मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय १

3
प्रभासखण्डः · अर्बुदखण्डः · 1

विवरवृत्तान्तोपक्रमवर्णनम्

श्रीगणेशाय नमः

अथ तृतीयमर्बुदखण्डं प्रारभ्यते

व्यास उवाच

ॐनमोनंताय सूक्ष्माय ज्ञानगम्याय वेधसे

शुद्धाय विश्वरूपाय देवदेवाय शंभवे

॥१॥

ऋषय ऊचुः

कथितो वंशविस्तारो भवता सोमसूर्ययोः ॥

मन्वंतराणि सर्वाणि सृष्टिश्चैव पृथग्विधा

॥२॥

अधुना श्रोतुमिच्छामस्तीर्थमाहात्म्यमुत्तमम् ॥

कानि तीर्थानि पुण्यानि भूतलेऽस्मिन्महामते

॥३॥

सूत उवाच

नाना तीर्थानि लोकेऽस्मिन्येषां संख्या न विद्यते ॥

तिस्रः कोट्योऽर्द्धकोटिश्च तेषां संख्या कृता पुरा

॥४॥

क्षेत्राणि सरितश्चैव पर्वताश्च नदा स्तथा ॥

ऋषीणां तपसो वीर्यान्माहात्म्यं परमं गताः

॥५॥

तेषां मध्येऽर्बुदोनाम सर्वपापहरोऽनघः ॥

अस्पृष्टः कलिदोषेण वसिष्ठस्य प्रभावतः

॥६॥

पुनंति सर्वतीर्थानि स्नानदानादिकैर्यथा ॥

अर्बुदो दर्शनादेव सर्वपापहरो नृणाम्

॥७॥

ऋषय ऊचुः

किं प्रमाणोऽर्बुदो नाम कस्मिन्देशे व्यवस्थितः ॥

कथं वासिष्ठमाहात्म्यात्प्रथितो धरणीतले

॥८॥

कानि तीर्थानि मुख्यानि ह्यर्बुदे संति पर्वते ॥

सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः

॥९॥

सूत उवाच

अहं च संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

अर्बुदस्य द्विजश्रेष्ठा माहात्म्यं च यथा श्रुतम्

॥१०॥

वसिष्ठो नाम देवर्षिः पितामहसमुद्भवः ॥

स पूर्वं भूतलं प्राप्तस्तपस्तेपे सुदारुणम्

॥११॥

नियतो नियताहारः सर्वभूतहिते रतः ॥

वर्षास्वाकाशवासी च हेमंते सलिलाशयः

॥१२॥

पंचाग्निसाधको ग्रीष्मे जपहोमपरायणः ॥

केनचित्त्वथ कालेन तस्य धेनुः पयस्विनी ॥

नंदिनीति सुविख्याता सा वै कामदुघा शुभा

॥१३॥

सा कदाचिद्धरापृष्ठे भ्रममाणा तृणाशया ॥

पतिता दारुणे श्वभ्रे अगाधे तिमिरावृते

॥१४॥

एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः ॥

अस्तं गतो न संप्राप्ता नंदिनी मुनिसत्तमाः

॥१५॥

तस्याः क्षीरेण नित्यं स सायं प्रातर्द्विजो मुनिः ॥

करोति होममग्नौ हि सुसमिद्धे जितव्रतः

॥१६॥

अथ चिंतापरो विप्रः प्रायश्चित्तभयाद्ध्रुवम् ॥

वीक्षांचक्रे वने तस्मिन्समेषु विषमेषु च

॥१७॥

स तच्छ्वभ्रमथासाद्य भूंभारावमथाशृणोत् ॥

तां प्रोवाच मुनिश्रेष्ठः कथं त्वं पतिता शुभे

॥१८॥

अहं होमस्य चोद्वेगान्निःसृतस्त्वामवेक्षितुम् ॥

साऽब्रवीद्भक्षमाणाहं विप्रर्षे तृणवांछया

॥१९॥

पतितात्र विभो त्राहि कृच्छ्रादस्मात्सुदुःसहात् ॥

तस्यास्तद्वचनं श्रुत्वा स मुनिर्ध्यान मास्थितः

॥२०॥

सरस्वतीं समादध्यौ नदीं त्रैलोक्यपावनीम् ॥

सा ध्याता मनसा तेन मुनिना तत्र तत्क्षणात्

॥२१॥

श्वभ्रं तत्पूरयामास समंताद्विमलैर्जलैः ॥

परिपूर्णं ततः श्वभ्रे निष्क्रांता नंदिनी तदा

॥२२॥

संहृष्टा मुनिना सार्द्धं ययावाश्रमसम्मुखम्

॥२३॥

स दृष्ट्वा श्वभ्रमध्यं तं गंभीरं च महामुनिः ॥

चिंतयामास मेधावी श्वभ्रस्यैव प्रपूरणे

॥२४॥

तस्य चिंतयतो विप्रा बुद्धिरेषोदपद्यत ॥

आनीय पर्वतं मुक्त्वा श्वभ्रमेतत्प्रपूर्यते ॥

तस्माद्गच्छाम्यहं शीघ्रं हिमवन्तं नगोत्तमम्

॥२५॥

स एव पर्वतं चात्र प्रेषयिष्यति भूधरः ॥

येन स्यात्परिपूर्णं च श्वभ्रमेतन्महात्मना

॥२६॥

ततो जगाम स मुनिर्हिमवन्तं नगोत्तमम् ॥

दृष्ट्वा वसिष्ठमायांतं हिम वान्हृष्टमानसः ॥

अर्घ्यपाद्यादिसंस्कारैः संपूज्य इदमब्रवीत्

॥२७॥

स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्य जीवितम् ॥

यद्भवान्मे गृहे प्राप्तः पूज्यः सर्वदिवौकसाम्

॥२८॥

ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः ॥

नूनं तुभ्यं प्रदास्यामि नियोगो दीयतां मम

॥२९॥

वसिष्ठ उवाच

ममाश्रमस्य सांनिध्ये श्वभ्रमस्ति सुदारुणम् ॥

अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा

॥३०॥

यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात् ॥

तवांतिकमनुप्राप्तो नान्यो योग्यो महीपतिः

॥३१॥

तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम् ॥

येन तत्पूर्यते श्वभ्रं भृशं प्रेषय तादृशम्

॥३२॥

हिमवानुवाच

किंप्रमाणं मुने श्वभ्रं विस्तारायामतो वद ॥

तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च

॥३३॥

वसिष्ठ उवाच

द्विसहस्रं तु दैर्घ्येण विस्तरेण त्रिसहस्रकम् ॥

न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम

॥३४॥

हिमवानुवाच

कथं तेन प्रमाणेन सञ्जातो विवरो महान् ॥

अभूत्कौतूहलं तेन सर्वं विस्तरतो वद

॥३५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाश्रमसमीपवर्ति विवरवृत्तान्तोपक्रमवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