मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय ९

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 9

भवोत्पत्तिवृत्तांतवर्णनम्

ब्रह्मोवाच

यदि सृष्टं मया सर्वं त्रैलोक्यं सचराचरम् ॥

तदा मूर्तिमिमां त्यक्त्वा भवः सृष्टो मयाऽधुना

॥१॥

पितामहमहत्त्वं स्यात्तथा शीघ्रं विधीयताम् ॥

ब्रह्मणो वचनं श्रुत्वा विष्णुना स प्रमोदितः

॥२॥

महदाश्चर्यजनके संप्राप्तो गिरिमूर्द्धनि ॥

न विचारस्त्वयाकार्यः कर्त्तव्यं ब्रह्मभाषितम्

॥३॥

तथेत्युक्त्वा शिवो देवस्तत्रैवांतरधीयत ॥

ब्रह्मा ययौ मेरुशृंगं मनसः शिरसि स्थितम्

॥४॥

तपस्तेपे प्रजानाथो वेदोच्चारणतत्परः ॥

अथर्ववेदोच्चरणं यावच्चक्रे पितामहः

॥५॥

मुखाद्रुद्रः समभवद्रौद्ररूपो भवापहः ॥

अर्द्धनारीनरवपुर्दुष्प्रेक्ष्योऽतिभयंकरः

॥६॥

विभजात्मानमित्युक्त्वा ब्रह्मा चांतर्दधे भयात् ॥

तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाऽकरोत्

॥७॥

बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः

॥८॥

कृत्वा नामानि सर्वेषां देवकार्ये नियोजिताः ॥

विभज्य पुनरीशानी स्वात्मानं शंकराद्विभोः

॥९॥

महादेवनियोगेन पितामहमुपस्थिता ॥

तामाह भगवान्ब्रह्मा दक्षस्य दुहिता भव

॥१०॥

सापि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥

नियोगाद्ब्रह्मणो दक्षो ददौ रुद्राय तां सतीम्

॥११॥

दाक्षीं रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥

अथ ब्रह्मा बभाषे तं सृष्टिं कुरु सतीपते

॥१२॥

रुद्र उवाच

सृष्टिर्मया न कर्त्तव्या कर्त्तव्या भवता स्वयम् ॥

पालनं विष्णुना कार्यं संहर्ताऽहं व्यवस्थितः

॥१३॥

स्थाणुवत्संस्थितो यस्मा त्तस्मात्स्थाणुर्भवाम्यहम्

॥१४॥

रजोरूपाः सत्त्वरूपास्तमोरूपाश्च ये नराः ॥

सर्वे ते भवता कार्या गुणत्रयविभागतः

॥१५॥

यदा ते तामसैः कार्यं तदा रौद्रो भव स्वयम् ॥

यदा ते राजसैः कार्यं तदा त्वं राजसो भव ॥

सात्त्विकैस्ते यदा कार्यं तदा त्वं सात्त्विको भव

॥१६॥

ईश्वर उवाच

इत्याज्ञाप्य च ब्रह्माणं स्वयं सृष्ट्यादिकर्मसु ॥

गृहीत्वा तां सतीं रुद्रः कैलासमधितिष्ठति

॥१७॥

दक्षः कालेन महता हरस्यालयमाययौ

॥१८॥

अथ रुद्रः समुत्थाय कृतवान्गौरवं बहु ॥

ततो यथोचितां पूजां न दक्षो बहु मन्यते

॥१९॥

तदा वै तमसाविष्टः सोऽधिकं ब्राह्मणः शुभः ॥

पूजामनर्घ्यामन्विच्छञ्जगाम कुपितो गृहम्

॥२०॥

कदाचित्तां गृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ॥

भर्त्रा सह विनिंद्यैनां भर्त्सयामास वै रुषा

॥२१॥

पंच -वक्त्रो दशभुजो मुखे नेत्रत्रयान्वितः ॥

कपर्द्दी खंडचंद्रोसौ तथासौ नीललोहितः

॥२२॥

कपाली शूलहस्तोऽसौ गजचर्मावगुंठितः ॥

नास्य माता न च पिता न भ्राता न च बान्धवः

॥२३॥

सर्पास्थिमंडितग्रीवस्त्यक्त्वा हेमविभूषणम् ॥

भिक्षया भोजनं यस्य कथमन्नं प्रदास्यति

॥२४॥

कदाचित्पूर्वतो याति गच्छन्याति स पश्चिमे ॥

दक्षिणस्यां वृषो याति स्वयं याति स चोत्तरे

॥२५॥

तिर्यगूर्ध्वमधो याति नैव याति न तिष्ठति ॥

इति चित्रं चरित्रं ते भर्त्तुर्नान्यस्य दृश्यते

॥२६॥

निर्गुणः स गुणातीतो निःस्नेहो मूकवत्स्थितः ॥

सर्वज्ञः सर्वगः सर्वः पठ्यते भुवनत्रये

॥२७॥

कदाचिन्नैव जानाति न शृणोति न पश्यति ॥

दैत्यानां दानवानां च राक्षसानां ददाति यः

॥२८॥

न चास्य च पिता कश्चिन्न च भ्रातास्ति कश्चन ॥

एक एव वृषारूढो नग्नो भ्रमति भूतले

॥२९॥

न गृहं न धनं गोत्रमनादिनिधनोव्ययः ॥

