मामुह्रदोत्पत्तिवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम् ॥
मामुह्रदमिति ख्यातं तस्मिन्पर्वतरोधसि
॥१॥तत्र स्नातो नरः सम्यक्छ्रद्धावान्सुसमाहितः ॥
मुच्यते पातकैर्घोरैः पूर्वजन्मकृतैरपि
॥२॥तस्य पश्चिमदिग्भागे लिंगमस्ति महीपते ॥
सर्वकामप्रदं नृणां स्थापितं मुद्गलेन तु
॥३॥स्नात्वा मामुह्रदे पुण्ये यस्तल्लिंगं च पश्यति ॥
शुक्लपक्षे चतुर्द्दश्यां फाल्गुने मासि मानवः ॥
स प्राप्नोति परं श्रेयः सर्वतीर्थेषु दुर्लभम्
॥४॥यस्तत्र कुरुते श्राद्धं दक्षिणां मूर्तिमाश्रितः ॥
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम्
॥५॥तत्र दानं प्रशंसंति नीवाराणां महर्षयः ॥
शाकमूलादिभिः श्राद्धं पितॄणां तुष्टिदं नृप
॥६॥ययातिरुवाच
मामुह्रदमिति विभो कथं नामाऽभवत्पुरा ॥
मुद्गलस्याश्रमं ब्रूहि मम सर्वं विधानतः
॥७॥पुलस्त्य उवाच
तत्रस्थस्य पुरा राजन्मुद्गलस्य महात्मनः ॥
विमानं वरमादाय देवदूतः समागतः
॥८॥सोऽब्रवीद्देवराज्ञाहं प्रेषितो मुनिसत्तम ॥
तवार्थायाऽऽरुहैनं त्वं विमानं गम्यतां दिवि
॥९॥मुद्गल उवाच
स्वर्गस्य ये गुणा दूत ये च दोषा प्रकीर्तिताः ॥
तान्मे वद करिष्येऽहं श्रुत्वा वै यत्क्षमं भवेत्
॥१०॥ब्रूहि तान्सकलान्दूत त्वागमिष्याम्यहं ततः
॥११॥देवदूत उवाच
अलमेतेन दर्पेण क्रियतां शक्रजल्पितम् ॥
पुण्यैः स्वकैर्द्विजश्रेष्ठ समागच्छेरिदं ततः
॥१२॥मुद्गल उवाच
अश्रुतैस्तैर्न गच्छेऽहमेतन्मे हृदि निश्चितम् ॥
करिष्येऽहं तपो भूरि पूजयिष्ये महेश्वरम्
॥१३॥दूत उवाच
न शक्तः स्वर्गुणान्वक्तुमपि वर्षशतैरपि ॥
संक्षेपात्कथयिष्यामि यदि ते निश्चयः परः
॥१४॥नंदनादीनि रम्याणि तत्र देववनानि च ॥
अनन्यसदृशा भोगाः सदा तृप्तिर्द्विजोत्तम
॥४५॥बुभुक्षा नैव तृष्णा च निद्रालस्ये न च प्रभो ॥
रंभाद्यप्सरसो मुख्या गंधर्वास्तुंबरादयः ॥
रमयंति नरं तत्र गीतैर्नृत्यैरनेकशः
॥१६॥एवं च वसते तत्र जनः स्वर्गे तपोधन ॥
यावत्पुण्यक्षयस्तावत्पश्चात्पातमवाप्नुयात्
॥१७॥एक एव मुने दोषः स्वर्लोके प्रतिभाति मे ॥
स एव पतनाख्यस्तु स्वर्गिणां च भयावहः
॥१८॥न पुण्यं लभते तत्र कर्तुं विप्र कथंचन ॥
कर्मभूमिरियं ब्रह्मन्भोगभूमिस्तु सा स्मृता
॥१९॥यदत्र क्रियते कर्म शुभं तत्रोप भुज्यते ॥
तथा दृष्ट्वा विमानस्थान्भूरिधर्मादिसंयुतान्
॥२०॥बहुतेजोन्वितान्स्वर्गे ह्यल्पपुण्यो द्विजोत्तम ॥
पश्चात्तापजदुःखेन स्वर्गस्थो दुःखितः सदा
॥२१॥न मया सुकृतं भूरि कृतं मर्त्त्ये कथंचन
॥२२॥तथा च पतमानांश्च दृष्ट्वा चान्यान्सहस्रशः ॥
आत्मनश्च महद्दुःखं जायते च तदद्भुतम्
॥२३॥एतत्ते सर्वमाख्यातं गुणदोषसमुद्भवम् ॥
स्वर्गसंचेष्टितं ब्रह्मन्कुरुष्व यदभीप्सितम्
