मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 1

दामोदरमाहात्म्यवर्णनम्

श्रीगणेशाय नमः

श्रीसरस्वत्यै नमः

अथ श्रीस्कादे महापुराणे सप्तमे प्रभासखण्डे द्वितीयं श्रीवस्त्रापथक्षेत्रमाहात्म्यं प्रारभ्यते ॥

ईश्वर उवाच ॥

अथ ते संप्रवक्ष्यामि क्षेत्रगर्भं महोदयम् ॥

तद्वस्त्रापथमाहात्म्यं यत्र रैवतको गिरिः

॥१॥

दामोदरं रैवतके भवं वस्त्रापथे तथा ॥

एतद्रैवतकं क्षेत्रं वस्त्रापथमिति स्मृतम्

॥२॥

सुवर्णरेवा यत्रस्था नदी पातकनाशनी ॥

यत्र साक्षात्स्थितः कृष्णो दामोदर इति स्मृतः

॥३॥

यत्र स्थितं मृगीकुण्डं महापातकनाशनम् ॥

सकृच्छ्राद्धे कृते यत्र कल्पकोटिसहस्रकम् ॥

पितॄणां जायते तृप्तिरपुनर्भवकांक्षिणी

॥४॥

देव्युवाच

भगवन्विस्तराद्ब्रूहि दामोदरमहोदयम् ॥

क्षेत्रगर्भस्य माहात्म्यं कर्णिकारूपसंस्थितम्

॥५॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि दामोदरहरिं प्रति ॥

इतिहासं पुराख्यातमृषिभिः कल्पवासिभिः

॥६॥

गंगातीरे शुभे रम्ये पुण्ये जनपदाकुले ॥

ऋषिभिः सेविते नित्यं स्वर्गमार्गप्रदे ध्रुवम्

॥७॥

तत्र ज्ञानविदो विप्रा यजंति विविधैर्मखैः ॥

ऋषयः सांख्ययोगेन दानेनैवेतरे जनाः

॥८॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा स्वर्गमभीप्सवः ॥

सेवंते तज्जलं दिव्यं देवानामपि दुर्लभम्

॥९॥

तत्र राजा गजोनाम बली सर्वजनाधिपः ॥

गंगाजलाभिषेकार्थं त्यक्वा राज्यं जगाम ह

॥१०॥

भार्या तस्य सती साध्वी पुत्रिणी रूपसंयुता ॥

साऽप्ययात्सह तेनैव भर्त्रा वै भर्तृवत्सला

॥११॥

संगता नाम नाम्ना च दक्षा दाक्षायणी यथा ॥

एवं निवसतोस्तत्र वर्षाणामयुतं गतम्

॥१२॥

आजगाम ऋषिस्तत्र भद्रोनाम महायशाः ॥

सहितो बहुभिर्विप्रैर्जपहोमपरायणैः

॥१३॥

त्यक्त्वा संसारमार्गं तु स्वर्गमार्गजिगीषवः ॥

गंगानिषेवणं कृत्वा स्फोटयित्वाऽऽत्मजं मलम्

॥१४॥

जलं दत्त्वा तु भूतेभ्यः पूजयित्वा जनार्द्दनम् ॥

यावद्यांति नदीतीर ऋषयो भद्रकादयः ॥

तावत्पश्यंति राजानं गजं वरगजोपमम्

॥१५॥

तेनैव दृष्टा मुनयो राज्ञा निहतकल्मषाः ॥

सप्तर्षयो यथा स्वर्गे सुरराजेन धीमता

॥१६॥

तमृषिं स च संप्रेक्ष्य पदानि दश पंच च ॥

आगच्छन्त्वत्र पूजार्हा भवतो मम मन्दिरम्

॥१७॥

पश्यंतु संगतां सर्वे मम भार्यां यशस्विनीम् ॥

तस्याः पूजां समादाय यो मार्गो मनसि स्थितः

॥१८॥

तं गच्छध्वं महाभागाः पुण्याः पुण्यमभीप्सवः ॥