स्थिरबुद्धिर्न चैवासौ क्रीडते भुवनत्रये

॥३०॥

कदाचित्सत्यलोके सौ पातालमधितिष्ठति ॥

गिरिसानुषु शेतेऽसावशिवोपि शिवः स्मृतः

॥३१॥

श्रीखंडादीनि संत्यज्य सदा भस्मावगुंठितः ॥

सर्वदेति वचः सत्यं किमन्यत्स प्रदास्यति

॥३२॥

धिक्त्वां जामातरं धिक्तं ययोः स्नेहः परस्परम् ॥

तस्य त्वं वल्लभा भार्या स च प्राणाधिकस्तव

॥३३॥

न च पित्रास्ति ते कार्यं न मात्रा न सखीषु च ॥

केवलं भर्तृभक्ता त्वं तस्माद्गच्छ गृहान्मम

॥३४॥

अन्ये जामातरः सर्वे भर्तुस्तव पिनाकिनः ॥

त्वमद्यैवाशु चास्माकं गृहाद्गच्छ वरं प्रति

॥३५॥

तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ॥

विनिंद्य पितरं दक्षं ध्यात्वा देवं महेश्वरम्

॥३६॥

श्वेतवस्त्रा जले स्नात्वा ददाहात्मानमात्मना ॥

याचितस्तु शिवो भर्त्ता पुनर्जन्मांतरे तया

॥३७॥

पिता मे हिमवानस्तु मेनागर्भे भवाम्यहम् ॥

अत्रांतरे(?) हिमवता तपसा तोषितो हरः ॥

प्रत्यक्षं दर्शनं दत्त्वा हिमवंतं वचोऽब्रवीत्

॥३८॥

एषा दत्ता सुता तुभ्यं परिणेष्यामि तामहम् ॥

देवानां कार्य्यसिद्ध्यर्थं गिरिराजो भविष्यसि

॥३९॥

आत्ममूर्त्तौ प्रविष्टां तां ज्ञात्वा देवो महेश्वरः ॥

शशाप दक्षं कुपितः समागत्याथ तद्गृहम्

॥४०॥

त्यक्त्वा देहमिमं ब्राह्म्यं क्षत्रियाणां कुले भव ॥

स्वायंभुवत्वं संत्यज्य दक्ष प्राचेतसो भव

॥४१॥

स्वस्यां सुतायामूढायां पुत्रमुत्पादयिष्यसि ॥

एवं शप्त्वा महादेवो ययौ कैलासपर्वतम्

॥४२॥

स्वायभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥

भवानीं स सुतां लब्ध्वा गिरिस्तुष्टो हिमा लयः

॥४३॥

मेनापि तां सुतां लब्ध्वा धन्यं मेने गृहाश्रमम् ॥

तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम्

॥४४॥

मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥

पश्य बालामिमां राजन्राजीवसदृशाननाम्

॥४५॥

हिताय सर्वभूतानां जातां च तपसा शुभाम् ॥

सोऽपि दृष्ट्वा महादेवीं तरुणादित्यसन्निभाम्

॥४६॥

कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥

अष्टहस्तां विशालाक्षीं चंद्रावयवभूषणाम्

॥४७॥

प्रणम्य शिरसा भूमौ तेजसा तु सुविह्वलः ॥

भीतः कृतांजलिः स्तब्धः प्रोवाच परमेश्वरीम्

॥४८॥

हिमवानुवाच

का त्वं देवि विशालाक्षि शंस मे संशयो महान्

॥४९॥

देव्युवाच

मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ॥

अनन्यामव्ययामेकां यां पश्यंति मुमुक्षवः

॥५०॥

दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम्

॥५१॥

सूर्यकोटिप्रतीकाशं तेजोबिंबं निराकुलम् ॥

ज्वाला मालासहस्राढ्यं कालानलशतोपमम्

॥५२॥

दंष्ट्राकरालमुद्धर्षं जटामंडलमंडितम् ॥

प्रशांतं सौम्यवदनमनंताश्चर्यसंयुतम्

॥५३॥

चंद्रावयवलक्ष्माणं चंद्रकोटिसमप्रभम् ॥

किरीटिनं गदाहस्तं नुपुरैरुपशोभितम्

॥५४॥

दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥

शंखचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम्

॥५५॥

अंडस्थं चांडबाह्यस्थं बाह्यमभ्यंतरं परम् ॥

सर्वशक्तिमयं शुभ्रं सर्वालंकारसंयुतम्

॥५६॥

ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमान पदांबुजम् ॥

सर्वतः पाणिपादांतं सर्वतोऽक्षिशिरोमुखम्

॥५७॥

सर्वमावृत्य तिष्ठंतं ददर्श परमेश्वरम् ॥

दृष्ट्वा नन्दीश्वरं देवं देव्या महेश्वरं परम्

॥५८॥

भयेन च समाविष्टः स राजा हृष्टमानसः ॥

आत्मन्याधाय चात्मानमोंकारं समनुस्मरन्

॥५९॥

नाम्नामष्टसहस्रेण स्तुत्वाऽसौ हिम वान्गिरिः

॥६०॥

