सारस्वतस्य विप्रस्य श्रुत्वा भोजनृपो वचः
ईश्वर उवाच
सारस्वतस्य विप्रस्य श्रुत्वा भोजनृपो वचः ॥
विवर्णवदनो भूत्वा प्रगृह्यांघ्री वचोऽब्रवीत्
॥१॥मुने नैवं त्वया वाच्यं गंतव्यं निश्चितं मया ॥
नराणां पुण्यदा यात्रा कथयस्व कथं भवेत्
॥२॥किं ग्राह्यं किं च मोक्तव्यं किं देयं किं न दीयते ॥
तीर्थोपवासः स्नानं च संध्यास्नानविधिक्रमः ॥
पूजा निद्रा जपो रात्रौ सर्वं संक्षेपतो वद
॥३॥सारस्वत उवाच
सुराष्ट्रदेशे गन्तव्यं गिरौ रैवतके यदि ॥
नृप यात्राविधिं वक्ष्ये त्वमेकाग्रमनाः शृणु
॥४॥बृहस्पतिबलं गृह्य सूर्यं संतर्प्य चोत्तमम् ॥
वामतः पृष्ठतः सर्वं वृत्वा संशोध्य वासरम्
॥५॥चंद्रलग्नं ग्रहाज्ज्ञात्वा बलिष्ठाज्जन्मराशितः ॥
शकुनं च शुभं लब्ध्वा प्रस्थातव्यं नृपैर्नृप
॥६॥तीर्थे सदैव गंतव्यं सर्वे मासाश्च शोभनाः ॥
तिथयश्चोत्तमाः सर्वाः स्नानदानार्चनादिषु
॥७॥अष्टम्यां च चतुर्दश्यां मासांते पूर्णिमादिने ॥
संक्रांतौ ग्रहणे काला एते प्रोक्ता भवार्चने
॥८॥कैलासं पर्वतं त्यक्त्वा देवीं देवांश्च संगतान् ॥
वैशाखे पंचदश्यां तु भूमिं भित्त्वा भवोऽभवत्
॥९॥तस्मिन्नेव दिने देवी स्वर्णरेखा नदी तलात् ॥
पंथानं वासुकिं प्राप्य सर्वपापप्रणाशनी
॥१०॥ऐरावतपदाक्रांत उज्जयन्तो महागिरिः ॥
सुस्राव तोयं बहुधा गजपादोद्भवं शुचि
॥११॥देवा ब्रह्मादयः सर्वे गंगाद्याः सरितस्तथा ॥
वस्त्रापथे महाक्षेत्रे भवभावेन संगताः
॥१२॥वस्त्रापथस्य क्षेत्रस्य प्रमाणं शृणु भूपते ॥
हरस्य त्यजतो भूमौ पतितं वस्त्रभूषणम्
॥१३॥तावन्मात्रं स्मृतं क्षेत्रं देवैर्वस्त्रापथं कृतम् ॥
उत्तरेण नदी भद्रा पूर्वस्यां योजनद्वयम्
॥१४॥दक्षिणेन बलेः स्थानमुज्जयन्तो नदीमनु ॥
अपरस्यां परं नद्यो संगमं वामनात्पुरात्
॥१५॥एतद्वस्त्रापथं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ॥
क्षेत्रस्य विस्तरो ज्ञेयो योजनानां चतुष्टयम्
॥१६॥वैशाखपंचदश्यां तु भवो भावेन भूपते ॥
पूज्यते शिवलोके तु स्थीयते ब्रह्मवासरम्
॥१७॥अतो वसंते संप्राप्ते प्रयाणं कुरु भूपते ॥
निगृह्य नियमान्भूत्वा शुचिः स्नातो जितेन्द्रियः
॥१८॥गजवाजिरथांस्त्यक्ता पदाभ्यां याति यो नरः ॥
पुष्पकेण विमानेन स याति शिवमंदिरम्
॥१९॥एकभक्तेन नक्तेन तथैवायाचितेन च ॥
भिक्षाहारेण तोयेन फलाहारेण वा यदि
॥२०॥उपवासेन कृच्छ्रेण शाकाहारेण याति यः ॥
स याति सुन्दरीवृन्दैर्वीज्यमानो गणैर्दिवि
॥२१॥मलस्नानं विना मार्गे पादाभ्यंगविवर्जितः ॥
मलधारी क्षीणतनुर्यष्टिहस्तो जितेन्द्रियः
॥२२॥शीतातपजलक्लिष्टः शिवस्मरणतत्परः ॥
यदि याति नरो याति स भित्त्वा सूर्यमंडलम्
॥२३॥नरकस्थानपि पितॄन्मातृतः पितृतो नृप ॥
अक्षयं सप्त सप्तैव नयेदेवं शिवालये
॥२४॥लुण्ठन्भूमौ यदा याति मृगचर्मावगुंठितः ॥
दण्डप्रमाणभूमेर्वा संख्यां कुर्वन्नरो यदि
॥२५॥अरण्ये निर्जले स्थाने जलांतःपरिपीडितः ॥
शरण्यं शंकरं कृत्वा मनो निश्चलमात्मनः
॥२६॥सप्तद्वीपवतीं पृथ्वीं समुद्रवसनां नृप ॥
स लब्ध्वा बहुभिर्यज्ञैर्यज्ञे दत्त्वा च मेदिनीम्
॥२७॥सप्तभौमविमानस्थो दिव्यदेहो हराकृतिः ॥
निरीक्ष्य मेदिनीं मंदं कृत मंगलमण्डनम्
॥२८॥मृगनेत्राभुजस्पर्शलग्नपीनपयोधरः ॥
गीतवाद्यविनोदेन सत्यलोकं व्रजेन्नरः
॥२९॥विधाय भुजवेगं वा पादौ बद्ध्वा शनैः शनैः ॥
मौनेन मानुषो मायां त्यक्त्वा याति शिवालये
॥३०॥ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः ॥
कृतघ्नो मुच्यते पापैर्मृतो मुक्तिमवाप्नुयात्
॥३१॥मातरं पितरं देशं भ्रातरं स्वजनबांधवान् ॥
ग्रामं भूमिं गृहं त्यक्त्वा कृत्वा चेंद्रियसंयमम्
॥३२॥गृहीत्वा शिवसंस्कारं नरो भ्राम्यति भूतले ॥
द्रष्टुं तीर्थान्यनेकानि पुण्यान्यायतनानि च
॥३३॥कस्मिंस्तीर्थे शुभे स्थाने छित्त्वा संसारबन्धनम् ॥
अभयां दक्षिणां दत्त्वा शिवशिवेति भाषकः
॥३४॥एकांते निर्जने स्थाने शिवस्मरणतत्परः ॥
यदि तिष्ठति तं यान्ति नमस्कर्तुं नराधिप
॥३५॥आयांति देवताः सर्वे चिह्नं तस्य निरीक्षितुम् ॥
विमानवृन्दैर्नेतव्यः कदासौ पुरुषोत्तमः
॥३६॥यदा तु पञ्चत्वमुपैति काले कलेवरं स्कन्धकृतं नरैश्च ॥
निरीक्ष्यमाणः सुरसुन्दरीभिः स नीयमानो मदविह्वलाभिः
॥३७॥सुरेन्द्रसूर्याग्निधनेशरुद्रैः संपूज्यमानः शिवरूपधारी ॥
सुरादिलोकान्प्रविमुच्य वेगाच्छिवालये तिष्ठति रुद्रभक्तः
॥३८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्र माहात्म्ये वस्त्रापथयात्राविधानवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