स्वर्णरेखामाहात्म्यवर्णनम्
राजोवाच
कथं त्वं हरिणीरूपे जाता मानुषरूपिणी ॥
केन संवर्धिता बाल्ये कथं ते रूपमीदृशम्
॥१॥मृग्युवाच
शृणु देव प्रवक्ष्यामि यद्वृत्तं कन्यके वने ॥
ऋषिरुद्दालकोनाम गंगाकूले महातपाः
॥२॥प्रभाते मूत्रमुत्सृष्टुं गतो देव वनांतरे ॥
मूत्रांते पतितो भूमौ वीर्यबिंदुर्द्विजन्मनः
॥३॥यावत्स चलितो विप्रः शौचं कृत्वा प्रयत्नतः ॥
तावन्मृगी समायाता दृष्ट्वा पुष्पवनांतरात्
॥४॥चापल्याद्भक्षितं वीर्यं दृष्टं ब्रह्मर्षिणा स्वयम् ॥
यस्मादश्नाति मे वीर्यं तस्माद्गर्भो भविष्यति
॥५॥ममरूपा तववक्त्रा नारी गर्भे भविष्यति ॥
वर्द्धयिष्यति देव्यस्तां रसैर्दिव्यैः सुतां तव
॥६॥केनापि दैवयोगेन ज्ञानं तस्या भविष्यति ॥
एवमुद्दालकादेव संजाताहं मृगानना ॥
प्रविश्याग्नौ मृता पूर्वं त्वया सार्द्धं नराधिप
॥७॥तस्माज्जातं सतीत्वं मे सप्तजन्मनि वै प्रभो ॥
यत्त्वया कुर्वता राज्यं पापं वै समुपार्जितम्
॥८॥क्षत्त्रधर्मं परित्यज्य पलायनपरो मृतः ॥
तदेनो हि मया दग्धं चिताग्नौ नृपसत्तम
॥९॥पतिं गृहीत्वा या नारी मृतमग्नौ विशेद्यदि ॥
सा तारयति भर्तारमात्मानं च कुलद्वयम्
॥१०॥गोग्रहे देशभंगे च संग्रामे सम्मुखे मृतः ॥
स सूर्यमण्डलं भित्त्वा ब्रह्मलोके महीयते
॥११॥अनाशकं यो विदधाति मर्त्त्यो दिनेदिने यज्ञसहस्रपुण्यम् ॥
स याति यानेन गणान्वितेन विधूय पापानि सुरैः स पूज्यते
॥१२॥गंगाजले प्रयागे वा केदारे पुष्करे च ये ॥
वस्त्रापथे प्रभासे च मृतास्ते स्वर्गगामिनः
॥१३॥द्वारावत्यां कुरुक्षेत्रे योगाभ्यासेन ये मृताः ॥
हरिरित्यक्षरं मृत्यौ येषां ते स्वर्गगामिनः
॥१४॥पूजयित्वा हरिं ये तु भूमौ दर्भतिलैः सह ॥
तिलांश्च पञ्चलोहं च दत्त्वा ये तु पयस्विनीम्
॥१५॥ये मृता राजशार्दूल ते नराः स्वर्ग गामिनः ॥
उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे
॥१६॥निर्मला निष्कलंका ये ते मृताः स्वर्गगामिनः ॥
व्रतोपवासनिरताः सत्याचारपरायणाः ॥
अहिंसानिरताः शांतास्ते नराः स्वर्गगामिनः
॥१७॥सापवादो रणं त्यक्त्वा मृतो यस्मान्नराधिप ॥
सप्तयोनिषु ते जन्म तस्माज्जातं मया सह
॥१८॥त्वां विना मे पतिर्मा भून्मरणे याचितं मया ॥
तदांतरिक्षे राजेन्द्र वागुवाचाशरीरिणी ॥
आदौ पापफलं भुक्त्वा पश्चा त्स्वर्गं गमिष्यसि
॥१९॥यदि वस्त्रापथे गत्वा शिरः कश्चिद्विमुंचति ॥
स्वर्णरेखाजले राजन्मानुषं स्यान्मुखं मम
॥२०॥अहं मानुषवक्त्राऽस्मि पापच्छायाऽऽवृतं मुखम् ॥
दृश्यते मृगवक्त्राभं तस्माच्छीघ्रं विमुंचय
