृक्षैः समावृतः ॥

तस्योपरि पुरी दिव्या वैष्णवी विष्णुना कृता

॥१०२॥

तस्या मध्ये गृहं दिव्यं यस्मिल्लँक्ष्मीः सदा स्थिता ॥

मेरोः शृंगे पुरी रम्या गृहं तत्र मनोरमम्

॥१०३॥

तत्रास्ते स भवो देवो भवानी यत्र संस्थिता ॥

सभा माहेश्वरी रम्या सौवर्णी रत्नमंडिता

॥१०४॥

तत्रास्ते भगवान्विष्णुर्देवैर्ब्रह्मादिभिर्वृतः ॥

तस्यां विष्णुः सदा याति देवं द्रष्टुं महेश्वरम्

॥१०५॥

सौवर्णैः कुमुदैर्यस्मादसौ सर्वत्र मंडितः ॥

कुमुदेति कृतं नाम देवैस्तत्र समागतैः

॥१०६॥

एकदा भगवान्रुद्रो गिरौ तस्मिन्समागतः ॥

द्रष्टुं तच्छिखरे रम्ये तां पुरीं विष्णुपालिताम्

॥१०७॥

गृहागतं हरं दृष्ट्वा हरिणा स तु पूजितः ॥

लक्ष्म्या संपूजिता गौरी हर्षिता तत्र संस्थिता

॥१०८॥

एकासनोपविष्टौ तौ मंत्रयंतौ परस्परम् ॥

हरेण कारणं ज्ञात्वा तत्सर्वं कथितं हरेः

॥१०९॥

त्वयेयं नगरी कार्या मंदरे पर्वतोत्तमे ॥

प्रष्टव्यः कारणं नाहमवश्यं तद्भविष्यति

॥११०॥

हर एव विजानाति कारणं कतमोऽपि न ॥

एवं तथेति तौ प्रोक्त्वा संस्थितौ पर्वतोऽपि सः

॥१११॥

तं दृष्ट्वा संगतं रुद्रं कुमुदः स्वयमाययौ ॥

धन्योऽहं कृतपुण्योऽहं यस्य मे गृहमागतौ

॥११२॥

द्वाभ्यामुक्तो गिरिवरो ददाव किं वरं तव ॥

इत्युक्तः पर्वतस्ताभ्यां वरं वव्रे स मूढधीः

॥११३॥

भविष्यत्कार्यहेतुत्वाद्भविष्यति न तद्वृथा ॥

यत्राहं तत्र वस्तव्यं भवद्भ्यामस्तु मे वरः

॥११४॥

मत्सन्निधौ समागत्य स्थातव्यं ब्रह्मवासरम् ॥

तथेत्युक्त्वा सपत्नीकौ गतौ हरिहरावुभौ

॥११६॥

पञ्चमो यो मनुः पूर्वं रैवतो नाम विश्रुतः ॥

तस्योत्पत्तौ तु यद्वृत्तं कुमुदाग्रे शृणुष्व तत्

॥११६॥

ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ॥

तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः

॥११७॥

स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ॥

तथोपनयनाद्याश्च स चाशीलोऽभवन्नृप

॥११८॥

यतः प्रभृति जातोऽसौ ततः प्रभृत्यसावृषिः ॥

दीर्घरोगपरामर्शमवापातीव दुर्द्धरम्

॥११९॥

माता चास्य परामार्तिं कुष्ठरोगाभिपीडिता ॥

जगाम चिन्तां स ऋषिः किमेतदिति दुःखितः

॥१२०॥

मूर्खस्तु मंदधीः पुत्रो दुःखं जनयते पितुः ॥

अमार्गगो विशेषेण दुःखाद्दुःखतरं हि तत्

॥१२१॥

अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥

सुहृदां नोपकाराय पितॄणां नापि तृप्तये

॥१२२॥

सुपुत्रो हृदयेऽभ्येति मातापित्रोर्दिनेदिने ॥

