मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय ६

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 6

मृगाननाकथितोभयप्राक्सप्तजन्मवृत्तान्तवर्णनम्

ईश्वर उवाच

अधुना संप्रवक्ष्यामि मंगलात्पश्चिमे व्रजेत् ॥

तत्र सिद्धेश्वरं पश्येत्सर्वसिद्धिप्रदायकम्

॥१॥

तत्रैव चक्रतीर्थं तु तीर्थकोटिफलप्रदम् ॥

लोकेश्वरं स्वयंभूतं पूर्वमिंद्रेश्वरेति च

॥२॥

दृष्ट्वा तं विधिवद्देवि ततो यक्षवनं व्रजेत् ॥

मंगलात्पश्चिमे भागे यत्र देवी स्वयं स्थिता

॥३॥

यक्षेश्वरी महाभागा वांछितार्थप्रदायिनी ॥

तां संपूज्य विधानेन ततो वस्त्रापथं पुनः

॥४॥

गिरिं रैवतकं गत्वा कुर्याद्यात्राविधानतः ॥

मृगीकुंडादितीर्थानि संति तत्रैव कोटिशः

॥५॥

यद्भुक्तिशिखरे देवि सीमालिंगं हि तत्स्मृतम् ॥

दशकोटिस्तु तीर्थानि तत्र संति वरान ने

॥६॥

यत्र वै यादवाः सिद्धाः कलौ ये बुद्धिरूपिणः ॥

शतसहस्रार्बुदं च लिंगं तत्रैव तिष्ठति

॥७॥

गजेंद्रस्य पदं तत्र तत्रैव रसकूपिकाः ॥

सप्त कुण्डानि तत्रैव रैवते पर्वतोत्तमे

॥८॥

अंबिका च स्थिता देवी प्रद्युम्नः सांब एव च ॥

लिंगाकारे पर्वते तु तत्र तीर्थानि कोटिशः

॥९॥

मृगीकुंडं च तत्रैव कालमेघस्तथैव च ॥

क्षेत्रपालस्वरूपेण महोदधि स्वयं स्थितः ॥

दामोदरश्च तत्रैव भवो ब्रह्माडनायकः

॥१०॥

पार्वत्युवाच

श्रुतानि तव तीर्थानि देवेश वदतस्तव ॥

गंगा सरस्वती पुण्या यमुना च महानदी

॥११॥

गोदावरी गोमती च नदी तापी च नर्मदा ॥

सरयूः स्वर्णरेखा च तमसा पापनाशिनी

॥१२॥

नद्यः समुद्रसंयोगाः सर्वाः पुण्याः श्रुता मया ॥

मोक्षारण्यानि दिव्यानि।

दिव्यक्षेत्राणि यानि च

॥१३॥

नगर्यो मुक्तिदायिन्यस्ताः श्रुतास्त्वत्प्रसादतः ॥

ब्रह्मविष्णुशिवादीनां सूर्येंदुवरुणस्य च

॥१४॥

देवताना मृषीणां च संति स्थानान्यनेकशः ॥

परं देव त्वया पुण्यं प्रभासं कथितं मम

॥१५॥

तस्माद्यच्चाधिकं प्रोक्तं क्षेत्रं वस्त्रापथं त्वया ॥

शृण्वंत्या च मया पूर्वं न पृष्टं कारणं तदा

॥१६॥

इदानीं च श्रुतं सर्वं स्वस्थाहं कारणं वद ॥

प्रभावं प्रथमं ब्रूहि क्षेत्रस्य च भवस्य च

॥१७॥

कस्मिन्देशे च तत्तीर्थं शिवः केनात्र संस्थितः ॥

स्वयंभूर्भगवान्रुद्रः कथं तत्र स्थितः स्वयम् ॥

प्रभो मे महदाश्चर्यं वर्तते तद्वदाधुना

॥१८॥

ईश्वर उवाच

वस्त्रापथस्य क्षेत्रस्य प्रभावं प्रथमं शृणु ॥