भूयः प्रणम्य भूतात्मा प्रोवाचेदं कृतांजलिः ॥

यदेतदैश्वरं रूपं जातं ते परमेश्वरि

॥६१॥

भीतोऽस्मि सांप्रतं दृष्ट्वा तत्त्वमन्यत्प्रदर्शय ॥

एवमुक्ता च सा देवी तेन शैलेन पार्वती

॥६२॥

संहृत्य दर्शयामास स्वरूपमपरं परम् ॥

नीलोत्पलदलप्रख्यं नीलोत्पलसुगंधिकम्

॥६३॥

द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥

रक्तपादांबुजतलं सुरक्तकरपल्लवम्

॥६४॥

श्रीमद्विशालसद्वृत्तं ललाटतिलकोज्ज्वलम् ॥

भूषितं चारुसर्वांगं भूषणैरतिकोमलम्

॥६५॥

दधानं चोरसा मालां विशालां हेमनिर्मिताम् ॥

ईषत्स्मितं सुबिंबोष्ठं नूपुरारावशोभितम्

॥६६॥

प्रसन्नवदनं दिव्यं चारुभ्रूमहिमास्पदम् ॥

तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥

भयं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम्

॥६७॥

हिमवानुवाच

अद्य मे सफलं जन्म अद्य मे सफलाः क्रियाः ॥

यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा ॥

इदानीं किं मया कार्यं तन्मे ब्रूहि महेश्वरि

॥६८॥

महेश्वर्युवाच

शिवपूजा त्वया कार्या ध्यानेन तपसा सदा ॥

अहं तस्मै प्रदातव्या केनचित्कारणेन वै

॥६९॥

यादृशस्तु त्वया दृष्टो ध्येयो वै तादृशस्त्वया ॥

एक एव शिवो देवः सर्वाधारो धराधरः

॥७०॥

सारस्वत उवाच

तपश्च कृतवान्रुद्रः समागम्य हिमाचलम् ॥

तस्योमा परमां भक्तिं चकार शिवसंनिधौ

॥७१॥

देवकार्येण केनापि देवो वै ज्ञापितः प्रभुः ॥

उपयेमे हरो देवीमुमां त्रिभुवनेश्वरीम्

॥७२॥

स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ॥

विनिंद्य पूर्ववैरेण गंगाद्वारेऽयजद्धरिम्

॥७३॥

देवाश्च यज्ञभागार्थमाहूता विष्णुना स्वयम् ॥

सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः

॥७४॥

दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनाऽऽगतम् ॥

दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत्

॥७५॥

दधीचिरुवाच

ब्रह्माद्यास्तु पिशाचांता यस्याज्ञानुविधायिनः ॥

स हि वः सांप्रतं रुद्रो विधिना किं न पूज्यते

॥७६॥

दक्ष उवाच

सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ॥

न मंत्रा भार्यया सार्द्धं शंकरस्येति नेष्यते

॥७७॥

विहस्य दक्षं कुपितो वचः प्राह महामुनिः ॥

शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम्

॥७८॥

यतः प्रवृत्तिर्विश्वात्मा यश्चासौ भुवनेश्वरः ॥

न त्वं पूजयसे रुद्रं देवैः संपूज्यते हरः

॥७९॥

दक्ष उवाच

अस्थिमालाधरो नग्नः संहर्ता तामसो हरः ॥

विषकंठः शूलहस्तः कपाली नागवेष्टितः

॥८०॥

ईश्वरो हि जगत्स्रष्टा प्रभुर्योऽसौ सनातनः ॥

सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु

॥८१॥

दधीचिरुवाच

किं त्वया भगवानेष सहस्रांशुर्न दृश्यते ॥

सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः

॥८२॥

एष रुद्रो महादेवः कपर्द्दी चाग्रणीर्हरः ॥

आदित्यो भगवान्सूर्यो नीलग्रीवो विलोहितः

॥८३॥

दक्ष उवाच

य एते द्वादशादित्या आगता यज्ञभागिनः ॥

सर्वे सूर्या इति ज्ञेया न ह्यन्यो विद्यते रविः

॥८८४॥

एवमुक्ते तु मुनयः समायाता दिदृक्षवः ॥

बाढमित्यब्रुवन्दक्षं तस्य साहाय्यकारिणः

॥८५॥

तपसाविष्टमनसो न पश्यंति वृषध्वजम् ॥

सहस्रशोऽथ शतशो बहुशोऽथ य एव हि

॥८६॥

देवांश्च सर्वे भागार्थमागता वासवादयः ॥

नापश्यन्देवमीशानमृते नारायणं हरिम्

॥८७॥

रुद्रं क्रोधपरं दृष्ट्वा ब्रह्मा ब्रह्मासनाद्ययौ ॥

अन्तर्हिते भगवति दक्षो नारायणं हरिम्

॥८८॥

रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥

प्रवर्तयामास च तं यज्ञं दक्षोऽथ निर्भयः

॥८९॥

रक्षको भगवान्विष्णुः शरणागतरक्षकः ॥

पुनः प्राहाध्वरे दक्षं दधीचो भगवन्नृप

॥९०॥

निर्भयः शृणु दक्ष त्वं यज्ञभंगो भवि ष्यति ॥

अपूज्यपूजनाद्दक्ष पूज्यस्य च विवर्जनात्

॥९१॥

नरः पापमवाप्नोति महद्वै नात्र संशयः ॥

असतां प्रग्रहो यत्र सतां चैव विमानता

॥९२॥

दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥

एवमुक्त्वा स विप्रर्षिः शशापेश्वरविद्विषः

॥९३॥

यस्माद्बहिष्कृतो देवो भवद्भिः परमेश्वरः ॥

भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः

॥९४॥

मिथ्यारीतिसमाचारा मिथ्याज्ञानप्रभाषिणः ॥

प्राप्ते कलियुगे घोरे कलिजैः किल पीडिताः

॥९५॥

कृत्वा तपोबलं घोरं गच्छध्वं नरकं पुनः ॥

भविष्यति हृषीकेशः स्वामी वोऽपि पराङ्मुखः

॥९६॥

सारस्वत उवाच

एवमुक्त्वा स ब्रह्मर्षिर्विरराम तपोनिधिः ॥

जगाम मनसा रुद्रमशेषाध्वरनाशनम्

॥९७॥

एतस्मिन्नंतरे देवी महादेवं महेश्वरम् ॥

गत्वा विज्ञापयामास ज्ञात्वा दक्षमखं शिवा

॥९८॥

देव्युवाच

दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ॥

तेन त्वं दूषितः पूर्वमहं चातीव दुःखिता ॥

विनाशयस्व तं यज्ञं वरमेनं वृणोम्यहम्

॥९९॥

सारस्वत उवाच

एवं विज्ञापितो देव्या देवदेवो महेश्वरः ॥

ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया

॥१००॥

सहस्रशिरसं क्रूरं सहस्राक्षं महाभुजम् ॥

सहस्रपाणिं दुर्द्धर्षं युगांतानलसन्निभम्

॥१०१॥

दंष्ट्राकरालं दुष्प्रेक्ष्यं शंखचक्रधरं प्रभुम् ॥

दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम्

॥१०२॥

वीरभद्र इति ख्यातं देवदेवसमन्वितम् ॥

स जातमात्रो देवेशमुपतस्थे कृतांजलिः

॥१०३॥

तमाह दक्षस्य मखं विनाशय शमस्तु तं ॥

विनिन्द्य मां स यजते गंगाद्वारे गणेश्वर

॥१०४॥

ततो बंधप्रमुक्तेन सिंहेनेव च लीलया ॥

वीरभद्रेण दक्षस्य नाशार्थं रोम चोद्धुतम्

॥१०५॥

रोम्णा सहस्रशो रुद्रा निसृष्टास्तेन धीमता ॥

रोमजा इति विख्यातास्तत्र साहाय्यकारिणः

॥१०६॥

शूलशक्तिगदाहस्ता दण्डोपलकरास्तथा ॥

कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश

॥१०७॥

सर्वे वृषसमारूढाः सभा र्याश्चातिभीषणाः ॥

समाश्रित्य गणश्रेष्ठं ययुर्दक्षमखं प्रति

॥१०८॥

देवांगनासहस्राढ्यमप्सरोगीतिनादितम् ॥

वीणावेणुनिनादाढ्यं वेदवादाभि नादितम्

॥१०९॥

दृष्ट्वा दक्षं समासीनं देवैब्रह्मर्षिभिः सह ॥

उवाच स वृषारूढो दक्षं वीरः स्मयन्निव

॥११०॥

वयं ह्यचतुराः सर्वे शर्वस्यामितते जसः ॥

भागार्थलिप्सया प्राप्ता भागान्यच्छ त्वमीप्सितान्

॥१११॥

भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥

ततो वयं विनिश्चित्य करिष्यामो यथोचितम्

॥११२॥

एवमुक्ता गणेशेन प्रजापतिपुरःसराः

॥११३॥

देवा ऊचुः

प्रमाणं नो विजानीथ भागं मंत्रा इति धुवम्

॥११४॥

मंत्रा ऊचुः

सुरा यूयं तमोभूतास्तमोपहतचेतसः ॥

ये नाध्वरस्य राजानं पूजयेयुर्महेश्वरम्

॥११५॥

ईश्वरः सर्वभूतानां सर्वदेवतनुर्हरः ॥

गण उवाच ॥

पूज्यते सर्वयज्ञेषु कथं दक्षो न पूजयेत्

॥११६॥

मंत्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥

यस्मादसह्यं तस्मान्नो नाशयाम्यद्य गर्वितम्

॥११७॥

इत्युक्त्वा यज्ञशालां तां देवोऽहन्गणपुंगवः ॥

गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः

॥११८॥

प्रस्तोतारं सहोतारमध्वर्युं च गणेश्वरः ॥