पित्रोर्दुःखाय धिग्जन्म तस्य दुष्कृतकर्मणः

॥१२३॥

धन्यास्ते तनया ये स्युः सवर्लोकाभिसंमताः ॥

परोपकारिणः शांताः साधुकर्मण्यनुव्रताः

॥१२४॥

अनिर्वृतं निरानंदं दुःखशोकपरिप्लुतम् ॥

नरकाय न स्वर्गाय कुपुत्रत्वं हि जन्मिनः

॥१२५॥

करोति सुहृदां दैन्यमहितानां तथा मुदम् ॥

अकाले तु जरां पित्रोः कुपुत्रः कुरुते किल

॥१२६॥

नारद उवाच

एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ॥

दह्यमानमनोवृत्तिर्वृद्धगर्गमपृच्छत

॥१२७॥

ऋतवागुवाच

सुव्रतेन पुरा वेदा अधीता विधिना मया ॥

समाप्य विद्या विधवत्कृतो दारपरिग्रहः

॥१२८॥

सदारेण हि याः कार्याः श्रौतस्मार्त्तादिकाः क्रियाः ॥

ताः कृताश्च विधानेन कामं समनुरुध्य च

॥१२९॥

पुत्रार्थं जनितश्चायं पुंनाम्नो विच्युतौ मुने ॥

सोऽयं किमात्मदोषेण मातुर्दोषेण किं मम ॥

अस्मद्दुःखावहो जातो दौःशील्याद्वद कोविद

॥१३०॥

गर्ग उवाच

रेवत्यन्ते मुनिश्रेष्ठ जातोऽयं तनयस्तव ॥

तेन दुःखाय ते दुष्टे काले यस्मादजायत

॥१३१॥

तवापचारो नैवास्य मातुर्नापि कुलस्य च ॥

अन्यद्दौःशील्यहेतुत्वं रेवत्यंत उपागतम्

॥१३२॥

रेवती अश्विनोर्मध्यमाश्लेषामघयोस्तथा ॥

ज्येष्ठामूलर्क्षयोः प्रोक्तं गंडांतं तु भयावहम्

॥१३३॥

गंडत्रये तु ये जाता नरनारीतुरंगमाः ॥

तिष्ठंति न चिरं गेहे तिष्ठन्तोऽपि भयंकराः ॥

एवमुक्तोऽथ गर्गेण चुक्रोधातीव कोपनः

॥१३४॥

ऋतवागुवाच

यस्मान्ममैक पुत्रस्य रेवत्यन्ते समुद्भवः

॥१३५॥

रेवती किं न जानाति मां विप्रः शापयिष्यति ॥

जाज्वल्यमाना गगनात्तस्मात्पततु रेवती

॥१३६॥

नारद उवाच

तेनैवं व्याहृते वाक्ये रेवत्यृक्षं पपात ह ॥

पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः

॥१३७॥

ईश्वरेच्छाप्रभावेन पतिता गिरिमूर्द्धनि ॥

रेवत्यृक्षं निपतितं कुमुदाद्रौ समन्ततः

॥१३८॥

सुराष्ट्रदेशे स प्राप्तः पतितो भूतले शुभे ॥

हिमाचलस्य पुत्रो य उज्जयंतो गिरिर्महान्

॥१३९॥

कुमुदेन समं मैत्री कृता पूर्वं परस्परम् ॥

यत्र त्वं स्थास्यसे स्थाता तत्राहमपि निश्चितम्

॥१४०॥

इति कृत्वा गृहीत्वाथ गंगावारि सयामुनम् ॥

सारस्वतं तथा पुण्यं सिंचितुं तं समागतः

॥१४१॥

आहूतसंप्लवं यावत्संस्थितौ तौ परस्परम् ॥

कुमुदाद्रिश्च तत्पातात्ख्यातो रैवतकोऽभवत्

॥१४२॥

अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीपते ॥

कुमुदाद्रिश्च सौवर्णो रेवतीच्यवनात्पुनः

