मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वस्त्रापथक्षेत्रमाहात्म्यम्, अध्याय १३

3
प्रभासखण्डः · वस्त्रापथक्षेत्रमाहात्म्यम् · 13

श्राद्धदानादिमाहात्म्यवर्णनम्

सारस्वत उवाच

छित्त्वा शुभाशुभं कर्म मुक्तिमिच्छेच्छिवां ततः ॥

इदं न शक्यते कर्त्तुं शुभं कार्यं तदा नरैः

॥१॥

उत्थायोत्थाय स्नातव्यं पूज्यौ हरिहरौ स्वयम् ॥

सत्यं वाच्यं हितं कार्यं दानं देयं स्वशक्तितः

॥२॥

परापवादभीरुत्वं परदारान्विवर्जयेत् ॥

सुवर्णभूमिहरणब्रह्मदेवस्ववर्जनम्

॥३॥

ब्राह्मणस्त्रीनरेंद्राणां बालवृद्धतपस्विनाम् ॥

पितृमातृगुरूणां च नाप्रियं मनसा वदेत्

॥४॥

देशकालपरिज्ञानं पात्रापात्रविवेचनम् ॥

छाया नृणां न वक्तव्या तक्राग्नींधनकांजिकम्

॥५॥

औषधं शाकमर्थिभ्यो दातव्यं गृह मेधिभिः ॥

एकादशीपंचदशीचतुर्दश्यष्टमीषु च

॥६॥

अमावास्याव्यतीपातसंक्रांतिग्रहणेषु च ॥

वैधृते पितृमात्रोश्च क्षयाहदिवसेषु च

॥७॥

युगादिमन्वादिदिने गृहे कार्यो महोत्सवः ॥

तीर्थे वा गमनं कार्यं गृहाच्छतगुणं यतः

॥८॥

इद्रियाणां जयः कार्यो मद्यं द्यूतं विवर्जयेत् ॥

विवादं गमनं युद्धं गृही यत्नेन वर्जयेत्

॥९॥

स्नानं दानं जपो होमो देवपूजा द्विजार्चनम् ॥

अक्षयं जायते सर्वं विधिवच्चेद्भवेत्कृतम्

॥१०॥

एकापि गौः प्रदातव्या वस्त्रालंकारभूषणा ॥

दोग्ध्री सवत्सा तरुणी द्विजमुख्याय कल्पिता

॥११॥

संप्राप्य भारतं खंडं मानुषं जन्म चोत्तमम् ॥

धन्यो ददाति यो धेनुं स नरः सूर्यमण्डलम् ॥

भित्त्वा याति विमानेन गम्यमानो गवादिभिः

॥१२॥

सप्त जन्मानि पापानि कृत्वा पापीह चाधमः ॥

एको ददाति यो धेनुं मुच्यते सर्वपातकैः

॥१३॥

यदा स नीयते बद्धो यममार्गेण किंकरैः ॥

तदा नंदा समागत्य स्वं पुत्रमिव पश्यति

॥१४॥

विजित्य हुंकृतेनैव तान्दूतान्दूरतः स्थितान् ॥

गोप्रदं तं समादाय प्रयाति शिवमन्दिरम्

॥१५॥

वृषो धर्म हति प्रोक्तो येन मुक्तः स मुच्यते ॥

गोषु मध्ये पितॄन्सर्वान्हरमुद्दिश्य वा हरिम्

॥१६॥

सूर्यब्रह्मपुरे वासो जायते ब्रह्मवासरे ॥

दृढं ककुद्मिनं संतं युवानं भारसाधनम्

॥१७॥

हलक्षमं बलीवर्दं दत्त्वा विप्राय पर्वसु ॥

तमारुह्य नरो याति गोलोकं शिवसंनिधौ

॥१८॥

अश्वं सास्तरणं दत्त्वा खलीनेन च संयुतम् ॥

अश्वराजबलात्स्वर्गे मोदते ब्राह्मवासरम्

॥१९॥

गजदानाद्गजेंद्रेण नीयते नंदनं वनम् ॥

पृथिव्यां सागरांतायामेष राजा भविष्यति

॥२०॥

गृहं सोपस्करं दत्त्वा विप्राय गृहमेधिने ॥

लभते नंदने दिव्यं विमानं सार्वकामिकम्

॥२१॥

द्रव्यं पृथिव्यां परमं सुवर्णं हृष्यंति देवा यदि दीयते ततः ॥

सूर्योपि तस्मै रुचिरं विमानं ददाति तावद्भ्रमतेऽत्र यावत्