गृहीत्वा भीषणाः सर्वे गंगास्रोतसि चिक्षिपुः

॥११९॥

वीरभद्रोऽपि दीप्तात्मा वज्रयुक्तं करं हरेः ॥

व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम्

॥१२०॥

भगनेत्रे तथोत्पाट्य कराग्रेणैव लीलया ॥

निहत्य मुष्टिना दंडैः सप्ताश्वं च न्यपातयत्

॥१२१॥

तथा चंद्रमसं देवं पादांगुष्ठेन लीलया ॥

धर्षयामास वलवान्स्मयमानो गणेश्वरः

॥१२२॥

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥

जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वरान्

॥१२३॥

तथा विष्णुं सगरुडं समायातं महाबलः ॥

विव्याध निशितैर्बाणैः स्तंभयित्वा सुदर्शनम्

॥१२४॥

ततः सहस्रशो भद्रः ससर्ज गरुडान्बहून् ॥

वैनतेयादभ्यधिकान्गरुडं ते प्रदुद्रुवुः

॥१२५॥

तान्दृष्ट्वा गरुडो धीमान्पलायनपरोऽभवत् ॥

तत्स्थितो माधवो वेगाद्यथा गौः सिंहपीडिता

॥१२६॥

अंतर्हिते वैनतेये विष्णौ च पद्मसंभवः ॥

आगत्य वारयामास वीरभद्रं शिवप्रियम्

॥१२७॥

प्रसादयामास स तं गौरवात्परमेष्ठिनः ॥

तेऽदृश्यं नैव जानंति रुद्रं तत्रागतं सुराः

॥१२८॥

स देवो विष्णुना ज्ञातो ब्रह्मणा च दधीचिना ॥

तुष्टाव भगवान्ब्रह्मा दक्षो विष्णुदिवौकसः

॥१२९॥

विशेषात्पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥

स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः

॥१३०॥

ततो भगवती प्राह प्रहसंती महेश्वरम् ॥

त्वमेव जगतः स्रष्टा संहर्ता चैव रक्षकः

॥१३१॥

अनुग्राह्यो भगवता दक्षश्चापि दिवौ कसः ॥

ततः प्रहस्य भगवान्कर्पद्दी नीललोहितः ॥

उवाच प्रणतान्देवान्दक्षं प्राचेतसं हरः

॥१३२॥

गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥

संपूज्यः सर्वयज्ञेषु प्रथमं देवकर्मणि

॥१३३॥

त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् ॥

त्यक्त्वा लोकेषणामेनां मद्भक्तो भव यत्नतः

॥१३४॥

भविष्यसि गणेशानः कल्पांतेऽनुग्रहान्मम ॥

तावत्तिष्ठ ममादेशात्स्वाधिकारेषु निर्वृतः ॥

इत्युक्त्वाऽदर्शनं प्राप्तो दक्षस्यामिततेजसः

॥१३५॥

दधीचिना शिवो दृष्टो विज्ञप्तः शापमोचने ॥

कथं शापं मया दत्तं तरिष्यंति तवाज्ञया

॥१३६॥

शिव उवाच

भविष्यंति त्रयी बाह्याः संप्राप्ते तु कलौ युगे ॥

पठिष्यंति च ये वेदास्ते विप्राः स्वर्गगामिनः

॥१३७॥

आगमा विष्णुरचिताः पठ्यन्ते ये द्विजातिभिः ॥

तेपि स्वर्गं प्रयास्यंति मत्प्रसादान्न संशयः

॥१३८॥

कलिकालप्रभावेन येषां पाठो न विद्यते ॥

गृहस्थधर्माचरणं कर्तव्यं मम पूजनम्

॥१३९॥

अवश्यं च मया कार्यं तेषां पापविमोचनम् ॥

भिक्षां भ्रमामि मध्याह्ने अतीते भस्मगुंठितः

॥१४०॥

जटाजूटधरः शांतो भिक्षापात्रकरो द्विजः ॥

यो ददाति च मे भिक्षां स्वर्गं याति स मानवः

॥१४१॥

उपानहौ वा च्छत्रं वा कौपीनं वा कमंडलुम् ॥

यो ददाति तपस्विभ्यो नरो मुक्तः स पातकैः ॥

दधीचेः स वरान्दत्त्वा वभाषे सह विष्णुना

॥१४२॥

रुद्र उवाच

यस्ते मित्रं स मे मित्रं यस्ते रिपुः स मे रिपुः ॥

यस्त्वां पूजयते विष्णो स मां पूजयते ध्रुवम्

॥१४३॥

यः स्तौति त्वां स मां स्तौति प्रियो यस्ते स मे प्रियः ॥

अहं यत्र च तत्र त्वं नास्ति भेदः परस्परम्

॥१४४॥

कृष्ण उवाच

एवमेतत्परं देव वक्तव्यं यत्तथैव तत् ॥

अर्द्धनारीनरवपुर्यदा दृष्टो मया पुरा

॥१४५॥

नेयं नारी मया दृष्टा दृष्टं रूपं किलात्मनः ॥

शंखचक्रगदाहस्तं वनमालाविभूषितम्

॥१४६॥

श्रीवत्सांकं पीतवस्त्रं कौस्तुभेन विराजि तम् ॥

द्वितीयार्द्धं मया दृष्टं शूलहस्तं त्रिलोचनम्

॥१४७॥