॥१४३॥

पंकजाभः स बाह्येन जातो वर्णेन भूपते ॥

मेरुवर्णः स मध्ये तु सौवर्णः पर्वतोत्तमः

॥१४४॥

ततः सञ्जनयामास कन्यां रैवतको गिरिः ॥

रेवतीकांति संभूतां रेवतीसदृशाननाम्

॥१४५॥

प्रमुचो नाम राजर्षिस्तेन दृष्टा वरांगना ॥

पितृवद्रेवतीनाम कृतं तस्या नृपोत्तम

॥१४६॥

रेवतीति च विख्याता सा सर्वत्र वरांगना ॥

सर्वतेजोमयं स्थानं सर्वतीर्थजलाश्रयम्

॥१४७॥

गंगाजलप्रवाहैश्च संयुक्तं यामुनैस्तथा ॥

स्थितं सारस्वतं तोयं तत्र गर्तेषु तत्त्रयम्

॥१४८॥

विख्यातं रेवतीकुंडं यत्र जाता च रेवती ॥

स्मरणाद्दर्शनात्स्नानात्सर्वपापक्षयो भवेत्

॥१४९॥

सा बाला वर्द्धिता तेन प्रमुंचेन महात्मना ॥

यौवनं तु तया प्राप्तं तस्मिन्रैवतके गिरौ

॥१५०॥

तां तु यौवनसंपन्नां दृष्ट्वाऽथ प्रमुचो मुनि ॥

एकांते चिन्तयामास कोऽस्या भर्ता भविष्यति

॥१५१॥

हूत्वाहूत्वा स पप्रच्छ गुरुं वह्निं द्विजोत्तमः ॥

प्रसादं कुरु मे ब्रूहि कोऽस्या भर्ता भविष्यति

॥१५२॥

अन्योऽस्याः सदृशः कोऽपि वंशे नास्ति करोमि किम् ॥

वह्निकुण्डात्समुत्थाय प्रोक्तवान्हव्यवाहनः

॥१५३॥

शृणु मे वचनं विप्र योऽस्या भर्ता भविष्यति ॥

प्रियव्रतान्वयभवो महाबलपराक्रमः

॥१५४॥

पुत्रो विक्रमशीलस्य कालिंदीजठरोद्भवः ॥

दुर्दमो नाम भविता भर्ता ह्यस्या महीपतिः

॥१५५॥

अत्रांतरे समायातो दुर्दमः स महीपतिः ॥

गिरौ मृगवधाकांक्षी मुनिं गेहे न पश्यति ॥

प्रियेऽयि तातः क्व गत एहि सत्यं ब्रवीहि मे

॥१५६॥

नारद उवाच

अग्निशालास्थितेनैव तच्छ्रुतं वचनं प्रियम् ॥

प्रियेत्यामन्त्रणं कोऽयं करोति मम वेश्मनि

॥१५७॥

स ददर्श महात्मानं राजानं दुर्दमं मुनिः ॥

जहर्ष दुर्दमं दृष्ट्वा मुनिः प्राह स गौतमम्

॥१५८॥

शिष्यं विनयसम्पन्नमर्घ्यं पाद्यं समानय ॥

एकं तावदयं भूपश्चिरकालादुपागतः

॥१५९॥

जामाता सांप्रतं राजा योग्यास्य च सुता मम ॥

ततः स चिंतयामास राजा जामातृ कारणम्

॥१६०॥

मौनेन विधिना राजा जगृहेऽर्घ्यं द्विजाज्ञया ॥

तमासनगतं विप्रो गृहीतार्घ्यं महामुनिः

॥१६१॥

प्रस्तुतं प्राह राजेन्द्रं नृपते कुशलं पुरे ॥

कोशे बले च मित्रे च भृत्यामात्य प्रजासु च ॥

तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम्

॥१६२॥

पत्नी च ते कुशलिनी याऽत्र स्थाने हि तिष्ठति ॥

अन्यासां कुशलं ब्रूहि याः संति तव मंदिरे

॥१६३॥

राजोवाच

त्वत्प्रसादादकुशलं नास्ति राज्ये क्वचिन्मम ॥

