मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १०

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 10

सारस्वतमुनिकृतोपदेशवर्णनम्

पार्वत्युवाच

अहो तीर्थस्य माहात्म्यं गिरे रैवतकस्य च ॥

भवस्य देवदेवस्य तथा वस्त्रापथस्य च

॥१॥

गंगा सरस्वती चैव गोमती नर्मदा नदी ॥

स्वर्णरेखाजले सर्वास्तथा ब्रह्मा सवासवः

॥२॥

ब्रह्मेन्द्र विष्णुमुख्यानां देवानां शंकरस्य च ॥

वासो विरचितस्तत्र यावद्ब्रह्मदिनं भवेत्

॥३॥

क्षेत्रतीर्थप्रभावं च प्रसादात्तव शंकर ॥

श्रुतं सविस्तरं सर्वमिदं त्वदुदितं मया

॥४॥

महेश्वर प्रभो ब्रूहि किं चकार जनेश्वरः ॥

भोजराजो मृगीं प्राप्य स च सारस्वतो मुनिः

॥५॥

ईश्वर उवाच

तासु सर्वासु नारीषु रूपौदार्यगुणाधिका ॥

नित्यं प्रमुदिता शांता नित्यं मंगलकारिका

॥६॥

माता स्वसा सखी पुत्री स्त्रीषु संबन्धवर्धनी ॥

पिता भ्राता गुरुः पुत्रः पुरुषेषु तथा कृतः

॥७॥

एवं गुणवतीं भार्यां प्राप्य हृष्टो जनेश्वरः ॥

सारस्वतं मुनिं स्तुत्वा राजा वचनमब्रवीत्

॥८॥

राजोवाच

ब्रह्मा विष्णुर्हरः सूर्य इन्द्रोऽग्निर्मरुतां गणः ॥

ब्रह्मचर्येण तपसा त्वया सन्तोषिताः प्रभो

॥९॥

दैवतं परमं मे त्वं पिता माता गुरुः प्रभुः ॥

येन जन्मांतरं सर्वं प्रत्यक्षं कथितं मम

॥१०॥

सुराष्ट्रदेशो विख्यातो गिरी रैवतको महान् ॥

भवः स्वयंभूर्भगवान्क्षेत्रे वस्त्रापथे श्रुतः

॥११॥

उज्जयंतगिरेर्मूर्ध्नि गौरीस्कन्दगणेश्वराः ॥

भावयंतो भवं सर्वे संस्थिता ब्रह्मवासरम्

॥१२॥

वामनो नगरं स्थाप्य शिवं सिद्धेश्वरं प्रति ॥

जित्वा दैत्यं बलिं बद्ध्वा स्वयं रैवतके स्थितः

॥१३॥

इत्येतत्सर्वमाश्चर्यं जीवद्भिर्यदि दृश्यते ॥

तीर्थयात्राविधानेन भवो वस्त्रापथे हरिः

॥१४॥

त्यक्त्वा राज्यं प्रियान्पुत्रान्पत्त्यश्वरथकुञ्जरान् ॥

पुत्रं राज्ये प्रतिष्ठाप्य गन्तव्यं निश्चितं मया

॥१५॥

त्वत्प्रसादाच्छ्रुतं सर्वं गम्यते यदि दृश्यते ॥

तीर्थयात्राविधानेन भवो वस्त्रापथे हरिः

॥१६॥

सूर्यलोकं सोमलोकमिंद्रलोकं हरेः पुरम् ॥

ब्रह्मलोकमतिक्रम्य यास्येऽहं शिवमंदिरम्

॥१७॥

श्रुत्वा हि वाक्यं विविधं नरेन्द्रात्प्रहृष्टरोमा स मुनिर्बभूव ॥

जिज्ञासमानो हि नृपस्य सर्वं निवारयामास मुनिर्नरेन्द्रम्

॥१८॥

सारस्वत उवाच

गृहेऽपि देवा हरविष्णुमुख्या जलानि दर्भा नृपते तिलाश्च ॥

अनेकदेशांतरदर्शनार्थं मनो निवार्यं नृपते त्वयेति

॥१९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथ क्षेत्रयात्रोत्सुकस्य भोजभूपस्य सारस्वतमुनिकृतोपदेशवर्णनंनाम दशमोऽध्यायः ॥ १० ॥