पश्चाद्भवस्य माहात्म्यं शृणु त्वं च वरानने

॥१९॥

कान्यकुब्जे महाक्षेत्रे राजा भोजेति विश्रुतः ॥

पुरा पुण्ययुगे धर्म्यः प्रजा धर्मेण शासति

॥२०॥

विशालाक्षो दीर्घबाहुर्विद्वान्वाग्ग्मी प्रियंवदः ॥

सर्वलक्षणसंपूर्णो बह्वाश्चर्यविलोककः

॥२१॥

वनात्कदाचिदभ्येत्य वनपालोब्रवीदिदम् ॥

आश्चर्यं भ्रमता देव वने दृष्टं मयाधुना

॥२२॥

गिरौ विषमभूभागे वहुवृक्षसमाकुले ॥

मृगयूथगता नारी मया दृष्टा मृगानना

॥२३॥

मृगवत्प्लवते बाला सदा तत्रैव दृश्यते ॥

इति श्रुत्वा वचो राजा तुष्टस्तस्मै धनं ददौ

॥२४॥

चतुरं तुरगं दिव्यं वाससी स्वर्णभूषणम् ॥

इदानीमेव यास्यामि सेनाध्यक्ष त्वया सह

॥२५॥

अश्वानां दशसाहस्रं वागुराणां त्वनेकधा ॥

पत्तयो यांतु सर्वत्र वेष्टयंतु गिरिंवरम्

॥२६॥

न हंतव्यो मृगः कश्चिद्रक्षणीया हि सा मृगी ॥

स्त्रीवेषधारिणी नारी मृगी भवति भूतले

॥२७॥

क्व यास्यति वराकी सा मद्बलैः परिपीडिता ॥

शस्त्रास्त्रवर्जितं सैन्यं वनपालपदानुगम्

॥२८॥

अहोरात्रेण संप्राप्तं बहुव्याधजनाग्रतः ॥

अश्वाधिरूढो बलवान्भोजराजो ययौ स्वयम्

॥२९॥

निःशब्दपदसञ्चारः संज्ञासंकेतभाषकः ॥

गिरिं संवेष्टयामास वागुराभिः स्वयं नृपः

॥३०॥

वनपालेन सहितो मृगयूथं ददर्श सः ॥

सा मृगी मृगमध्यस्था नारीदेहा मुखे मृगी ॥

मृगवच्चेष्टते बाला धावते च मृगैः सह

॥३१॥

अश्वगंधान्समाघ्राय सन्त्रस्ता मृगयूथपाः ॥

क्षुब्धा भ्रान्ताः क्षणे तस्मिन्सर्वे यांति दिशो दश

॥३२॥

मृगवक्त्रा तु या नारी मृगैः कतिपयैः सह ॥

प्लवमाना निपतिता वागुरायां विचेतना

॥३३॥

बलाध्यक्षेण विधृता मृगैः सह शनैर्नृपः ॥

ददर्श महदाश्चर्यं भोजराजो जनैर्वृतः

॥३४॥

ततः कोलाहलो जातः परमानंदिनिस्वनः ॥

मृगैः सह समानिन्ये कान्यकुब्जं मृगीं नृपः

॥३५॥

दिव्यवस्त्रसमाच्छन्ना दिव्याभरणभूषिता ॥

नरयानस्थिता नारी प्रविवेश मृगैर्वृता

॥३६॥

वादित्रैर्ब्रह्मघोषैश्च नीयते नृपमंदिरम् ॥

जनैर्जानपदैर्मार्गे दृश्यते नृपमन्दिरे

॥३७॥

नीयमाना नागरैश्च महदाश्चर्यभाषकैः ॥

पुण्ये मुहूर्त्ते संप्राप्ते सा मृगी नृपमन्दिरम्

॥३८॥

प्रतीहारेण राजेन्द्र वचसा वारितो जनः ॥

गतः सेनापतिः सैन्यं गृहीत्वा स्वनिकेतनम्

॥३९॥

राजापि स्वगृहं प्राप्य स्नात्वा संपूज्य देवताः ॥

तां मृगीं स्नापयामास दिव्यगन्धानुलेपनाम्

॥४०॥

कुङ्कुमेन विलिप्तांगीं दिव्यवस्त्रावगुंठिताम् ॥

