मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १२

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 12

विधिवर्णनम्

सारस्वत उवाच

गंगोदकं मधुघृते कुंकुमागुरुचंद नम् ॥

गुग्गुलं बिल्वपत्राणि बकपुष्पं च यो वहेत्

॥१॥

पदचारी शुचितनुर्भारं स्कन्धे निधाय च ॥

तीर्थे स्नात्वा शिवं विष्णुं ब्रह्माणं शंकरं प्रियम्

॥२॥

दृष्ट्वा निवेदयेद्यस्तु स मुक्तः सर्वबन्धनैः ॥

स नरो गणतां याति यावदाभूतसंप्लवम्

॥३॥

कलत्रमित्रपुत्रैर्वा भ्रातृभिः स्वजनैर्नरैः ॥

सहितो वा नरैर्याति तीर्थे देवं विचिंत्य च

॥४॥

देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ॥

चन्दनागुरुकर्पूरैरर्चितां कुंकुमेन च

॥५॥

पूजयन्विविधैः पुष्पैर्धूपदीपादिकैर्नृप ॥

गीतनृत्यैः सवादित्रैर्हास्यलास्यैरनेकधा

॥६॥

धरित्रीं कांचनं गाश्च जलान्नवसनानि च ॥

तृणेन्धने प्रियां वाणीं यच्छन्याति नरो यदि

॥७॥

देवांगनाकरग्राहगृहीतो नन्दनं वनम् ॥

प्राप्य भुंक्ते शुभान्भोगान्यावदाचन्द्रतारकम्

॥८॥

तीर्थे संचरितः पुरुषो रोगैः प्राणान्विमुञ्चति ॥

अदृष्ट्वा दैवतं तीर्थे दृष्टतीर्थफलं लभेत्

॥९॥

संसारदोषान्विविधान्विचिन्त्य स्त्रीपुत्रमित्रेष्वपि बंधमुक्तः ॥

विज्ञाय बद्धं पुरुषं प्रधानैः स सर्वतीर्थानि करोति देहम्

॥१०॥

आजन्मजन्मांन्तरसंचितानि दग्ध्वा स पापानि नरो नरेन्द्र ॥

तेजोमयं सर्वगतं पुराणं भवोद्भवं पश्यति मुच्यते सः

॥११॥

तीर्थे विप्रवचो ग्राह्यं स्नात्वा संध्यार्चनादिकम् ॥

दर्भास्तिला हविष्यान्नं प्रयोगाः श्रद्धया कृताः

॥१२॥

अगस्त्यं भृङ्गराजं च पुष्पं शतदलं शुभम् ॥

कर्पूरागुरुश्रीखंडं कुंकुमं तुलसीदलम्

॥१३॥

बिल्वप्रमाणपिंडेषु दीपोद्द्योतितभूमिषु ॥

तांबूल फलनैवेद्यं तिलदर्भोदकेन च

॥१४॥

तीर्थे संकल्पितं मर्त्यैस्तदनंतं प्रजायते ॥

अयने विषुवे चैव संक्रांतौ ग्रहणेषु च

॥१५॥

मासांतेऽपर पक्षे तु क्षयाहे पितृमातृके ॥

गजच्छायां त्रयोदश्यां द्रव्ये प्राप्तौ द्विजोत्तमः

॥१६॥

गृहे श्राद्धं प्रकुर्वीत पितॄणामृणमुक्तये ॥

गृहाच्छतगुणं नद्यां या नदी याति सागरम्

॥१७॥

प्रभासे पुष्करे राजन्गंगायां पिंडतारके ॥

प्रयागे नृपगोमत्यां भवदामोदराग्रतः

॥१८॥

नर्मदादिषु तीर्थेषु कुर्याच्छ्राद्धं नरो यदि ॥

सर्वपापविनिर्मुक्तः पितरो यांति सद्गतिम्

॥१९॥

संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ॥

दिव्यं विमानमारुह्य प्रान्ते याति सुरालयम्

॥२०॥

जातकर्मादियज्ञेषु विवाहे यज्ञकर्मणि ॥

देवप्रतिष्ठाप्रारंभे वृद्धिश्राद्धं प्रकल्पयेत्

॥२१॥

तृप्यन्ति देवताः सर्वा स्तृप्यंति पितरो नृणाम् ॥

वृद्धिश्राद्धकृतो गेहे जायते सर्वमंगलम्

॥२२॥

कामः क्रोधश्च लोभश्च मोहो मद्यमदादयः ॥

माया मात्सर्यपैशुन्यमविवेको विचारणा

॥२३॥

