शुक्लतीर्थमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ शुक्लतीर्थमनुत्तमम् ॥
यत्ख्यातिमगमत्पूर्वं सकाशाद्दाशवर्गतः
॥१॥पुराऽऽसीद्रजको नाम्ना शमिलाक्षो महीपते ॥
नीलीमध्ये तु वस्त्राणि प्रक्षिप्तानि महीपते
॥२॥अथासौ भयमापन्नो ज्ञात्वा वस्त्रविडंबनम् ॥
देशांतरं प्रस्थितोऽसौ स्वकुटुम्बसमावृतः
॥३॥अथ तस्य सुता राजन्दाशकन्यासखी शुभा ॥
दुःखेन महताविष्टा दाश्यंतिकमुपाद्रवत्
॥४॥तस्यै निवेदयामास भयं वस्त्रसमुद्भवम् ॥
विदेशचलनं चैव बाष्पगद्गदया गिरा
॥५॥दाशकन्यापि दुःखेन तस्या दुःखसमन्विता ॥
अब्रवीद्वाष्संक्लिन्नां निश्वसंती मुहुर्मुहुः
॥६॥दाशकन्योवाच
अस्त्युपायो महानत्र विदितो मम शोभने ॥
ध्रुवं तेन कृतेनैव निर्भयं ते च ते पितुः
॥७॥अत्रास्ति निर्झरं सुभ्रूरर्बुदे वरवर्णिनि ॥
तत्र मे भ्रातरश्चैव तथान्ये मत्स्यजीविनः
॥८॥यच्चान्यदपि तत्रैव क्षिप्यते सलिले शुभे ॥
तत्सर्वं शुक्लतामेति पश्य मे वपुरीदृशम्
॥९॥सर्वेषामेव दाशानां तस्य तोयस्य मज्जनात् ॥
तानि वस्त्राणि तत्रैव तातस्तव सुमध्यमे ॥
जले प्रक्षालयेत्क्षिप्रं प्रयास्यंति सुशुक्लताम्
॥१०॥त्वयाऽत्र न भयं कार्यं गत्वा तातं निवारय ॥
प्रस्थितं परदेशाय नात्र कार्या विचारणा
॥११॥पुलस्त्य उवाच
सा तस्या वचनं श्रुत्वा गत्वा सर्वं न्यवेदयत् ॥
जनकाय सुता तूर्णं ततोऽसौ तुष्टिमाप्तवान्
॥१२॥प्रातरुत्थाय तूर्णं स निर्झरं तमुपाद्रवत् ॥
क्षिप्तमात्राणि राजेन्द्र तानि वस्त्राणि तेन वै
॥१३॥तस्मिंस्तोयेतिशुक्लत्वं गतानि बहुलां ततः ॥
कांतिमापुश्च परमां तथा दृष्ट्वांबराणि च
॥१४॥अथासौ विस्मयाविष्टस्तानि चादाय सत्वरः ॥
राज्ञे निवेदयामास वृत्तांतं च तदुद्भवम्
॥१५॥ततो विस्मयमापन्नः स राजा तत्र निर्झरे ॥
अन्यानि नीलीरक्तानि वस्त्राणि चाक्षिपज्जले
॥१६॥सर्वाणि शुक्लतां यांति विशिष्टानि भवंति च ॥
ज्ञात्वा ततः परं तीर्थं स्नानं चक्रे यथाविधि
॥१७॥त्यक्त्वा राज्यं स तत्रैव तपस्तेपे महीपतिः ॥
ततः सिद्धिं परां प्राप्तस्तीर्थस्यास्य प्रभावतः
॥१८॥एकादश्यां नरस्तत्र यः श्राद्धं कुरुते नृप ॥
स कुलानि समुद्धृत्य दश याति दिवं ततः ॥
स्नानेनव विपापत्वं तत्क्षणादेव जायते
॥१९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