एवमुक्तास्तु ते राज्ञा ऋषयः कौतुकान्विताः ॥

आजग्मुर्मंदिरं शुभ्रं पुरंदरपुरोपमम्

॥१९॥

आसनानि विचित्राणि दत्त्वा तेषां मनस्विनी ॥

संगता राजराजेन सार्द्धमग्रे व्यवस्थिता

॥२०॥

कृत्वा करपुटं राजा ऋषीणां पुण्यकर्मणाम् ॥

बभाषे वचनं राजा भद्रो भद्रं सुसंगतम्

॥२१॥

वसुधा वसुसंपूर्णा मंडिता नगरी पुरी ॥

पर्वतैश्च समुद्रैश्च सरिद्भिश्च सरोवरैः

॥२२॥

ग्रामैश्चतुष्पथैर्घोरैर्गोकुलैराकुलीकृता ॥

नररत्नैरश्वरत्नैर्गजरत्नैस्तु संकुला

॥२३॥

दुस्त्यजा भोगभोक्तृणां परं ज्ञानमजानताम् ॥

संसारेऽत्र महाघोरे पुनरावृत्तिकारिणि

॥२४॥

पतंति पुरुषा भद्र पत्राणीव पुनःपुनः ॥

कृतेन येन विप्रेंद्र स्वर्गं प्राप्नोति निर्मलम् ॥

दानेन तपसा चैव तत्त्वमा चक्ष्व सुव्रत

॥२५॥

भद्र उवाच

तीर्थानि तोयपूर्णानि देवाः पाषाणमृन्मयाः ॥

आत्मस्थं ये न पश्यंति ते न पश्यंति तत्परम्

॥२६॥

संति तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥

पुण्यतोया पवित्रश्च सरितः सागरास्तथा ॥

बहुपुण्यप्रदा पृथ्वी स्थानेस्थाने पदेपदे

॥२७॥

यद्यस्ति तव राजेंद्र ज्ञानं ज्ञानवतां वर ॥

विष्णुं जिष्णुं हृषीकेशं शंखिनं गदिनं तथा

॥२८॥

चतुर्भुजं महाबाहुं प्रभासे दैत्यसूदनम् ॥

वाराहं वामनं चैव नारसिंहं बलार्जुनम्

॥२९॥

रामं रामं च रामं च पुरुषोत्तममेव च ॥

पुंडरीकेक्षणं चैव गदापाणिं तथैव च

॥३०॥

राघवं शक्रदमनं गोविंदं बहुपुण्यदम् ॥

जयं च भूधरं चैव देवदेवं जनार्द्दनम्

॥३१॥

सुरोत्तमं श्रीधरं च हरिं योगीश्वरं तथा ॥

कपिलेशं भूतनाथं श्वेतद्वीपपतिं हरिम्

॥३२॥

बदर्याश्रमवासौ च नरनारायणौ तथा ॥

पद्मनाभं सुनाभं च हयग्रीवं विशां पते

॥३३॥

द्विजनाथं धरानाथं खड्गपाणिं तथैव च ॥

दामोदरं जलावासं सर्वपापहरं हरिम्

॥३४॥

एतान्येव हि स्थानानि देवदेवस्य चक्रिणः ॥

गच्छते यत्र तत्रैव मुच्यते सर्वपातकैः

॥३५॥

गंगा च यमुना चैव तथा देवी सरस्वती ॥

दृषद्वती गोमती च तापी कावेरिणी तथा

॥३६॥

नर्मदा शर्मदा चैव नदी गोदावरी तथा ॥

शतद्रुश्च तथा विंध्या पयोष्णी वरदा तथा

॥३७॥

चर्मण्वती च सरयूर्गंडकी चंडपापहा ॥

चंद्रभागा विपाशा च शोणश्चैव पुनःपुनः

॥३८॥

एताश्चान्याश्च बहवो हिमवत्प्रभवाः शुभाः ॥

तासु स्नातो नरः स्वर्गं याति पातकवर्जितः

॥३९॥

वनानि नंदनादीनि पर्वता मंदरादयः ॥

नामोच्चारेण येषां हि पापं याति रसातले