चंद्रावयवसंयुक्तं जटाजूटकपालिनम् ॥

एकीभावं प्रपन्नोहं यथा पूर्वं तथाऽधुना ॥

न मां गौरी प्रपश्येत प्रपश्यामि तथैव च

॥१४८॥

ईश्वर उवाच

आवयोरंतरं नास्ति चैकरूपावुभावपि ॥

यो जानाति स जानाति सत्यलोकं स गच्छति

॥१४९॥

इत्युक्त्वा स ययौ तत्र कैलासं पर्वतोत्तमम् ॥

कृष्णोपि मंदरं प्राप्तो देवकार्येण केनचित्

॥१५०॥

अत्रांतरे दैत्यराजो महादेवप्रसादतः ॥

हिरण्यनेत्रतनयो बाधतेसौ जगत्त्रयम्

॥१५१॥

अमरत्वं हराल्लब्ध्वा कामांधो नैव पश्यति ॥

हरांगधारिणीं देवीं दिव्यरूपां सुलोचनाम्

॥१५२॥

ममेति स च जानाति याचते च हरं प्रति ॥

हरोऽपि कार्यव्यसनस्त्यक्त्वा कैलासपर्वतम्

॥१५३॥

मंदरं समनुप्राप्तो देवं द्रष्टुं जनार्द्दनम् ॥

परस्परं समालोच्यामुंचद्देवीं स मंदरे

॥१५४॥

नारायणगृहे देवी स्थिता देवीगणैर्वृता ॥

अत्रांतरे गौतमस्तु गोवधान्मलिनीकृतः

॥१५५॥

पवित्रीकरणायास्य भिक्षुरूपधरो हरः ॥

गौतमस्य गृहं प्राप्तो मंदरं चांधको गतः

॥१५६॥

ययाचे पार्वतीं दुष्टो युद्धं चक्रे स विष्णुना ॥

हारितं तु गणैः सर्वैर्देवीं दैत्यो न पश्यति

॥१५७॥

स्त्रीरूपधारी कृष्णोऽसौ गौरीं रक्षति मंदिरे ॥

गौरीणां तु शतं चक्रे हरिस्तत्र स मायया

॥१५८॥

विष्णोर्देहसमुद्भूता दिव्यरूपा वरस्त्रियः ॥

अन्धको नैव जानाति कैषा गौरी नु पार्वती

॥१५९॥

विलंबस्तत्र सञ्जातो मोहितो विष्णुमायया ॥

तावच्छिवः समायातः कृत्वा गौतमपावनम्

॥१६०॥

भिक्षामात्रेण चान्नेन गौतमो निर्मलीकृतः ॥

सोंधकेन तदा युद्धं चक्रे रुद्रोऽपि कोपितः

॥१६१॥

अमरोऽसौ हराज्जातः शूले प्रोतः सुदारुणे ॥

शूलस्थस्तु स्तुतिं चक्रे तस्य तुष्टो महेश्वरः

॥१६२॥

गणेशत्वं ददौ तस्मै यावदाभूतसंप्लवम् ॥

स्वसरूपामुमादेवीं कृष्णस्तस्मै ददौ स्वयम्

॥१६३॥

गौरीरूपाः स्त्रियश्चान्या धरित्र्यां तास्तु प्रेषिताः ॥

कृत्वा नामानि सर्वासां लोके पूज्या भविष्यथ

॥१६४॥

एता ये पूजयिष्यंति पूजयिष्यन्ति ते शिवाम् ॥

शिवां ये पूजयिष्यंति तेऽर्चयन्ते हरं हरिम्

॥१६५॥

उमां समादाय ययौ हरो गिरिं वृषं समारुह्य सुरासुरार्चितः ॥

हरिस्तु रेमे रमया सहांधके हते च देवाः सुरराजमाययुः

॥१६५॥

ब्रह्मेशनारायणपुण्यचेतसां शृण्वन्ति चित्रं चरितं महात्मनाम् ॥

मुच्यंति पापैः कलिकालसंभवैर्यास्यंति नाकं गणवृन्दवंदिताः

॥१६७॥

एवं काले वर्त्तमाने हरः कैलासपर्वते ॥

रक्षोदानवदैत्यैस्तु गृह्यतेऽसौ वरान्बहून्

॥१६८॥

ब्रह्मदत्तवरो रौद्रस्तारकाख्यो महासुरः ॥

तेन सर्वं जगद्व्याप्तं तस्य नष्टा सुरा रणे

॥१६९॥

महादेवसुतेनाजौ हंतव्योऽसौ ससर्ज तम् ॥

कार्तिकेयमुमापुत्रं रुद्रवीर्यसमुद्भवम्

॥१७०॥

देवैरिन्द्रादिभिः सर्वैः सेनाध्यक्ष्येभिषेचितः ॥

तेनापि दैवयोगेन तारकाख्यो निपातितः

॥१७१॥

कैलासशिखरासीनो देवदेवो जगद्गुरुः ॥

उमया सह संतुष्टो नन्दिभद्रादिभिर्वृतः

॥१७२॥

स्कन्देन गजवक्त्रेण धनाध्यक्षेण संयुतः ॥

अथ हासपरं देवं शनैः प्रोवाच तं शिवा

॥१७३॥

केन देव प्रकारेण तोषं यास्यसि शंकर ॥

मर्त्यानां केन दानेन तपसा नियमेन वा

॥१७४॥

केन वा कर्मणा देव केन मन्त्रेण वा पुनः ॥

स्नानेन केन देवेश केन धूपेन तुष्यसि

॥१७५॥

पुष्पेण केन मे नाथ केन पत्रेण शंकर ॥

कया संतुष्यसे स्तुत्या साहसेन च केन वै

॥१७६॥

नैवेद्येन च केन त्वं केन होमेन तुष्यसि ॥

केन कष्टेन वा देव केनार्घेण मम प्रभो

॥१७७॥

षोडशैते मया प्रश्नाः पृष्टा मे निर्णयं वद

॥१७८॥

शंकर उवाच

