गृहीत्वा दक्षिणां दैत्यान्महाविष्णुर्जनार्दनः
राजोवाच
गृहीत्वा दक्षिणां दैत्यान्महाविष्णुर्जनार्दनः ॥
चकार किं ममाचक्ष्व परं कौतूहलं हि मे
॥१॥सारस्वत उवाच
एवं स्तुतः सुरैर्देवो गृहीत्वा मेदिनीं हरिः ॥
बलिं निर्वासयामास संपूर्णे यज्ञकर्मणि ॥
यज्ञांते दक्षिणां लब्ध्वा संपूर्णोऽभूदथाध्वरः
॥२॥भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः ॥
समभ्येत्य बलिं प्राह ईषत्प्रस्फुरिताधरः
॥३॥ऋणे भवति दैत्येन्द्र बंधनं घोरदर्शनम् ॥
त्वं पूरय पदं तन्मे नोचेद्बन्धं प्रतीच्छ भोः
॥४॥तन्मुरारिवचः श्रुत्वा पुरो भूत्वा बलेः सुतः ॥
बाणो वामनमाचष्टे तदा तं विश्वरूपिणम्
॥५॥कृत्वा महीमल्पतरां वपुः कृत्वा तु वामनम् ॥
पदत्रयं याचयित्वा विश्वरूपमगाः कथम्
॥६॥यदि तृतीयं क्रमणं याचसे जगदीश्वर ॥
पुनर्वामनतां याहि बलिर्दास्यति तत्पदम्
॥७॥यादृग्विधाय बलिना वामनायोदकं कृतम् ॥
तत्तादृशाय दातव्यमथ किं विश्वरूपिणे
॥८॥भवत्कृतमिदं विश्वं विश्वस्मिन्वर्तते बलिः ॥
छद्मना नैव गृह्णन्ति साधवो ये महेश्वर
॥९॥जगदेतज्जगन्नाथ तावकं यदि मन्यसे ॥
ज्ञात्वा बलिममर्यादं भवद्भक्तिपराङ्मुखम्
॥१०॥कंठपाशेन निष्कास्य केन वै वार्यते भवान् ॥
गोपालमन्यं कुरुते रक्षणाय च गोपतिः ॥
सुतृणं चारयन्पूर्वो गोपः किं कुरुते तदा
॥११॥इत्येवमुक्ते तेनाथ वचने बलिसूनुना ॥
प्रोवाच भगवान्वाक्यमादिकर्ता जनार्दनः
॥१२॥यान्युक्तानि वचांसीत्थं त्वया बालेन सांप्रतम् ॥
तेषां त्वं हेतुसंयुक्तं शृणु प्रत्युत्तरं मम
॥१३॥पूर्वमुक्तस्तव पिता मया बाण पदत्रयम् ॥
देहि मह्यं प्रमाणेन तदेतत्समनुष्ठितम्
॥१४॥किं न वेत्ति प्रमाणं मे बलिस्तव पिता सुत ॥
बलेरपि हितार्थाय कृतमेतत्पदत्रयम्
॥१५॥तस्माद्यन्मम बालेय त्वत्पित्रांऽबु करे महत् ॥
दत्तं तेनास्य सुतले कल्पं यावद्वसिष्यति
॥१६॥गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् ॥
सावर्णिके त्वागते च बलिरिन्द्रो भविष्यति
॥१७॥इति प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः ॥
प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम्
॥१८॥श्रीभगवानुवाच
अपूर्णदक्षिणे यागे गच्छ राजन्महातलम् ॥
सुतलंनाम पातालं वस तत्र निरामयः
॥१९॥बलिरुवाच
सुतलस्थस्य मे नाथ कथं चरणयोस्तव ॥
दर्शनं पूजनं भोगो निवसामि यथासुखम्
॥२०॥श्रीभगवानुवाच
दैत्येन्द्र हदये नित्यं तावके निवसाम्यहम् ॥
अतस्ते दर्शनं प्राप्तः पुनः स्थास्ये तवान्तिकम्
॥२१॥तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे ॥
दीपप्रतिपन्नामाऽसौ तत्र भावी महोत्सवः