यथोचितं यथास्थानं दिव्याभरणभूषिताम्

॥४१॥

एकांते निर्जने राजा बभाषे चारुलोचनाम् ॥

का त्वं कस्य सुता केन कारणेन मृगैः सह

॥४२॥

स्त्रीणां शरीरं ते कस्मान्मृगीणां वदनं कुतः ॥

इति सर्वं समाचक्ष्व परं कौतूहलं हि मे

॥४३॥

एवं सा प्रोच्यमानापि न बभाषे कथंचन ॥

मूकवन्न विजानाति न च भुंक्ते सुलोचना

॥४४॥

न भुंक्ते पृथिवीपालो न राज्यं बहु मन्यते ॥

न दारैर्विद्यते कार्यं नाश्वैर्न च गजै रथैः

॥४५॥

तदेव राज्यं ते दारास्ते गजास्तद्धनं बहु ॥

प्रमदामदसंरक्तं यत्र संक्रीडते मनः

॥४६॥

आहूयाह प्रतीहारं तया संमोहितो नृपः ॥

पुरोधसं गुरुं विप्रानाचार्याञ्छीघ्रमानय

॥४७॥

दैवज्ञानथ मन्त्रज्ञान्भिषजस्तांत्रिकांस्तथा ॥

इति सन्नोदितो राज्ञा प्रतीहारो ययौ स्वयम्

॥४८॥

आजगाम स वेगेन समानीय द्विजोत्तमान् ॥

राज्ञे विज्ञापयामास देव विप्राः समागताः

॥४९॥

प्रवेशय गुरुं द्वाःस्थं संप्राप्तान्मद्धिते रतान् ॥

इति सन्नोदितो राज्ञा तथा चक्रे स बुद्धिमान्

॥५०॥

अभ्युत्थाय नृपः पूर्वं नमस्कृत्य प्रपूज्य च ॥

आसनेषूपविष्टांस्तान्बभाषे कार्यतत्परः

॥५१॥

इदमाश्चर्यमेवैकं कथं शक्यं निवेदितुम् ॥

जानीत हि स्वयं सर्वे लोकतः शास्त्रतोऽपि वा

॥५२॥

कथमेषा समुत्पन्ना कस्येदं कर्मणः फलम् ॥

अस्यां केन प्रकारेण वचनं मानुषं भवेत्

॥५३॥

स्वयं मनुष्यवदना कथमेषा भविष्यति ॥

सावधानैर्द्विजैर्भूयः सर्वं संचिन्त्य चोच्यताम्

॥५४॥

विप्रा ऊचुः

देव सारस्वतो नाम कुरुक्षेत्रे द्विजोत्तमः ॥

ऊर्द्ध्वरेताः सरस्वत्यां तपस्तेपे जितेन्द्रियः

॥५५॥

कथयिष्यति सर्वं ते तेनादिष्टा मृगी स्वयम् ॥

इति श्रुत्वा वचो राजा ययौ सारस्वतं द्विजम्

॥५६॥

सरस्वतीजले स्नातं प्रभासे ध्यानतत्परम् ॥

दृष्ट्वा प्रदक्षिणीकृत्य साष्टांगं तं प्रणम्य च ॥

उपविष्टो नृपो भूमौ प्रांजलिः सञ्जितेन्द्रियः

॥५७॥

मनुष्यपदसंचारं श्रुत्वा ज्ञात्वा च कारणम् ॥

सारस्वतो बभाषेऽथ तं नृपं भक्तितत्परम्

॥५८॥

सारस्वत उवाच

भोजराज शुभं तेस्तु ज्ञातं तत्कारणं मया ॥

मृगानना त्वया नारी समानीता वनात्किल

॥५९॥

महदाश्चर्यमेवैतत्तव चेतसि वर्त्तते ॥

आदिष्टा तु मया बाला सर्वं ते कथयिष्यति

॥६०॥

जानाम्यहं महाराज चरित्रं जन्म यादृशम् ॥

आश्चर्यं संभवेल्लोके कथ्यमानं तया स्वयम्

॥६१॥

इत्यादिश्य गतो वेगाद्रथेनादित्यवर्चसा ॥