साधु पृष्टं त्वया देवि कथयिष्ये मम प्रियम् ॥

शिवपूजाप्रकारोऽयं क्रियते वचसा गुरोः

॥१७९॥

अभयं सर्वजंतूनां दानं देवि मम प्रियम् ॥

सत्यं तपः समाख्यातं परदारविवर्जनम्

॥१८०॥

प्रियो मे नियमो देवि कर्म तल्लोकरञ्जनम् ॥

मयों नमः शिवायेति मन्त्रोऽयमुररीकृतः

॥१८१॥

सर्वपापविनिर्मुक्तो मम देवि स वल्लभः ॥

पापत्यागो भवेत्स्नानं धूपो मे गौग्गुलः प्रियः

॥१८२॥

धत्तूरकस्य पुष्पं मे बिल्वपत्रं मम प्रियम् ॥

स्तुतिः शिवशिवायेति साहसं रणकर्मणि

॥१८३॥

न बिभेति नरो यस्तु तस्याग्रे संभवाम्यहम् ॥

हंतकारो गवां यस्तु नैवेद्यं मम वल्लभम्

॥१८४॥

पूर्णाहुत्या परा प्रीतिर्जायते मम सुन्दरि ॥

शुश्रूषा वल्लभं कष्टं यतीनां च तपस्विनाम्

॥१८५॥

सूर्योदये महादेवि मध्याह्नेऽस्तमने तथा ॥

अर्घो यो दीयते सूर्ये वल्लभोऽसौ मम प्रिये

॥१८६॥

किं दानैः किं तपोभिर्वा किं यज्ञैर्भाववर्जितैः ॥

दया सत्यं घृणाऽस्तेयं दंभपैशुन्यवर्जितम् ॥

भक्त्या यद्दीयते स्तोकं देवि तद्वल्लभं मम

॥१८७॥

एवं यावत्कथयति प्रश्नान्सूक्ष्मान्यथोदितान् ॥

तावद्ब्रह्मादिभिर्देवैर्विष्णुस्तत्र ययौ स्वयम्

॥१८८॥

विष्णुरुवाच

नाहं पालयितुं शक्तस्त्वं ददासि वरान्बहून् ॥

दैत्यानां दानवादीनां राक्षसानां महेश्वर

॥१८९॥

विकृतिं यांति पश्चात्ते कष्टं वध्या भवंति मे ॥

पत्रेण पुष्पमात्रेण ॐकारेण शिवेन च ॥

मुक्तिं याति नरो देव भवभक्तिं करोतु कः

॥१९०॥

इन्द्रादयोऽपि ये देवा यज्ञैराप्याययंति ते ॥

न यजंति द्विजा यज्ञान्भिक्षादानेन तुष्यसि

॥१९१॥

रुद्र उवाच

इन्द्रादिभिर्न मे कार्यं ब्रह्मा मे किं करिष्यति ॥

येन केन प्रकारेण प्रजाः पाल्यास्त्वया ऽधुना

॥१९२॥

मदीया प्रकृतिस्त्वेषा तां कथं त्यक्तुमुत्सहे ॥

त्वयाहं ब्रह्मणा देवैर्वरकर्मणि योजितः

॥१९३॥

इदानीमेव किं नष्टं मुक्त्वा देवीं तवाग्रतः ॥

भूत्वा मूर्तिं परित्यज्य एकाकी विचराम्यहम्

॥१९४॥

इत्युक्त्वा स शिवो देवस्तत्रैवांतरधीयत ॥

गते तस्मिञ्छिवे तत्र संक्षोभः सुमहानभूत्

॥१९५॥

उमा प्रोवाच चेन्द्रादीन्ब्रह्मविष्णुगणांस्तथा ॥

इदानीं किं मया कार्यं भवद्भिः शिववर्जितैः

॥१९६॥

अत्रान्तरे च ये चान्ये देवास्तत्र समागताः ॥

ऋषयश्चैव सिद्धाश्च तथा नारदपर्वतौ

॥१९७॥

गंगासरस्वतीनद्यो नागा यक्षाः समागताः ॥

ब्रह्मादिभिः समालोच्य कथमेतद्भविष्यति

॥१९८॥

विष्णुरुवाच

सहैव गम्यतां तत्र यत्र देवो गतः शिवः ॥

स्वल्पा यासेन ते यान्तु नराः स्वर्गं शिवाज्ञया

॥१९९॥

सत्यलोके नरा यान्तु देवा यान्तु धरातलम् ॥

रक्षोदानवदैत्यानां वरान्यच्छतु शंकरः

॥२००॥

तेषां बाधा मया कार्या यै च स्युर्धर्मलोपकाः ॥

हृष्टे शिवे मया कार्या व्यवस्था स्वर्गगामिनाम्

॥२०१॥

त्रयीधर्मं परित्यज्य येऽन्यं धर्ममुपासते ॥

ते नरा नरकं यांतु यावदाभूतसंप्लवम्

॥२०२॥

यदाऽदृश्यः शिवो जातः प्रवि वेश गिरेर्वनम् ॥

गिरीणां मध्यमास्थाय त्यक्त्वा दिव्ये स वाससी

॥२०३॥

गजाजिनं परित्यज्य त्यक्त्वा मूर्त्तिं महेश्वरः ॥

भित्त्वा भूमितलं देवः स्थाणुरूपो बभूव सः

॥२०४॥

यस्मात्स्वंयभूर्भवति भवंस्तस्मात्स्वयं हरः ॥

अत्रांतरे सुराः सर्वे न पश्यंति महेश्वरम् ॥

ज्ञानातीतं कलातीतं दिव्यध्यानबहिः स्थितम्

॥२०५॥

यदा देवा व्याकुलाः संपतंति रविर्वायुरंबरं तोयमुर्वी ॥

निजे स्थाने वर्त्तमाना उमायाः शशंसुर्वै देवदेवं सुराणाम्

॥२०६॥

स्वर्गे धरित्र्यां चरितं तलेषु देवेषु मर्त्येषु सरीसृपेषु ॥