॥२२॥तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलंकृताः ॥
पुष्पदीपप्रदानेन अर्चयिष्यंति यत्नतः
॥२३॥तत्रोत्सवः पुण्यतमो भविष्यति धरातले ॥
तव नामांकितो दैत्य तेन त्वं वत्सरं सुखी
॥२४॥भविष्यसि नरा ये तु दृढभक्तिसहा न्विताः ॥
त्वामर्चयन्ति विधिवत्तेऽपि स्युः सुखभागिनः
॥२५॥यथैव राज्यं भवतस्तु सांप्रतं तथैव सा भाव्यथ कौमुदीति ॥
इत्येवमुक्त्वा मधुमदितीश्वरं निवासयित्वा सुतलं सभार्यकम्
॥२६॥उर्वी समादाय जगाम तूर्णं स शक्रसद्मामरसंघजुष्टम् ॥
दत्त्वा मघोने मधुजित्त्रिविष्टपं कृत्वा तु देवान्मखभागभोगिनः
॥२७॥अन्तर्दधे विश्वपतिर्महेशः संपश्यतां वै वसुधाधिपानाम्
॥२८॥गृहीत्वेति बले राज्यं मनुपुत्रे नियोजितम् ॥
द्वीपांतरे च ते दैत्याः प्रेषिताश्चाज्ञया स्वयम्
॥२९॥पातालनिलया ये तु ते तत्रैव निवेशिताः ॥
देवानां परमो हर्षः संजातो बलिनिग्रहे
॥३०॥निवासाय पुनश्चक्रे वामनो वामनो मनः ॥
तत्र क्षेत्रे स्वनगरे वामनः स न्युवास ह
॥३१॥सारस्वत उवाच
प्रादुर्भावस्ते कथितो नरेन्द्र पुण्यः शुचिर्वामनस्याघहारी ॥
स्मृते यस्मिन्संश्रुते कीर्तिते च पापं यायात्संक्षयं पुण्यमेति
॥३२॥ईश्वर उवाच
इति सारस्वतवचः श्रुत्वा भोजः स भूपतिः ॥
नमस्कृत्य मुनिश्रेष्ठं पूजयामास भक्तितः
॥३३॥ततो यथोक्तविधिना स भोजो नृपसत्तमः ॥
वस्त्रापथक्षेत्र यात्रां परिवारजनैः सह ॥
कृत्वा कृतार्थतां प्राप्तो जगामान्ते परं पदम्
॥३४॥एतन्मया पुण्यतमं प्रभासक्षेत्रे च वस्रापथमीरितं ते ॥
श्रुत्वा पठित्वा परया समेतो भक्त्या तु विष्णोः पदमभ्युपैति
॥३५॥यथा पापानि धूयंते गंगावारिविगाहनात् ॥
तथा पुराणश्रवणाद्दुरितानां विना शनम्
॥३६॥इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते ॥
द्विजस्य निन्दानिरतेऽतिपापे गुरावभक्ते कृतपापबुद्धौ
॥३७॥इदं पठेद्यो नियतं मनुष्यः कृतभावनः ॥
तस्य भक्तिः शिवे कृष्णे निश्चला जायते धुवम्
॥३८॥तद्भक्त्या सकलानर्थान्प्राप्नोति पुरुषोत्तमः ॥
पुराणवाचिने दद्याद्गोभूस्वर्णविभूषणम्
॥३९॥वित्तशाठ्यं न कर्तव्यं कुर्वन्दारिद्र्यमाप्नुयात् ॥
त्रिःकृत्वा प्रपठञ्छृण्वंन्सर्वान्कामानवाप्नुयात्
॥४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलये वामनकृतवरप्रदानवृत्तान्तवर्णन पूर्वकं वस्त्रापथक्षेत्रयात्रामाहात्म्य सारस्वतभोजसंवादसमाप्तिपुरःसर वस्त्रापथक्षेत्रमाहात्म्यसमाप्तिवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥
इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे द्वितीयं वस्त्रापथक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ ( ७ - २)