अहोरात्रद्वयेनैव संप्राप्तो नृप मन्दिरम्

॥६२॥

प्रविश्य च मृगीं दृष्ट्वा यत्रास्ते मृगलोचना ॥

तया सारस्वतो ज्ञातो धर्मज्ञः सर्वविद्द्विजः

॥६३॥

मृग्युवाच

एष सर्वं हि जानाति कारणं यच्च यादृशम् ॥

वर्त्तमानं भविष्यं च भूतं यद्भुवनत्रये

॥६४॥

एतेन मरणं ज्ञातं मदीयं पूर्वजन्मनि ॥

वस्त्रापथे महाक्षेत्रे तपस्तप्तं भवालये

॥६५॥

विधूय कलुषं सर्वं ज्ञानमुत्पाद्य यत्नतः ॥

जरामरणनिर्मुक्तः प्रत्यक्षं दृष्टवान्भवम्

॥६६॥

अस्य तुष्टो भवो देवो ज्ञातं तीर्थस्य कारणम् ॥

आदिष्टया मया वाच्यं भवेज्जन्मनि कारणम्

॥६७॥

इति चिन्तापरा यावत्तावद्विप्रः समागतः ॥

तस्मै प्रणामपरमा मूर्च्छिता निपपात सा

॥६८॥

अथ सारस्वतो ज्ञानाज्ज्ञातवान्कारणं च तत् ॥

आनयन्तु द्विजा वेगात्कलशं तोयसंभृतम्

॥६९॥

सवौंषधीः पल्लवांश्च दूर्वाः पुष्पाणि चाक्षतान् ॥

धूपं च चंदनं चैव गोमयं मधुसर्पिषी

॥७०॥

इत्यादिष्टैर्द्विजैर्वेगात्समानीतं नृपाज्ञया ॥

उपलिप्य च भूभागं स्वस्तिकं संनिवेश्य च

॥७१॥

तत्राग्निकार्यं कृत्वाऽथ वेदान्कुंभे निधाय सः ॥

इन्द्रं तस्मिंश्च विन्यस्य दिक्पालांश्च यथाक्रमम् ॥

हुत्वाग्निं स चरुं कृत्वा ग्रहपूजामकारयत्

॥७२॥

तोयं सुवर्णपात्रस्थं कृत्वा कुंभान्स्वयं गुरुः ॥

अभिषेकं ततश्चक्रे मुहूर्ते सार्वकामिके

॥७३॥

अभिषिक्ता तु सा तेन पूता स्नानार्थवारिणा ॥

जाता सचेतना बाला सर्वं पश्यति चक्षुषा

॥७४॥

शृणोति सर्वं जानाति चरित्रं पूर्वजन्मनः ॥

बदरीफलमात्रं तु पुरोडाशं ददौ गुरुः

॥७५॥

तयोपभुक्तं यत्नेन ततश्चक्रे स मार्ज्जनम् ॥

मानुषे वचने कर्णे ददौ ज्ञानं गुरुस्ततः

॥७६॥

गुरवे दक्षिणां दत्त्वा ततः सा च मृगानना ॥

भोजराजाय सर्व च चरित्रं पूर्वजन्मनः

॥७७॥

वक्तुं प्रचक्रमे बाल्याद्यद्वृत्तं पूर्वजन्मनि ॥

नमस्कृत्य गुरुं पूर्वं ब्राह्मणान्क्षत्रियांस्तथा

॥७८॥

मृग्युवाच

न विषादस्त्वया कार्यो राजञ्च्छ्रुत्वा मयोदितम् ॥

इतस्त्वं सप्तमे स्थाने कलिंगाधिपतेः सुतः

॥७९॥

मृते पितरि बालस्त्वं स्वभिषिक्तः स्वमंत्रिभिः ॥

अहं हि वंगराजस्य संजाता दुहिता किल

॥८०॥

परिणीता त्वया देव पित्रा दत्ता स्वयं नृप ॥

त्वयाऽहं पट्टमहिषी कृता योषिद्वरा यतः

॥८१॥

युवा जातः क्रमेणैव हिंस्रः क्रूरो बभूव ह ॥

न वेदशास्त्रकुशलो दयाधर्मविवर्जितः

॥८२॥

लुब्धो मानी महाक्रोधी सत्याचार बहिष्कृतः ॥