॥४०॥

गज उवाच

भद्रं हि भाषितं भद्र आख्यानममृतोपमम् ॥

पृच्छामि सर्वधर्मज्ञ त्वामहं किंचिदेव हि

॥४१॥

यस्मिन्मासे दिने यस्मिंस्तीर्थे यस्मिन्क्रमान्नरैः ॥

अक्षयं सेव्यते स्वर्गस्तन्ममाचक्ष्व सुव्रत

॥४२॥

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥

अक्षयो येन वै स्वर्गस्तन्मे गदितुमर्हसि

॥४३॥

भद्र उवाच

श्रूयतां राजशार्दूल कथां कथयतो मम ॥

यां श्रुत्वा मुच्यते पापान्नरो नरवरोत्तम

॥४४॥

ऋषीणां कथितं पूर्वं नारदेन महात्मना

॥४५॥

एवं पृष्टश्च तैः सर्वैर्नारदो मुनिसत्तमः ॥

कथयामास संहृष्टो मेघदुदुभिनिस्वनैः

॥४६॥

रम्ये हिमवतः पृष्ठे समवाये मया श्रुतम् ॥

तदहं तव वक्ष्यामि श्रोतुकामं नरर्षभ

॥४७॥

तीर्थान्येव हि सर्वाणि पुनरावर्त्तकानि तु ॥

अक्षयाँल्लभते लोकांस्तत्तीर्थं कथयामि ते

॥४८॥

मार्गशीर्षे कान्यकुब्ज उषित्वा राजसत्तम ॥

न शोचति नरो नारी स्वर्गं याति परावरम्

॥४९॥

पौषस्य पौर्णमासी या यदि सा क्रियतेऽर्बुदे ॥

वर्षाणामर्बुदं स्वर्गे मोदते पितृभिः सह

॥५०॥

माघ्यां यदि गयाश्राद्धं पितॄणां यच्छते नरः ॥

त्रयाणामपि देवानां चतुर्थः स प्रजायते

॥५१॥

फाल्गुन्यां हिमवत्पृष्ठे वसन्नेकां निशां नरः ॥

स याति परमं स्थानं यत्र देवो जनार्द्दनः

॥५२॥

चैत्र्यां श्राद्धं प्रभासे तु ये कुर्वंति मनीषिणः ॥

न ते मर्त्त्या भवन्तीह कुलजैः सह सत्तमाः

॥५३॥

चतुर्भुजे तु वैशाख्यां ये कुर्वंति जलप्रिये ॥

तथावंत्यां नरः कश्चित्स याति परमां गतिम्

॥५४॥

ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां श्राद्धं च त्रितकूपके ॥

कुर्युर्युगानि ते त्रीणि वसंति नाकसद्मनि

॥५५॥

यो व्रजेशवने नद्यां दिनानि नव पंच च ॥

तिष्ठते च नरः स्वर्गं वैकुण्ठमभिगच्छति

॥५६॥

श्रावणस्य तु मासस्य पूर्णायां पूर्वसागरे ॥

स्नानं दानं जपं श्राद्धं नरः कुर्वन्न शोचति

॥५७॥

तथा भाद्रपदे क्षेत्रे प्रभासे शशिभूषणम् ॥

पूजयित्वा नरो लिंगं देवलिंगी भवेत्ततः

॥५८॥

आश्विने चंद्रभागायां श्राद्धं स्नानं करोति यः ॥

स्थानं युगसहस्राणां कृतं तेन त्रिविष्टपे

॥५९॥

अष्टाक्षरैश्चतुर्बाहुं ध्यायंति मुनिसत्तमाः ॥

बहुनाऽत्र किमुक्तेन गजाहं प्रवदामि ते

॥६०॥

[[File:Damodar Kund - Junagadh - Gujarat - DSC004.jpg|thumb|600px|दामोदरकुण्डः]] दामोदरसमं तीर्थं न भूतं न भविष्यति ॥