जातकौतूहलोऽस्म्यस्मि मम भार्याऽत्र का मुने

॥१६४॥

प्रमुच उवाच

रेवती ते वरा भार्या किं न वेत्सि नृपोत्तम ॥

त्रैलोक्यसुन्दरी या तु कथं सा विस्मृता तव

॥१६५॥

राजोवाच

सुभद्रां शांतपापां च कावेरीतनयां तथा ॥

सूरात्मजानुजातां च कदंबां च वरप्रजाम्

॥१६६॥

विपाठां नंदिनीं चैव वेद्मि भार्यां गृहे मम ॥

तिष्ठन्ति नैव जानामि भार्या मे रेवती कुतः

॥३६७॥

ऋषिरुवाच

प्रियेति सांप्रतं प्रोक्ता रेवती सा प्रिया तव ॥

तदन्यथा न भविता वचनं नृपसत्तम

॥१६८॥

राजोवाच

नास्ति भावकृतो दोषः क्षम्यतां तद्वचो मम ॥

विनिर्गतं वचोवक्त्रान्नाहं जाने द्विजोत्तम

॥१६९॥

ऋषिरुवाच

नास्ति भावकृतो दोषः परिवेद्मि कुरुष्व तत् ॥

वह्निना कथितस्त्वं मे जामाताद्य भविष्यसि

॥१७०॥

इत्यादिवचनै राजा भार्या मेने स रेवतीम् ॥

ऋषिस्तथोद्यतः कर्तुं विवाहं विधि पूर्वकम् ॥

उवाच कन्या पितरं किञ्चिन्मे श्रूयतां पितः

॥१७१॥

यदि मे पतिना तात विवाहं कर्तुमिच्छसि ॥

रेवत्यृक्षं विवाहं मे तत्करोतु प्रसादतः

॥१७२॥

ऋषिरुवाच

रेवत्यृक्षश्च न वै भद्रे चन्द्रयोगे दिवि स्थितम् ॥

ऋक्षाण्यन्यान्यपि संति सुभ्रूर्वैवाहकानि च

॥१७३॥

कन्योवाच

तात तेन विना कालो विकलः प्रतिभाति मे ॥

विवाहो विकले तात मद्विधायाः कथं भवेत् ॥

प्रमुञ्च उवाच ॥

ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ॥

चकार कोपं क्रुद्धेन तेनर्क्षं तन्निपातितम्

॥१७५॥

मया चास्मै प्रतिज्ञाता भार्येति विदितं तव ॥

न चेच्छसि विवाहं त्वं संकटं नः समागतम्

॥१७६॥

कन्योवाच

ऋतवागेव स मुनिः किमेतत्तप्तवान्स्वयम् ॥

न त्वया मम तातेन ब्रह्मबन्धोः सुताऽस्मि किम्

॥१७७॥

ऋषिरुवाच

ब्रह्मबन्धोः सुता न त्वं तपस्वी नास्ति मेऽधिकः ॥

सुता त्वं च मया देया नान्यत्कर्तुं समुत्सहे

॥१७८॥

कन्योवाच

तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ॥

समारोप्य विवाहो मे कस्मान्न क्रियते पुनः

॥१७९॥

ऋषिरुवाच

एवं भवतु भद्रं ते भद्रे प्रीतिमती भव ॥

आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव

॥१८०॥

ततस्तपःप्रभावेन रेवत्यृक्षं महामुनिः ॥

यथा पूर्वं तथा चक्रे सोमयोगि द्विजोत्तमः ॥

विवाहं दुहितुः कृत्वा जामातरमुवाच ह

॥१८१॥

औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम् ॥

दुष्प्रापमपि दास्यामि विद्यते मे महत्तपः

॥१८२॥

राजोवाच

मनोः स्वायंभुवस्याहमुत्पन्नः संततौ मुने ॥