न देवं न गुरुं विप्रान्नो जानाति दुराशयः

॥८३॥

विरक्ता हि प्रजास्तस्य ब्राह्मणोच्छेदकारकः ॥

समासन्नैर्नृपैस्तस्य देशः सर्वो विलुंपितः ॥

सैन्यं सर्वं समादाय युद्धायोपजगाम सः

॥८४॥

सहैवाहं गता देव युद्धं जातं नृपैः सह ॥

हारितं सैनिकैस्तस्य गता नष्टा दिशो दश

॥८५॥

त्यक्त्वा धर्मं निजं राजा पलायनपरोऽभवत् ॥

गच्छमानस्तु नृपतिः शत्रुभिः परिपीडितः

॥८६॥

तवास्मिवादी दुष्टात्मा हतो लोकविरोधकः ॥

देहं तस्य गृहीत्वाग्नौ प्रविष्टाहं नृपोत्तम

॥८७॥

मृतस्यैवं गतिर्नास्ति नरके स विपच्यते ॥

मृतं कांतं समादाय भार्याग्नौ प्रविशेद्यदि

॥८८॥

सा तारयति पापिष्ठं यावदाभूतसंप्लवम् ॥

इह पापक्षयं कृत्वा पश्चात्स्वर्गे महीयते

॥८९॥

अतस्त्वं ब्राह्मणो जातो देशे मालवके नृप ॥

तस्यैव तत्र भार्याहं संभूता ब्राह्मणी नृप

॥९०॥

धनधान्यसमृद्धोऽभूत्तथा जीवधनाधिकः ॥

मृतः पिता मृता माता स च भ्रातृविवर्जितः

॥९१॥

धनधान्यसमृद्धोऽपि लुब्धो भ्रमति भूतले ॥

अतीव कोपनो विप्रो वेदपाठविवर्जितः

॥९२॥

स्नानसंध्यादिहीनश्च मायावी याचते जनम् ॥

भक्तिं करोमि परमां स च क्रुध्यति मां प्रति

॥९३॥

संतानं तस्य वै नास्ति धनरक्षापरो हि सः ॥

न ददाति न चाश्नाति न जुहोति स रक्षति

॥९४॥

न तर्पणं तिलैर्विप्रो विदधात्यतिलो भतः ॥

कार्त्तिकेऽपि च संप्राप्ते विष्णुपूजाविवर्जितः

॥९५॥

दीपं ददाति नो विप्रो मासमेकं निरन्तरम् ॥

न भुंक्ते शाकपत्रं स एकाहारो निरंतरम्

॥९६॥

मासे नभस्ये संप्राप्ते प्राप्ते कृष्णे नृपोत्तम ॥

न करोति गृहे श्राद्धं स्नानतर्पणवर्जितः

॥९७॥

न जानाति दिनं पित्र्यं पक्षमेकं निरन्तरम् ॥

अन्यत्र भुंक्ते विप्रोऽसौ क्षयाहेऽपि समागते

॥९८॥

मकरस्थेऽपि संक्रांतौ कृशरान्नं ददाति न ॥

तिलान्सुवर्णं तारं वा वस्त्रं वा फलमेव च ॥

शाकपत्रं स पुष्पं वा न ददाति तथेंधनम्

॥९९॥

गवां गवाह्निकं नैव कथं मुक्तिर्भविष्यति ॥

न याति विष्णुशरणं संप्राप्ते दक्षिणायने

॥१००॥

धेनुं ददाति नो विप्रो ग्रहणे चंद्रसूर्ययोः

॥१०१॥

एकापि दत्ता सुपयस्विनी सा सवस्त्रघंटाभरणोपपन्ना ॥

वत्सेन युक्ता हि ददाति दात्रे मुक्तिं कुलस्यास्य करोति वृद्धिम्

॥१०२॥

यावंति रोमाणि भवंति तस्यास्तावंति वर्षाणि महीयते सः ॥

ब्रह्मालये सिद्ध गणैर्वृतोऽसौ संतिष्ठते सूर्यसमानतेजाः

॥१०३॥

देवालयं नो विदधाति वापीं कूपं तडागं न करोति कुण्डम् ॥