मासानां कार्त्तिकः श्रेष्ठः कार्त्तिके भीष्मपंचकम्

॥६१॥

तत्रापि द्वादशी श्रेष्ठा राजन्दामोदरे जले ॥

किमन्यैर्बहुभिस्तीर्थेः कि क्षेत्रैः कि महावनैः ॥

दामोदरे नरः स्नात्वा सर्वपापैः प्रमुच्यते

॥६२॥

गज उवाच

भद्र भद्रं त्वया प्रोक्तं रसायनमिवापरम् ॥

भूयोऽहं श्रोतुमिच्छामि तीर्थस्यास्य महाफलम्

॥६३॥

के देशाः किं प्रमाणं तु का नदी केः च पर्वताः ॥

जना वसंति के तत्र ऋषयः के तपस्विनः

॥६४॥

भद्र उवाच

पृथिवी वसुसंपूर्णा सागरेण तु वेष्टिता ॥

मंडिता नगरैर्ग्रामैः सुरैः परपुरंजय

॥६५॥

वाराणसी प्रभासं च संगमं सितकृष्णयोः ॥

एवं साराणि तीर्थानि यस्मान्मृत्युहराणि च

॥६६॥

दामोदरेति ये नूनं स्मरंतो यत्र तत्र हि ॥

ते वसंति हरेर्गेहं न सरंति कदाचन

॥६७॥

सोमनाथस्य सान्निध्य उदयन्तो गिरिर्महान् ॥

तस्य पश्चिमभागे तु रैवतक इति स्मृतः

॥६८॥

वाहिनी वहते तत्र नदी कांचनशेखरात् ॥

धातवस्तत्र ते रक्ताः श्वेता नीलास्तथाऽसिताः

॥६९॥

पाषाणाः कुञ्जराकाराश्चान्ये सैरिभसन्निभाः ॥

चणकाकृतयश्चान्ये अन्ये गोक्षुरकप्रभाः

॥७०॥

वृक्षा वल्ल्यश्च गुल्माश्च संतानाः संत्यनेकशः ॥

सर्वं तत्कांचनमयं मूलं पुष्पं फलं दलम्

॥७१॥

न हि पश्यति पापात्मा मुक्तः पापेन पश्यति ॥

सेव्यते स गिरिर्नित्यं धातुवादपरैर्नरैः

॥७२॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः शूद्रानुगैर्बहिः ॥

पक्षिणस्तत्र बहवः शिवाशिवगिरस्तदा

॥७३॥

हंससारसचक्राह्वाः शुककोकिलबर्हिणः ॥

मृगाश्च वानरेन्द्राश्च हंसा व्याघ्रास्तथैव च

॥७४॥

तत्तीर्थस्य प्रभावेन न दुष्टान्याचरंति ते ॥

कालेन मृत्युमायांति पशुपक्षिसरीसृपाः

॥७८५॥

सर्वे विमानमारूढा गच्छन्ति हरिमन्दिरम् ॥

वायुना पातितं यत्र पत्रपुष्पफलादिकम्

॥७६॥

तस्या नद्या जलं स्पृष्ट्वा सर्वं वै मुक्तिमाप्नुते ॥

सा नदी पृथिवीं भित्त्वा पातालादागता नृप

॥७७॥

पूर्वं पन्नगराजस्तु तेन मार्गेण चागतः ॥

स्नातुं दामोदरे तीर्थे यममृत्युप्रघातिनि

॥७८॥

स्वर्गादागत्य चन्द्रोऽपि यष्टुं यज्ञं सुपुष्कलम् ॥

यक्ष्मरोगाद्विनिर्मुक्तो गतः स्वर्गं निरामयः

॥७९॥

बलिना चैव दानानि दत्तान्यागत्य कार्तिके ॥

हरिश्चन्द्रेण विधिना नलेन नहुषेण च

॥८०॥

नाभागेनांबरीषाद्यैः कृतं कर्म सुदुष्करम् ॥

दत्त्वा दानान्यनेकानि गजा गावो हया रथाः

॥८१॥

अनडुत्कांचना भूमिं रत्नानि विविधानि च ॥

छत्राणि विप्रमुख्येभ्यो यानानि चैव वाससी

॥८२॥

अन्नानि रसमिश्राणि दत्त्वा दामोदराग्रतः ॥