मन्वंतराधिपं पुत्रं त्वत्प्रसादाद्वृणोम्यहम्

॥१८३॥

ऋषिरुवाच

भविष्यति महीपालो महाबलपराक्रमः ॥

रेवती रेवतीकुण्डे स्नात्वा पुत्रं जनिष्यति

॥१८४॥

एवं कृत्वा गतो राजा सा च पुत्रमजीजनत् ॥

रैवतेति कृतं नाम बभूव स मनुर्नृपः

॥१८५॥

अमुना च तदा प्रोक्तमस्मिन्रैवतके गिरौ ॥

स्त्रियः स्नानं करिष्यंति तासां पुत्रा महाबलाः ॥

दीर्घायुषो भविष्यंति दुःखदारिद्र्यवर्जिताः

॥१८६॥

नारद उवाच

इत्युक्ते पर्वतो राजन्दीर्घो भूत्वा पपात सः ॥

एतौ तौ संस्मृतौ देवौ सभार्यौ हरिशंकरौ

॥१८७॥

स्मृतमात्रौ तदाऽऽयातौ तेन बद्धौ पुरा यतः ॥

यत्राहं तत्र स्थातव्यं भवद्भ्यामिति निश्चितम्

॥१८८॥

अतो विष्णुहरौ देवौ स्थितौ तौ पर्वतोत्तमे ॥

गिरौ रैवतके रम्ये स्वर्णरेखानदीजले ॥

आराधयद्धरिं देवं रेवती तां च सोब्रवीत्

॥१८९॥

भवताच्चंद्रयोगस्ते गगने ब्राह्मणाज्ञया ॥

अन्यद्वृणीष्व तुष्टोऽहं वरं मनसि यत्स्थितम्

॥१९०॥

रेवत्युवाच

गिरौ रैवतके देव स्थातव्यं भवता सदा ॥

मया स्नानं कृतं यत्र तत्र स्नास्यंति ये जनाः

॥१९१॥

तेषां विष्णुपुरे वासो भवत्विति वृतं मया ॥

एवमस्तु तदा प्रोच्य गिरौ रैवतके स्थितः ॥

दामोदरश्चतुर्बाहुः स्वयं रुद्रोपि संस्थितः

॥१९२॥

गंगाद्याः सरितः सर्वाः संस्थिता विष्णुना सह ॥

क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः

॥१९३॥

आमर्द्दे देवदैत्यानां तेन सामर्दकी स्मृता ॥

अस्मिन्वृक्षे स्थिता लक्ष्मीः सदा पितृगृहे नृप

॥१९४॥

शिवालक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ॥

देवैर्ब्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः

॥१९५॥

सर्वैः संचिंत्य मुक्तोऽसौ गिरौ रैवतके पुरा ॥

अस्य वृक्षस्य यात्रां ये करिष्यंति हरेर्दिने

॥१९६॥

फाल्गुने च सिते पक्ष एकादश्यां नृपोत्तम ॥

तेषां पुत्राश्च पौत्राश्च भविष्यंति गुणाधिकाः ॥

प्रांते विष्णुपुरे वासो जायतेनात्र संशयः

॥१९७॥

बलिरुवाच

कथमेतद्व्रतं कार्यं वैष्णवं विष्णुवल्लभम् ॥

रात्रौ जागरणं कार्यं विधिना केन तद्वद

॥१९८॥

नारद उवाच

फाल्गुनस्य सिते पक्ष एकादश्यामुपोषितः ॥

स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा

॥१९९॥

गत्वा गिरौ वने वाऽपि यत्र सा प्राप्यते शिवा ॥

पूज्या पुष्पैः शुभै रात्रौ कार्यं जागरणं नरैः

॥२००॥

अष्टाधिकशतैः कार्या फलैस्तस्याः प्रदक्षिणा ॥

