प्रभो सारस्वत मया श्रुतं माहात्म्यमुत्तमम्
भोजराज उवाच
प्रभो सारस्वत मया श्रुतं माहात्म्यमुत्तमम् ॥
वस्त्रापथस्य क्षेत्रस्य गिरे रैवतकस्य च
॥१॥विशेषेण स्वर्णरेखाभवस्य च जलस्य च ॥
इदानीं श्रोतुमिच्छामि तीर्थोत्पत्तिं वदस्व मे
॥२॥ब्रह्मविष्णुशिवादीनां मध्ये कोऽयं व्यवस्थितः ॥
केयं नदी स्वर्णरेखा सर्वपातकनाशिनी
॥३॥कस्माद्ब्रह्मादया देवा अस्मिंस्तीर्थे समागताः ॥
कथं नारायणो देवः स्वयमेव समागतः
॥४॥हेमालयं परित्यज्य भवानी गिरिमूर्द्धनि ॥
संस्थिता स्कन्दमादाय देवैरिन्द्रादिभिः सह
॥५॥सारस्वत उवाच
शृणु सर्वं महाराज कथयिष्ये सविस्तरम् ॥
येन वै कथ्यमानेन सर्वपापक्षयो भवेत्
॥६॥पुरा ब्रह्मदिनस्यांते जगदेतच्चराचरम् ॥
संहृत्य भगवान्रुद्रो ब्रह्मविष्णुपुरस्कृतः
॥७॥तां च ते सकलां रात्रिमेकमूर्त्तिभवास्त्रयः ॥
तिष्ठन्ति रात्रि पर्यन्ते पुनर्भिन्ना भवंति ते
॥८॥ब्रह्मविष्णुशिवा देवा रजःसत्त्वतमोमयाः ॥
सृष्टिं करोति भगवान्ब्रह्मा पालयते हरिः
॥९॥सर्वं संहरते रुद्रो जगत्कालप्रमाणतः ॥
तेनादौ भगवान्सृष्टो दक्षो नाम प्रजापतिः
॥१०॥सर्वे संक्षेपतः कृत्वा ब्रह्माण्डं सचरा चरम् ॥
भिन्ना देवास्त्रयो जाताः सत्यलोकव्यवस्थिताः
॥११॥त्रयो भुवं समासाद्य कौतुकाविष्टचेतसः ॥
कैलासं ते गिरिवरं समारूढाः सुरेर्वृताः
॥१२॥अहं ज्येष्ठो अहं ज्येष्ठो वादोऽभूद्ब्रह्मरुद्रयोः ॥
तदा क्रुद्धो महादेवो ब्रह्माणं हन्तुमुद्यतः
॥१३॥विष्णुना वारितो ब्रह्मा न ते वादस्तु युज्यते ॥
तत्त्वं नाहं यदा नेदं ब्रह्मांडं सचराचरम्
॥१४॥एक एव तदा देवो जले शेते महेश्वरः ॥
जागर्ति च यदा देवः स्वेच्छया कौतुकात्ततः
॥१५॥अनेन त्वं कृतः पूर्वमहं पश्चात्त्वया कृतः ॥
ब्रह्मांडं कूर्मरूपेण धृतमस्य प्रसादतः
॥१६॥अनुप्रविष्टा ब्रह्मांडं प्रसादाच्छं करस्य च ॥
सृष्टिस्त्वया कृता सर्वा मयि रक्षा व्यवस्थिता
॥१७॥उदासीनवदासीनः संसारात्सारमीक्षते ॥
एक एव शिवो देवः सर्वव्यापी महेश्वरः
॥१८॥पितामहत्वं संजातं प्रसादाच्छंकरस्य ते ॥
प्रसादयामास हरं श्रुत्वा ब्रह्मा वचो हरेः
॥१९॥अनादिनिधनो देवो बहुशीर्षो महाभुजः ॥
इत्यादिवेदवचनैस्ततस्तुष्टो महेश्वरः ॥
प्राह ब्रह्मन्वरं यत्ते वृणीष्व मनसि स्थितम्
॥२०॥इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये ब्रह्मरुद्रविवादे विष्णुवचनेन ब्रह्मकृतरुद्रप्रसादनवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