गतास्ते विष्णु भुवनं नागच्छंति महीतले

॥८३॥

पत्रं पुष्पं फलं तोयं तस्मिंस्तीर्थे ददाति यः ॥

द्विजानां भक्तिसंयुक्तः स याति जलशायिनम्

॥८४॥

प्रकृतिं चापि यो दद्यान्मुष्टिं वाथ क्षुधार्थिने ॥

विमानवरमारूढः स सोमं प्रति गच्छति

॥८५॥

दामोदराग्रतः कृत्वा पर्वतानन्नसंभवान् ॥

पूजितान्फलपुष्पैश्च दीपं दद्यात्सवर्त्तिकम्

॥८६॥

अवाप्य दुष्करं स्थानं कुलानां तारयेच्छतम् ॥

चतुरंगुलमात्रेपि दत्ते दामोदराग्रतः

॥८७॥

दाने युगसहस्राणि स्वर्गलोके महीयते ॥

मा गच्छ हिमवत्पृष्ठं मलयं मा च मन्दरम्

॥८८॥

गच्छ रैवतकं शैलं यत्र दामोदरः स्थितः ॥

कृत्वा मासोपवासं तु द्विजो दामोदराग्रतः

॥८९॥

न निवर्तति कालेन दामोदरपुरं व्रजेत् ॥

करोत्यनशनं यश्च नरो नार्यथवा पुनः ॥

सर्व लोकानतिक्रम्य स हरेर्गेहमाप्नुयात्

॥९०॥

विघ्नानि तत्र तिष्ठन्ति नित्यं पञ्चशतानि च ॥

धर्मविध्वंसकर्तॄणि नरस्तत्र न गच्छति

॥९१॥

प्रद्युम्नबलशैनेयगदाचक्रादिभिः सदा ॥

शतलक्षप्रमाणैस्तु सेव्यते स गिरिर्महान्

॥९२॥

क्रीडंति नार्यस्तेषां हि नित्यं दामोदराग्रतः ॥

सुचन्द्रवदना गौर्यः श्यामाश्चैव सुमध्यमाः

॥९३॥

नितंबिन्यः सुकेशाश्च शुभ्राः स्वायतलोचनाः ॥

सुगंडा ललिताश्चैव सुकक्षाः सुपयोधराः

॥९४॥

शोभमानाः सुजंघाश्च सुपादाः सुन्दरांगुलीः ॥

राजपुत्र्यो गिरौ तस्मिन्हसंति च रमंति च

॥९५॥

कौसुंभं पादयुगले कुंकुमं पीतकंचुकम् ॥

ब्राह्मणीभ्यो ददन्तीह स्पर्द्धमानाः पृथक्पृथक्

॥९६॥

भक्ष्यं भोज्यं च पेयं च लेह्यं चोष्यं च पिच्छिलम् ॥

तांबूलं पुष्पसंयुक्तं कार्तिके हरिवासरे

॥९७॥

दृष्ट्वा तु रेवतीकुंडं प्रदद्यात्फलमुत्तमम् ॥

पुत्रिणी ऋद्धिसंपन्ना सुभगा जायते सती

॥९८॥

एवं कृत्वा तु सा रात्रि नीयते निद्रया विना ॥

वेदघोषैः सुपुण्यैस्तु भारताख्यानवाचनैः

॥९९॥

हुंकृतैस्तलशब्दैश्च तालशब्दैः पुनःपुनः ॥

देशभाषाविभाषिण्यो रामामण्डलमध्यतः ॥

हास्यनृत्यसमायुक्ता राजन्दामोदराग्रतः

॥१००॥

पञ्चपाषाणकं हर्म्यं यः करोति शिवालयम् ॥

पंचवर्षसहस्राणि स्वर्ग लोके महीयते

॥१०१॥

दशपाषाणसंयुक्तं कृत्वा दामोदराग्रतः ॥

दशवर्षसहस्राणि स्वर्गे हल्लति मल्लति

॥१०२॥

शतपाषाणकं हर्म्यं यः करोति महन्नृप ॥

मन्दिरं सुन्दरं शुभ्रं स याति हरिमन्दिरम्

॥१०३॥

कृत्वा साहस्रिकं चैत्यं बहुरूपसमन्वितम् ॥

सर्वाँल्लोकानतिक्रम्य परं ब्रह्माधिगच्छति

॥१०४॥

पंचवर्णध्वजं दद्याद्दामोदरगृहोपरि ॥

तं तु प्रमाणवर्षाणि दिव्यानि स दिवं व्रजेत्