प्रदक्षिणीकृत्य नगं भोक्तव्यं तु फलं नरैः

॥२०१॥

करकं जलपूर्णं तु कर्त्तव्यं पात्रसंयुतम् ॥

हविष्यान्नं तु कर्त्तव्यं दीपः कार्यो विधानतः

॥२०२॥

एवं जागरणं कार्यं कथाश्रवणतत्परैः ॥

मुच्यंते देहिनः पापैः कलिजैः कायसंभवैः

॥२०३॥

देहांते ते नराः सर्वे पूज्यंते हरिमंदिरे

॥२०४॥

सारस्वत उवाच

इत्युक्त्वा नारदो दैत्यं ययौ रैवतकं गिरिम् ॥

दैत्येन्द्रो मंत्रयामास किंकार्यं सांप्रतं मया

॥२०५॥

न रोचते सुरैः सार्द्धं विग्रहो मे सुरोत्तमाः

॥२०६॥

मंत्रिण ऊचुः

नास्ति क्षमा भृशं तेषां क्षत्रियाणां गृहे सताम् ॥

अशक्तमपि मंस्यंते स्वयमायांति ते यतः ॥

तस्मात्स्वयं प्रयास्यामो देवेन्द्रं सहिता वयम्

॥२०७॥

इति श्रुत्वा ददौ ढक्कां प्रथमं सुरविग्रहे ॥

गृहीत्वा वाहिनीं दैत्याः प्रस्थिता मेरु पर्वते

॥२०८॥

यत्र सा नगरी रम्या देवराजस्य पूर्वतः ॥

आगच्छमानां तां ज्ञात्वा वाहिनीं मेरुपर्वते

॥२०९॥

देवराजसमादेशाच्चलिता देव वाहिनी ॥

सुमेरोः पूर्वदिग्भागे युद्धमासीत्परस्परम्

॥२१०॥

देवसैन्यं यदा सर्वं दैत्यसैन्येनसंयुतम् ॥

महाप्रलयसादृश्यं युद्धं वृत्तं तदा तयोः

॥२११॥

ऐरावणं समारुह्य देवराजः समागतः ॥

रथमारुह्य दैत्येन्द्रो युद्धायान्ये समागताः

॥२१२॥

देवा यज्ञभुजो यस्मात्तस्मान्न युद्ध कांक्षिणः ॥

ऐरावणो बलिं दृष्ट्वा न चचालाग्रतो मृधे

॥२१३॥

संग्रामे विमुखो याति दिग्गजैः परिवेष्टितः ॥

अध्वरे बाहुना येन संकल्पं कृतवान्बलिः

॥२१४॥

तेन वै स सुरान्सर्वान्वारयामास संयुगे ॥

वारिता विमुखा यांति देवराजः करोतु किम्

॥२१५॥

कुलिशं न कुरुते कर्म भुजमुक्तं न गच्छति

॥२१६॥

एवं बहूनि युद्धानि निवृत्तानि तदा तयोः ॥

न हंतुं शक्यंते युद्धे देवैर्दैत्या महाबलाः

॥२१७॥

बलाकांक्षाः स्थिता देवा गुरुणा ते प्रबोधिताः ॥

अमरा देवताः सर्व इति शुक्रेण वारिताः

॥२१८॥

अवतारं हरेर्ज्ञात्वा पञ्चमं वामनं स्थितम् ॥

अतिहृष्टोऽमरावत्यां राज्यं चक्रे सुरेश्वरः

॥२१९॥

ननर्त्त युद्धे दैत्येन्द्रः स्वगृहे यजते सुरान् ॥

पातालाभिसृता दैत्या राज्यं कुर्वंति मानवाः

॥२२०॥

तदा देवगणाः सर्वे मन्त्रयन्ति सुरैः सह ॥

दैत्यो लोकद्वयं शास्ति स्वर्गं शास्ति सुरेश्वरः

॥२२१॥

क्षंतव्यं तावदेवास्य वामनो रैवतं गिरिम् ॥

यावद्याति सुरैः कार्यं मौनं दैत्यजितैरपि

॥२२२॥

यदाप्रभृति सञ्जातो वामनो धरणीतले ॥

तदाप्रभृति दैत्यानां दुनिर्मित्तानि जज्ञिरे