पुण्यं विवाहं सुजनोपकारं नासौ सतां वा द्विजमंदिरं च

॥१०४॥

धनं सदा भूमिगतं करोति धर्मं न जानाति कुलस्य चासौ ॥

अहं हि तस्यानुगता भवामि कथं हि कांतं परिवं चयामि

॥१०५॥

एवं हि वर्त्तमानः स कालधर्ममुपेयिवान् ॥

धनलोभान्मया देव मरणं परिवर्जितम्

॥१०६॥

पश्यन्त्या गोत्रिभिः सर्वं गृहीतं धनसंचयम् ॥

कालेन महता देव मृताऽहं द्विजमंदिरे

॥१०७॥

श्वेतसर्पः समभवद्देशे तस्मिन्नरोत्तम ॥

तत्रैवाहं ब्राह्मणस्य संजाता तनया नृप

॥१०८॥

वर्षेष्टमे तु संप्राप्ते परिणीता द्विजन्मना ॥

तस्मिन्नेव गृहे सर्पो मदीये वसते नृप

॥१०९॥

भार्या ममेति संदष्टो रात्रौ भर्त्ता महा हिना ॥

मृतोऽपि ब्राह्मणैः सर्पो लगुडैर्विनिपातितः

॥११०॥

वैधव्यं मम दत्त्वा तु द्विजसर्पौ मृतावुभौ ॥

पित्रा मात्रा महाशोकं कृत्वा मे मुण्डितं शिरः

॥१११॥

वसाना श्वेतवस्त्रं च विष्णुभक्तिपरायणा ॥

मासोपवासनिरता यानि तीर्थान्यनेकशः

॥११२॥

सर्पस्तु मकरो जातो गोदावर्यां शिवालये ॥

देवं भीमेश्वरं द्रष्टुं गताऽहं स्वजनैः सह

॥११३॥

यावत्स्नातुं प्रविष्टाऽहं वृता सर्वजनैर्नृप ॥

मकरेण तदा दृष्टा भार्येयं मम वल्लभा ॥

गृहीता मकरेणाहं नेतुमंतर्जले नृप

॥११४॥

हाहाकारः समभवज्जनः क्षुब्धः समंततः ॥

कुंताघातेन केनासौ मकरस्तु निपातितः

॥११५॥

झषवक्त्रः स्थिता चाहं मृता कृष्टा जनैर्बहिः ॥

अग्निं दत्त्वा जले क्षिप्त्वा भस्म लोका गृहान्गताः

॥११६॥

स्त्रीवधाल्लुब्ध्वको जातो झषस्तीर्थप्रभावतः ॥

मानुषीं योनिमापन्नस्तस्मिन्नेव महावने

॥११७॥

अग्नेर्जलाच्च सर्पाच्च गजात्सिंहादवृषादपि ॥

झषाद्विस्फोटकान्मृत्युर्येषां ते नरके गताः

॥११८॥

आत्महा भ्रूणहा स्त्रीहा ब्रह्मघ्नः कूटसाक्ष्यदः ॥

कन्याविक्रयकर्ता च मिथ्या ब्रतधरस्तु यः

॥११९॥

विक्रीणाति क्रतुं यस्तु मद्यपः स्याद्द्विजस्तु यः ॥

राजद्रोही स्वर्णचौरो ब्रह्मवृत्तिविलोपकः

॥१२०॥

गोघ्नस्तु निक्षेपहरो ग्रामसीमाहरस्तु यः ॥

सर्वे ते नरकं यांति या च स्त्री पतिवंचका

॥१२१॥

झषमृत्युप्रभावेन जाता क्रौंची वने नृप ॥

गोदावरीवने व्याधो भ्रमते मृगमार्गकः

॥१२२॥

वने क्रौंचः सकामो मां मुदा कामयितुमुद्यतः ॥

दृष्टाहं भ्रमता तेन व्याधेनाकृष्य कार्मुकम्

॥१२३॥

हतः क्रौंचो मृतो राज न्नष्टा स्थानादहं ततः ॥

गोदावरीवने तस्मिन्नेवंरूपं ददर्श तम्

॥१२४॥