॥२२॥

रौप्यं पितॄणामतिवल्लभं तद्दत्त्वा नरो निर्मलतामुपैति ॥

सोमस्य लोकं लभते स तावद्भुवे निवद्धा ऋषयो हि यावत्

॥२३॥

श्रीखंडकर्पूरसमाकुलानि तांबूलरत्नादिफलानि दत्त्वा ॥

पुष्पाणि वस्त्राणि सुखेन याति साकं शशांकं दिवि देववृंदैः

॥२४॥

तक्रोदकतैलघृतदुग्धेक्षुरसमधूनि यो दद्यात् ॥

खर्जूरखंडद्राक्षावातामांजीरकैः साकम्

॥२५॥

दर्भाक्षतमृद्गोमयदूर्वायज्ञोपवीतानि ॥

तिलचर्मसूर्यपिटकं दत्त्वा ख्यातश्चिरं स्वर्गे

॥२६॥

आत्माहाराच्चतुर्भागं सिद्धान्नाद्यदि दीयते ॥

हन्तकारः स तं दत्त्वा ध्रुवं याति ध्रुवालये

॥२७॥

आत्माहारप्रमाणेन प्रत्यहं गोषु दीयते ॥

गवाह्निकं तासु दत्त्वा नरो याति सुरालयम्

॥२८॥

कंडनीपेषणीचुल्लीमार्जनीभिश्च यत्कृतम् ॥

पापं गृही क्षालयति ददद्भिक्षां दिनं प्रति

॥२९॥

ग्रासमात्रा भवेद्भिक्षा सा नित्यं यत्र दीयते ॥

तद्गृहं गृहमन्यच्च स्मशानमिव दृश्यते

॥३०॥

कुम्भान्सोदकसिद्धान्नांश्छत्रोपानत्कमंडलुम् ॥

अंगुलीयकवासांसि दत्त्वा याति नरो दिवि

॥३१॥

श्रांतस्य यानं तृषितस्य पानमन्नं क्षुधार्त्तस्य नरो नरेन्द्र ॥

दत्त्वा विमानेन सुरांगनाभिः संस्तूयमानस्त्रिदिवं स याति

॥३२॥

भोजनं सततं देयं यथाशक्त्या घृत प्लुतम् ॥

तन्मया हि यतः प्राणा अतः पुष्यंति प्राणिनः

॥३३॥

क्षुत्पीडा महती लोके ह्यन्नं तद्भेषजं स्मृतम् ॥

तेन सा शांतिमायाति ततोन्नं देयमुत्तमम्

॥३४॥

अन्नं वस्त्रं फलं तोयं तक्रं शाकं घृतं मधु ॥

पत्रं पुष्पं तथोपानत्कंथां यष्टिं कमंडलुम्

॥३५॥

छत्रपात्रे व्रतं विद्या अक्षमाला सुरार्चनम् ॥

कन्या कुशोपवीतानि बीजौषधगृहाणि च

॥३६॥

सस्यं क्षेत्रं यज्ञपात्रं योगपट्टं च पादुके ॥

कृष्णाजिनं बुद्धिदानं धर्मादेशकथानकम्

॥३७॥

अथैतत्संततं देयं तेन श्रेयो महद्भवेत् ॥

सर्वपापक्षयं कृत्वा दाता याति शिवालयम्

॥३८॥

श्राद्धे गृहस्था भोक्तव्याः कुलीना वेदपारगाः ॥

अक्रोधनाः स्नानशीलाः स्वदेशाचारतत्पराः

॥३९॥

आमंत्र्य पूर्वदिवसे निरीहा अपि ये द्विजाः ॥

अलोलुपा व्याधिहीना न तु ये ग्रामयाजिनः

॥४०॥

तेषां पुरः प्रदातव्यं पिंडदानं विधानतः ॥

श्राद्धं श्रद्धाविहीनेन कृतमप्यकृतं भवेत्

॥४१॥

तस्माच्छ्रद्धान्वितैः श्राद्धं कर्त्तव्यं क्रोधवर्जितैः ॥

वानप्रस्थो ब्रह्मचारी पथिकस्तीर्थसेवकः

॥४२॥

अतिथिर्वैश्वदेवांते स पूज्यः श्राद्धकर्मणि ॥

सर्वदा यतयः पूज्याः स्वशक्त्या गृहमेधिभिः

॥४३॥

यात्राविधिमथो वक्ष्ये सेतिहासं नृपोत्तम

॥४४॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये तीर्थयात्राविधिवर्णने श्राद्धदानादिमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