॥२२३॥

शिवा प्रविश्य नगरे रौति सा विस्वरं निशि ॥

भ्रमन्ति नगरे काका दिवारात्रं विराविणः

॥२२४॥

सर्प्पाः सर्प्पंति गेहेषु कृष्णा रौद्रा विषोल्बणाः ॥

कंका गृध्रा बका भ्रांता भ्रमन्ति नगरोपरि

॥२२५॥

जायन्ते विमुखा गर्भाः स्त्रीषु गोषु मृगीषु वा ॥

घृतं दुग्धं च नैवास्ति तिले तैलं न विद्यते

॥२२६॥

जने जानपदो नित्यं युध्यते च परस्परम् ॥

काली करालवदना दीर्घकेशी विलोचना

॥२२७॥

अज्ञाता रुदती याति नगरे सा गृहं प्रति ॥

कोऽयं न ज्ञायते कस्मात्तपस्वी भस्मगुंठितः

॥२२८॥

यतिर्मौनव्रती नग्न पुरो याति गृहेगृहे ॥

डमरूड्डामरुं पश्चाद्धुंकारं विदधाति च

॥२२९॥

अकाले कुपिता मेघा जलं मुञ्चंति पुष्कलम् ॥

करकैः पूरिता गर्भा गर्जंति गिरयो बहु

॥२३०॥

समजायत भूकंपो दिग्दाहश्चाप्यजायत ॥

मिलित्वा श्वगणः सर्वो मुखमुच्चैर्विधाय च

॥२३१॥

रौति रात्रौ पुरे नित्यं घूकः शब्दं विशब्दते ॥

बलिराज्यक्षयो जातो दिवि केतूदयो निशि

॥२३२॥

आदित्यमण्डले वेधः कीलकैर्दृश्यते कृतः ॥

कबन्धसंकुले व्योम्नि चन्द्रमा न प्रकाशते

॥२३३॥

स जातो रोहिणीवेधो यो जातो युगव्यत्यये ॥

नक्षत्राणि दिवा लोकैर्गण्यन्ते गुणवत्तरैः

॥२३४॥

बीजानां व्यत्ययो जज्ञे भूमिस्त्रीगोमृगीषु च ॥

अश्वा ह्रेषंति सहसा मदं कुर्वंति नो गजाः

॥२३९॥

मन्त्रिणां मंत्रितो मन्त्रो भिद्यते राज्यसंक्षये ॥

घृताहुत्या हुतो वह्निर्ज्वलति न तदा द्विजैः

॥२३६॥

प्रचण्डः पावनो वाति वात्यया घूर्णितद्रुमः ॥

ध्वजा ज्वलन्ति चैत्येषु नभो भवति धूसरम्

॥२३७॥

एते चान्ये च बहव उत्पाता बलिनो गृहे ॥

संजाता वामने जाते नारदागमनादनु

॥२३८॥

अन्यच्च जायते रौद्रं यद्दिवा स्वप्नदर्शनम् ॥

संनह्यंते यदा दैत्याः पतिता निपतंति च

॥२३९॥

निमित्तानि स सैन्यस्य दृष्ट्वैवं न प्रवर्त्तते ॥

सदा संतिष्ठते गेहे राज्यं च कुरुते बलिः

॥२४०॥

शरीरे न सुखं तस्य गात्रभंगः शिरोव्यथा ॥

ज्वरितो न सुखं शेते न भुंक्ते न पिबत्यसौ ॥

न भुक्तं जीर्यते लोकः सर्वोपि व्याकुलीकृतः

॥२४१॥

विपरीतं जगद्दृष्ट्वा बलिर्व्याकुलमानसः ॥

मन्त्रयामास किमिदं ब्राह्मणैः सह दुःखितः

॥२४२॥

शुक्रं गुरुं समानीय सभायां संनिवेश्य च ॥

पप्रच्छ कुशलं दैत्यो भक्त्या परमया युतः ॥

विपरीतमिदं सर्वं वर्त्तते तद्वदस्व मे

॥२४३॥

नारदेन यदुक्तं मे गुरो सत्यं भविष्यति ॥

उत्पातशांतिकं ब्रूहि ब्राह्मणैः सहितो मम