अहंकारो यदृच्छा च चापल्यं लौल्यता नृप ॥

अत्यायासोप्यनायासः प्रमादो द्रोहसाहसम्

॥२४॥

आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ॥

अल्पाहारो निराहारः शोकश्चौर्यं नृपोत्तम

॥२५॥

एतान्दोषान्गृहे नित्यं वर्जयन्यदि वर्तते ॥

स नरो मण्डनं भूमेर्देशस्य नगरस्य च

॥२६॥

श्रीमान्विद्वान्कुलीनोऽसौ स एव पुरुषोत्तमः ॥

सर्वतीर्थाभिषेकश्च नित्यं तस्य प्रजायते

॥२७॥

तदा तीर्थफलं सम्यक्त्यक्तदोषस्य जायते ॥

स्नानं सन्ध्या जपो होमः पितृदेवर्षितर्पणम् ॥

श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते

॥२८॥

प्रयागे वा कुरुक्षेत्रे सरस्वत्यां च सागरे ॥

गयायां वा रुद्रपदे नरनारायणाश्रमे

॥२९॥

प्रभासे पुष्करे कृष्णे गोमत्यां पिंडतारके ॥

वस्त्रापथे गिरौ पुण्ये तथा दामोदरे नृप

॥३०॥

भीमेश्वरे नर्मदायां स्कांदे रामेश्वरादिषु ॥

उज्जयिन्यां महाकाले वाराणस्यां च भूर्भुवः

॥३१॥

कालिंद्यां मथुरायां च सकृद्याति नरो यदि ॥

सदोषो मुच्यते दोषैर्ब्रह्महत्यादिभिः कृतैः

॥३२॥

अपि कीटः पतंगो वा पक्षी वा सूकरोऽपि वा ॥

खरोष्ट्रकुंजरा वाजिमृगसिंहसरीसृपाः

॥३३॥

ज्ञानतोऽज्ञानतो राजंस्तेषु स्था नेषु ये मृताः ॥

सर्वे ते पुण्यकर्माणः स्वर्गं भुक्त्वा सुखं बहु

॥३४॥

चतुर्वर्णेषु सर्वे ते जायंते कर्मबंधनात् ॥

कर्मबंधं विहायाशु मुक्तिं यांति नराः पुनः

॥३५॥

मोदंते तीर्थमरणात्स्वर्गभोगावसानतः ॥

संप्राप्य भारते खंडे कर्मभूमिं महोदयम्

॥३६॥

अनेकाश्चर्यसंयुक्तं बहुपर्वतमंडितम् ॥

गंगायाः सरितः सर्वाः समुद्रैः सह संगताः

॥३७॥

पदेपदे निधानानि संति तीर्थान्यनेकशः ॥

येषां स्मरणमात्रेण सर्वपापक्षयो भवेत्

॥३८॥

पातालमार्गा बहवः स्वर्गमार्गश्च दृश्यते ॥

गगने दृश्यते सूर्यो हृदये दृश्यते हरः

॥३९॥

ध्यानेन ज्ञानयोगेन तपसा वचसा गुरोः ॥

सत्येन साहसेनैव दृश्यते भुवनत्रयम्

॥४०॥

वेदस्मृतिपुराणैश्च ये न पश्यंति भूतलम् ॥

पातालं स्वर्गलोकं च वंचितास्ते नरा इह

॥४१॥

ये विरज्यंति न स्त्रीषु कामासक्ता विचेतसः ॥

देहोन्यथा वरस्त्रीणामन्यथा तैश्च चिंतितम्

॥४२॥

जन्मभूमिषु ते रक्ता जन्यंते जंतवः पुनः ॥

मुक्तिमार्गात्पुनर्भ्रष्टा जायंते पशुयोनिषु

॥४३॥

धनानि संप्राप्य वराटिकां ये द्विजातिमुख्याय विधाय पूजाम् ॥

यच्छंति नो निर्मलचेतना ये नराधमा दैवहता मृतास्ते

॥४४॥

देहं सुपुष्टं विजरं च यौवनं लब्ध्वा न गंगादिषु यांति ये नराः ॥

माता पिता नो न सुतो न बांधवो भार्या स्वसा नो दुहिता न विद्यते

॥४५॥

एकस्तु यो याति कथं न क्लिश्यते मूर्खो न जानाति भवं महेश्वरम् ॥

स्नात्वा न पश्यंति हरं महेश्वरं दैवेन ते वै मुषिता नराधमाः

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये यात्रा विधिवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