स्थूलेषु सूक्ष्मेषु यथा तथैव सत्यं हि वाच्यं पदमस्मदीयम्

॥२०७॥

ततो देवाः प्रचलिताः कृत्वा गौरीं पुरस्सरम् ॥

नंदि भद्रादयः सर्वे देवा इंद्रादयस्तथा

॥२०८॥

स्कन्देन सहिता देवी सिंहारूढा ययौ स्वयम् ॥

अधिरुह्य गरुत्मंतं ययौ विष्णुः सनातनः

॥२०९॥

हंसाधिरूढो भगवान्ब्रह्मा याति स पृष्ठतः ॥

ऐरावतं समारुह्य देवराजोऽगमत्स्वयम्

॥२१०॥

गंगा सरस्वती देवी यमुना च महानदी ॥

देवताश्च गताः सर्वे नागा यक्षाः सकिंनराः

॥२११॥

गताः संक्षेपतः सर्वे यत्र देवो महेश्वरः ॥

अधिरुह्य गिरेः शृंगमंबा देवी व्यवस्थिता

॥२१२॥

विष्णुर्मुक्त्वा गरुत्मंतं स्थितो रैवतके गिरौ ॥

स्तुतिं चक्रे तदा देवी जगुर्गीतं सुसंयताः

॥२१३॥

ऐरावतपदाक्रांतो न चचाल स पर्वतः ॥

भित्त्वा भूमितलं तत्र नागराजः समागतः

॥२१४॥

गंगाद्याः सरितः सर्वास्तेन रंध्रेण चागताः ॥

ब्रह्मा विष्णुर्यदा देवाः स्तुतिं चक्रुः समंततः

॥२१५॥

ददर्श रूपं भगवान्भवो देवस्तदा हरः

॥२१६॥

ततो हृष्टाः सुराः सर्वे अंबा हृष्टा गणाश्च ते ॥

गम्यतां देव कैलासं देव्येति संप्रमोदितः

॥२१७॥

ईश्वर उवाच

यदि हृष्टाः सुराः सर्वे गंगाद्याः सरितस्तथा ॥

गिरौ रैवतके विष्णुरंबा चात्रैव तिष्ठतु

॥२१८॥

सरस्वती च यमुना रेवा चास्मिन्व्यवस्थिताः ॥

स्वर्णरूपं जलं यस्मात्स्वर्णरेखेति सा नदी

॥२१९॥

वस्त्रापथमिदं क्षेत्रं भवो देवोऽत्र तिष्ठतु ॥

तीर्थमेतन्मया प्रोक्तं भुक्तिमुक्तिप्रदायकम् ॥

अत्र स्नातो नरो नारी मुच्यते सर्व पातकैः

॥२२०॥

इति प्रोच्य शिवो देवः कलां न्यस्य भवे तदा ॥

पश्यतां सर्वदेवानां ययौ कैलासपर्वतम्

॥२२१॥

अंबेति स्कन्दवदनात्कलां न्यस्य गिरौ तदा ॥

देवेन सहिता देवी वृषारूढा ययौ स्वयम्

॥२२२॥

नारायणो रैवतके गिरौ रम्ये स्थितः स्वयम् ॥

कल्पादौ च युगादौ च स्थितो विष्णुः सदा गिरौ

॥२२३॥

बहुरात्रस्थितो देवः कृत्वा दैत्यनिबर्हणम् ॥

रेमे रैवतके देवो यावदाभूतसंप्लवम्

॥२२४॥

नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ॥

हत्वा तदा गतस्तत्र नारसिंहं मुमोच ह

॥२२५॥

महावराहरूपेण हिरण्याक्षो निपातितः ॥

तदेव मुक्त्वा देवेशः स्थितो रैवतके गिरौ

॥२२६॥

स पृथुं पार्थिवं कृत्वा देवकार्येण वै नृप ॥

गिरौ रैवतके देव उवास सुरपूजितः

॥२२७॥

अत्रागत्य पृथुः पूर्वं चक्रे देवप्रपूजनम् ॥

जपमाला तदा कण्ठे पृथुना संनिवेशिता ॥

दामोदरेति देवेशनाम चक्रे पृथुः स्वयम्

॥२२८॥

वस्त्रापथे देववरो भवः स्थितो दामोदरो रैवतके व्यवस्थितः ॥

अंबेतिदेवी गिरिमूर्ध्नि संस्थिता देवाश्च सर्वे परितः प्रतिष्ठिताः

॥२२९॥

क्षेत्राधिपास्तीर्थवरस्य रक्षका देवेन मुक्ता भवसंनिधानतः ॥

पश्यंति ये देववरं भवाभिधं मुच्यंति ते यांति दिवं नरा भुवः

॥२३०॥

वस्त्रापथस्य क्षेत्रस्य भवस्य च मया तव ॥

उत्पत्तिः कथिता राजन्किमन्यच्छ्रोतुमिच्छसि

॥२३१॥

शृणोति पठते यश्च कथां चेमां समंततः ॥

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते

॥२३२॥

ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ॥

स्वर्णरेखाजले स्नातो मुच्यते सर्वपातकैः

॥२३३॥

ये च कीटपतंगाद्याः स्वर्णरेखा जले मृताः ॥

सर्वपातकनिर्मुक्तास्ते प्रयांति सुरालयम्

॥१३४॥

स्वर्णरेखाजले स्नात्वा संध्यां श्राद्धं करोति यः ॥

वस्त्रापथे भवं पूज्य ब्रह्मलोकं स गच्छति

॥२३५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे वस्त्रापथक्षेत्रमाहात्म्ये भवोत्पत्तिवृत्तांत वर्णनंनाम नवमोऽध्यायः ॥ ९ ॥