॥२१॥इति श्रुत्वा वचो राजा सारस्वतमुदैक्षत ॥
जनो विहस्य सानन्दं सर्वं सत्यं मृगीवचः
॥२२॥इत्युक्त्वाऽऽह द्विजेन्द्रः स एवं कुरु नृपोत्तम ॥
एवं राज्ञा समादिष्टः प्रतीहारो ययौ वनम्
॥२३॥वस्त्रापथे महातीर्थे भवं द्रष्टुं त्वरान्वितः ॥
त्वक्सारजालिर्महती स्वर्णरेखाजलोपरि
॥२४॥वर्त्तते तच्छिरो यत्र वंशप्रोतं महावने ॥
सारस्वतस्य शिष्येण कुशलेन निवेदितम्
॥२५॥तीर्थं वस्त्रापथं गत्वा भवस्याग्रे महानदी ॥
जाले तत्र शिरो दृष्टं तच्च तोये विमोचितम्
॥२६॥स्नात्वा संपूज्य तीर्थेशं प्रतीहारः समभ्यगात् ॥
शिष्येण सहितो वेगाद्रथेनादित्यवर्चसा
॥२७॥यदागतः प्रतीहारस्तदा सारस्वतेन सा ॥
वृता चान्द्रायणेनैव मासमेकं निरन्तरम्
॥२८॥संपूर्णे तु व्रते तस्या दिव्यं वक्त्रं सुलोचनम् ॥
सुशोभनं दीर्घकेशं दीर्घकर्णं शुभद्विजम्
॥२९॥कम्बुग्रीवं पद्मगंधं सर्वलक्षणसंयुतम् ॥
व्रतांते मूर्च्छिता बाला गतज्ञाना वभूव सा
॥३०॥न देवी न च गंधर्वी नासुरी न च किंनरी ॥
यादृशी सा तदा जाता तीर्थभावेन सुन्दरी
॥३१॥परिणीता तु सा तेन भोजराजेन सुन्दरी ॥
मृगीमुखीति विख्याता देवी सा भुवनेश्वरी
॥३२॥न जानाति पुनः किंचिद्यद्वृत्तं राजमन्दिरे ॥
कृता सा पट्टमहिषी भोजराजेन धीमता
॥३३॥ईश्वर उवाच
देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः ॥
क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम्
॥३४॥गंगा सरस्वती तापी स्वर्णरेखाजले स्थिता ॥
ब्रह्मा विष्णुश्च सूर्यश्च सर्व इन्द्रादयः सुराः
॥३५॥नागा यक्षाश्च गन्धर्वा अस्मिन्क्षेत्रे व्यवस्थिताः ॥
ब्रह्मांडं निर्मितं येन त्रैलोक्यं सचराचरम्
॥३६॥देवा ब्रह्मादयो जाताः स भवोऽत्र व्यवस्थितः ॥
शिवो भवेति विख्यातः स्वयं देवस्त्रिलोचनः
॥३७॥वेवेति स्कन्दरचनाद्भवानी चात्र संस्थिता ॥
अतो यन्नाधिकं प्रोक्तं तीर्थं देवि मया तव
॥३८॥तस्मिञ्जले स्नानपरो नरो यदि संध्यां विधायानु करोति तर्पणम् ॥
श्राद्धं पितॄणां च ददाति दक्षिणां भवोद्भवं पश्यति मुच्यते भवात्
॥३९॥अथ यदि भवपूजां दिव्यपुष्पैः करोति तदनु शिवशिवेति स्तोत्रपाठं च गीतम् ॥
सुरवर गणवृन्दैः स्तूयमानो विमानैः सुरवरशिवरूपो मानवो याति नाकम्
॥४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये स्वर्णरेखायां मृगाननायाः पूर्वजन्ममृगमुखप्रक्षेपणेन दिव्यमुखत्वप्राप्त्युत्तरं भोजनृपतिपरिणय वृत्तान्तपूर्वकं स्वर्णरेखामाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