ततो गच्छेन्नृपश्रेष्ठ देवं कोटीश्वरं परम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ देवं कोटीश्वरं परम् ॥
यं दृष्ट्वा मानवः सम्यक्परां सिद्धिमवाप्नुयात्
॥१॥शृणु तत्राभवत्पूर्वं यदाश्चर्यं महीपते ॥
दक्षिणस्या मुनिवराः कोटिसंख्याप्रमाणतः
॥२॥अन्योऽन्यं स्पर्धया सर्वे हेलयाऽर्बुदमागताः ॥
अहं पूर्वमहं पूर्वं प्रपश्याम्यचलेश्वरम्
॥३॥आगमिष्यति यः पश्चाद्ब्राह्मणः श्वा भविष्यति ॥
पापीयान्भक्तिरहितः श्रद्धाहीनो भविष्यति
॥४॥इत्येवं स्पर्धमानास्ते हेलयाऽर्बुदमागताः ॥
ततः सर्वे यतात्मानः सम्यग्व्रतपरायणाः
॥५॥शांतास्तपस्विनः सर्वे वेदविद्याविशारदाः ॥
तेषामीहितमाज्ञाय सम्यक्कामनिषूदनः
॥६॥कृपया परयाविष्टो भक्तिभावान्महेश्वरः ॥
कोटिं कृत्वाऽऽत्मलिंगानां तस्मिन्स्थाने व्यवस्थितः
॥७॥एकस्मिन्नेव काले तु सर्वैर्दृष्टो महेश्वरः ॥
मुनिभिश्च नृपश्रेष्ठ कोटिसंख्यैः पृथक्पृथक्
॥८॥अथ ते मुनयः सर्वे समं दृष्ट्वा महेश्वरम् ॥
विस्मयोत्फुल्लनयना साधुसाध्विति चाब्रुवन्
॥९॥भक्तियुक्ता द्विजाः सर्वेऽस्तुवंस्ते वैदिकैः स्तवैः ॥
तेषां तुष्टस्ततः शंभुर्वाक्यमेतदुवाच ह
॥१०॥श्रीमहादेव उवाच
तुष्टोऽहं मुनयः सर्वे श्रद्धया परया हि वः ॥
वरं वै व्रियतां शीघ्रं सर्वैश्चैव पृथक्पृथक्
॥११॥ऋषय ऊचुः
एष एव वरोऽस्माकं सर्वेषां हृदि वर्त्तितः ॥
युगपद्दर्शनाद्देव जायतां फलमुत्तमम्
॥१२॥श्रीमहादेव उवाच
न वृथा दर्शनं मे स्याद्विशेषाद्ब्राह्मणस्य च ॥
दर्शनं ये करिष्यंति तेषां च तीर्थजं फलम्
॥१३॥मुनय ऊचुः
अवश्यं यदि दातव्यो वरोऽस्माकं महेश्वर ॥
एकं कोटिमयं लिंगं क्रियतां वृषभध्वज
॥१४॥यस्मिन्दृष्टे फलं नृणां जायते कोटिलिंगजम् ॥
एवमेष वरोऽस्माकं दीयतां वृषभध्वज
॥१५॥पुलस्त्य उवाच
एवं सप्रार्थमानानां मुनीनां भावितात्मनाम् ॥
निर्भिद्य पर्वतश्रेष्ठं सहसा लिंगमुद्गतम्
॥१६॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
कृपया परया सर्वांस्तानृषीन्वसुधाधिप
॥१७॥वागुवाच
कोटीश्वराख्यं मे लिंगं लोके ख्यातिं गमिष्यति ॥
माघकृष्णचतुर्द्दश्यां यश्चैनं पूजयिष्यति
॥१८॥सर्वं कोटिगुणं तस्य फलं विप्रा भविष्यति ॥
दाक्षिणात्यो नरो यस्तु श्राद्धमत्र करिष्यति
॥१९॥फलं कोटिगुणं तस्य गयाश्राद्धसमं भवेत् ॥
तस्माद्विशेषतः पूज्यं मम लिंगं च मानवैः
॥२०॥पुलस्त्य उवाच
एवमुक्त्वा तु सा वाणी विरराम महीपते ॥
ततस्ते मुनयः सर्वे गंधधूपानुलेपनैः
॥२१॥तल्लिंगं पूजयामासुः श्रद्धया परया नृप ॥
पूजयित्वा गताः सिद्धिं सर्वे लिंगप्रसादतः
॥२२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभातखण्डे तृतीयेऽर्बुदखण्डे कोटीश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