ऋषिर्व्याधं शशापाथ दृष्ट्वा कर्म विगर्हितम् ॥

कामधर्ममकुर्वाणं प्रिया संभाषतत्परम् ॥

क्रौंचं त्वमवधीर्यस्मात्तस्मात्सिंहो भविष्यसि

॥१२५॥

ऋषिस्तेन विनीतेन स्थित्वा सन्तोषितो नृप ॥

ऋषिर्वदति तस्याग्रे न मे मिथ्या वचो भवेत्

॥१२६॥

सिंहस्थस्य प्रसादं ते करिष्ये मुक्तिहेतवे ॥

सुराष्ट्रदेशे भविता सिंहो रैवतके गिरौ

॥१२७॥

वस्त्रापथे महा क्षेत्रे मुक्तिस्ते विहिता ध्रुवा ॥

इत्युक्त्वा स ऋषिर्देव गतो भीमेश्वरं प्रति ॥

दुर्वचःश्रवणाद्व्याधः क्रमात्पंचत्वमाययौ

॥१२८॥

क्रौंची क्रौंचवियोगेन गता सा च वनांतरे ॥

मृता दैववशाज्जाता मृगी रैवतके गिरौ

॥१२९॥

मृगयूथगता नित्यं मोदते मदविह्वला ॥

व्याधः सिंहः समभवद्गिरेस्तस्य महावने

॥१३०॥

कामार्ता भ्रमता दृष्टा मृगी सिंहेन यत्नतः ॥

तत्र संभ्रमते नित्यं सिंहश्चापि मृगी वने

॥१३१॥

सिंहोऽपि दैवयोगेन ममेयमिति मन्यते ॥

परं हिंस्रस्वभावेन तामादातुं प्रचक्रमे

॥१३२॥

चलत्वं मृगजातीनां विहितं वेधसा स्वयम् ॥

पुनर्गता मृगी यूथं क्रीडते चारुलोचना

॥१३३॥

भवस्य पश्चिमे भागे तत्र रैवतके गिरौ ॥

अनुयातः शनैः सोऽथ मृगेन्द्रो मृगयूथपः ॥

उत्पपात ततः सिंहो संघस्य मूर्द्धनि

॥१३४॥

सिंहस्य न मृगैः कार्यं हरिणीं प्रति पश्यतः ॥

यत्र सा हरिणी याति ययौ सिंहस्तथैव ताम्

॥१३५॥

यदा वेगं मृगी चक्रे सिंहः कुद्धस्तदा वने ॥

सिंहोऽपि वेगवाञ्जातो मृगीवेगाधिकोऽभवत्

॥१३६॥

यदा सिंहेन संक्रांता ददौ झम्पां मृगी तु सा ॥

भवस्याग्रे नदीतोये पतिता जलमूर्द्धनि

॥१३७॥

लंबते तु शरीरं मे वेणौ प्रोतं शिरो मम ॥

सिंहः सहैव पतितो मृतः पयसि मध्यतः

॥१३८॥

स्वर्णरेषाजले देव विशीर्णं मम तद्वपुः ॥

न तु वक्त्रं निपतितं त्वक्सारशिरसि स्थितम्

॥१३९॥

एतच्चरित्रं यत्सर्वं दृष्टं सारस्वतेन वै ॥

तत्तीर्थस्य प्रभावेन सिंहस्त्वं समजायथाः

॥१४०॥

इदं हि सप्तमं जन्म सर्वपापक्षयोदयम् ॥

कान्यकुब्जे महादेशे राजा भोजेतिविश्रुतः

॥१४१॥

अहं हि हरिणीगर्भे जाता मानुषरूपिणी ॥

जातं वक्त्रं मृगीणां मे यस्मान्न पतितं जले

॥१४२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये भवमाहात्म्ये मृगाननाभोजवृत्तान्तवर्णने सारस्वतमहर्षिसंस्कृतपुरोडाशप्राशनसमुप लब्धस्पष्टवाक्प्रसर मृगाननाकथितोभयप्राक्सप्तजन्मवृत्तान्तवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