॥२४४॥

शुक्र उवाच

उत्पातशांतये कार्यो यज्ञः सर्वस्वदक्षिणः ॥

ब्राह्मणैः क्षत्रियैः सार्द्धं द्वादशाब्दो विधीयताम्

॥२४५॥

ऋषयो ब्राह्मणा ये च मुनयो ब्रह्मचारिणः ॥

आगच्छन्तु महायज्ञे ये च दूरेऽपि संस्थिताः

॥२४६॥

नगरात्पूर्वदिग्भागे कर्त्तव्यो यज्ञमण्डपः ॥

यस्य यस्याभिरुचितं देयं दानं त्वया नृप ॥

तथा करिष्य इत्युक्त्वा यज्ञार्थं तत्परोभवत्

॥२४७॥

आनाय्य ब्राह्मणान्सर्वान्कुशलान्यज्ञकर्मणि ॥

गृहीता यज्ञदीक्षा तैर्यज्ञे वै सर्व दक्षिणे

॥२४८॥

ब्राह्मणाय मया देयं सर्वस्वमिह याचिते ॥

शरीरपुत्रमित्राणि दारान्दास्यामि याचितः

॥२४९॥

दातव्यं सततं दानं ब्राह्मणेभ्यो मयाध्वरे ॥

वारितेनापि न स्थेयं दातव्यं निश्चितं मया ॥

याचितश्चेन्न दास्यामि तदा व्यर्थो ममाऽध्वरः

॥२५०॥

विधाय मण्डपं दिव्यं बहुयोजनविस्तरम् ॥

तत्र दानानि दीयन्ते भोजनाच्छादनानि च

॥२५१॥

सप्तर्षयः समायाता गगनाद्धरणीतले ॥

दिग्भ्यः समागताः सर्वे ब्राह्मणाः संति ये भुवि

॥२५२॥

क्षत्रियाश्च समायाता विगृह्य विविधं वसु ॥

निवेदयन्ति ते राज्ञे प्रारब्धे यज्ञकर्मणि

॥२५३॥

आसमुद्रात्समायाता नटनर्त्तकयाचकाः ॥

गीतवादित्रनिर्घोषो वेदध्वनिविमिश्रितः

॥२५४॥

त्रैलोक्यं बधिरीचक्रे देहिदेहीति याचितम् ॥

मा देहीति वचो नास्ति स्तोकं देहीति चैव न

॥२५५॥

यद्यद्यो याचते वस्तु तत्तस्मै तत्र दीयते ॥

ब्राह्मणो हि न सोऽप्यस्ति यो हि तं बहु याचते

॥२५६॥

भोजनाच्छादनार्थं च न गृह्णंति द्विजातयः ॥

सुवर्णरत्नरौप्याणि तथाश्वरथकुंजरान्

॥२५७॥

गृहगोभूमिग्रामांश्च न गृह्णंति द्विजातयः ॥

बलिराज्येन संतुष्टाः किं कुर्वति धनेन ते

॥२५८॥

एवं प्रवर्तते यज्ञो महान्सर्वस्वदक्षिणः

॥२५९॥

नृत्यंति गायंति पठंति चान्ये स्तुवंति यज्ञं बहुदानयुक्तम् ॥

ब्रह्मेन्द्र रुद्रग्रहसूर्यचंद्राः प्रसादिता आहुतिभिश्च मन्त्रैः

॥२६०॥

बलिं प्रशंसंति गुरुं तथान्ये होतारमेके परिवारमेके ॥

प्रजापतेर्नापि सुराधिपस्य समाप्यते चेदथ यास्यति धुवम् ॥

प्रदाय राज्यं द्विजपुंगवेभ्यः सपुत्रमित्रैः सहितो रसातलम्

॥२६१॥

इतीति वाचः प्रवदंति वाडवाः शृण्वंति दैत्याः किमिदं वदंति ॥

बलेः पुरःस्थाः कथयंति संगता बलिः प्रहृष्टः प्रददाति याचितम्

॥२६२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलियज्ञप्रभाववर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