॥१०५॥

तस्य गव्यूतिमात्रेण क्षेत्रं वस्त्रापथं शुभम् ॥

यद्दृष्ट्वा सर्वपापानि विलीयन्ते बहूनि च

॥१०६॥

राजंस्तत्पदमायाति यद्गत्वा न निवर्त्तते ॥

पूजयित्वा भवं देवं भवसंभवनाशनम्

॥१०७॥

नरो नारी नृपश्रेष्ठ शिवलोके महीयते ॥

तच्छ्रुत्वा वचनं तस्य भद्रस्य च सुभाषितम्

॥१०८॥

आगतः कार्तिकीं कर्त्तुं देवे दामोदरे ततः ॥

ऋग्यजुःसामसंयुक्तैर्ब्राह्मणैर्ब्रह्मवित्तमैः

॥१०९॥

क्षत्रियैः क्षत्रधर्मज्ञैर्वैश्यैर्दानपरायणैः ॥

सह शूद्रैः समायातस्तस्मिंस्तीर्थे गजो नृपः

॥११०॥

दत्त्वा दानान्यनेकानि हुत्वा हविर्हुताशने ॥

अग्निष्टोमादिकान्यज्ञान्हयमेधादिकान्बहून् ॥

चकार विधिवद्राजा गजस्तत्र समाहितः

॥१११॥

ततश्च न्यवसत्तत्र तपः कर्तुं सहर्षिभिः ॥

ऊर्द्ध्वपादाः स्थिता विप्राः पीत्वा धूममधोमुखाः ॥

शुष्कपत्राशनाश्चान्ये अन्ये वै फलभोजनाः

॥११२॥

मूलानि चान्ये भक्षंति अन्ये वार्यंशना द्विजाः ॥

आलोकंति स्वमन्ये च तथान्ये जलशायिनः

॥११३॥

पञ्चाग्निसाधकाश्चान्ये शिलाचूर्णस्य भक्षकाः ॥

जपंति चान्ये संशुद्धा गायत्रीं वेदमातरम् ॥

सावित्रीं मनसा चान्ये देवीमन्ये सरस्वतीम्

॥११४॥

सूक्तानि हि पवित्राणि ब्रह्मणा निर्मितानि च ॥

अन्येऽवसंस्तदा तत्र द्वादशाक्षरचिन्तकाः

॥११५॥

आलोक्य सर्वशास्त्राणि विचार्य च पुनःपुनः ॥

इदमेव सुनिष्पन्नं ध्येयो नारायणः सदा

॥११६॥

आराधितः सुदुष्पारे भवे भगवतो विना ॥

तथा नान्यो महादेवात्पतन्तं योऽभिरक्षति

॥११७॥

गतागतानि वर्तंते चंद्रसूर्यादयो ग्रहाः ॥

अद्यापि न निवर्तंते द्वादशाक्षरचिंतकाः

॥११८॥

येऽक्षरा ऋषयश्चान्ये देवलोकजिगीषवः ॥

प्राप्नुवंति ततः स्थानं दग्धबीजं च तत्तथा

॥११९॥

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति

॥१२०॥

एकभक्तं तथा नक्तमयाच्यमुषितं तथा ॥

एवमादीनि चान्यानि कृत्वा दामोदराग्रतः ॥

कृतकृत्या भवंतीह यावदाभूतसंप्लवम्

॥१२१॥

स राजा ऋषिभिः सार्द्धं यावत्तिष्ठति तत्र वै ॥

विमानानि सहस्राणि तावत्तत्रागतानि च

॥१२२॥

गंधर्वाप्सरस्तत्र सिद्धचारणकिन्नराः ॥

सर्वे विमानमारूढाः शतशोऽथ सहस्रशः

॥१२३॥

सर्वैर्जनपदैः सार्द्ध स राजा भार्यया सह ॥

गतो विमानमारूढो यत्तत्पदमनामयम्

॥१२४॥

य इदं पठते नित्यं शृणुयाद्वाऽपि मानवः ॥

सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति

॥१२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दामोदरमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