॥२४॥मुद्गल उवाच
पतनस्य भयं यत्र पुण्यहानिर्न वर्द्धनम् ॥
तेन स्वर्गेण मे दूत नैव कार्यं कथंचन
॥२५॥वाच्यस्त्वया ममादेशाद्देवराजः स्फुटं वचः ॥
क्षम्यतामपराधो मे न स्वर्गाय स्पृहा मम
॥२६॥तत्कर्माऽहं करिष्यामि येन नो पतनाद्भयम्।
. साधयिष्यामि ताँल्लोकान्ये सदा पातवर्जिताः
॥२७॥पुलस्त्य उवाच
एवमुक्त्वा नृपश्रेष्ठ मुद्गलः स्वर्गनिःस्पृहः ॥
स्थितस्तत्रैव निरतः शिवध्यानपरायणः
॥२८॥श्रुत्वा दूतोऽपि शक्रस्य तस्य वाक्यं सविस्तरम् ॥
कथयामास शक्रस्य तं भूयः सोऽभ्यभाषत
॥२९॥देवदूताप्रमाणं च विमानं हि त्वया कृतम् ॥
न कृतं केन चित्पूर्वं न करिष्यति कश्चन
॥३०॥तस्मात्तत्र द्रुतं गत्वा बलादानय तं मुनिम् ॥
आनयस्वान्यथा शापं तव दास्याम्यसंशयम् ॥
पुलस्त्य उवाच ॥
शक्रस्य वचनं श्रुत्वा देवदूते भयान्वितः ॥
प्रस्थितः सत्वरं तत्र मुद्गलो यत्र तिष्ठति
॥३२॥मुद्गलोऽपि विमानस्थं पुनर्दृष्ट्वा समागतम् ॥
मामुह्रदे प्रविश्याथ वारयामास तं तदा
॥३३॥स तस्य वचनेनैव स्तंभितो लिखितो यथा ॥
चलितुं नैव शक्नोति प्रभावात्तस्य सन्मुनेः
॥३४॥चिरकालगतं ज्ञात्वा दूतं तु त्रिदशाधिपः ॥
स्वयं तत्राययौ कोपादारुह्यैरावणं गजम्
॥३५॥अथ दृष्ट्वा तदा दूतं स्तंभितं मुद्गलेन तु ॥
वधार्थं तूद्यतस्तस्य स वज्रं भ्रामयंस्तदा
॥३६॥एतस्मिन्नेव काले तु उत्पातास्तत्र दारुणाः ॥
अपसव्यं मृगाश्चक्रुः पशवः पक्षिणश्च ये ॥
तान्दृष्ट्वा चिन्तयामास मुद्गलो विस्मयान्वितः
॥३७॥अथ दृष्ट्वांबरगतं वज्रोद्यतकरं हरिम् ॥
स्तंभयामास तं सद्यो दृष्टिपातेन मुद्गलः
॥३८॥तत्र शक्रः स्तुतिं चक्रे भग्नोत्साहो नृपोत्तम ॥
मुञ्च मां ब्राह्मणश्रेष्ठ यास्यामि त्रिदशालयम्
॥३९॥स्वर्गे वा यदि वा मर्त्त्ये तिष्ठ त्वं स्वेच्छया द्विज ॥
मया कृतः समुद्योगो हितार्थं ते मुने ह्ययम्
॥४०॥वरं वरय भद्रं ते नित्यं यो मनसि स्थितः ॥
तं ते सर्वं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम्
॥४१॥मुद्गल उवाच
एष एव वरः श्लाघ्यो यत्त्वं दृष्टः सुरेश्वर ॥
दर्शनं ते सहस्राक्ष स्वप्नेष्वपि सुदुर्लभम्
॥४२॥अवश्यं यदि मे देयो वरो वृत्रनिषूदन ॥
त्वत्प्रसादेन मे मोक्षो जायतां शीघ्रमेव हि
॥४३॥मा मु ह्रदं समागत्य दूतः प्रोक्तो मया यतः ॥
ततो मामुह्रदमिति ख्यातिं यातु धरातले
॥४४॥तीर्थमेतत्सहस्राक्ष सर्व पापप्रणाशनम् ॥
अत्र स्नात्वा दिवं यांतु त्वत्प्रसादात्सुरेश्वर
॥४५॥पिण्डदानात्परां प्रीतिं लभंतां पितरोऽत्र हि
॥४६॥इन्द्र उवाच
मामुह्रदमिति ख्यातं तीर्थमेतद्भविष्यति ॥
वरिष्ठं नात्र सन्देहो मत्प्रसादाद्विजोत्तम
॥४७॥अत्र ये फाल्गुने मासि पौर्णमास्यां समाहिताः ॥
करिष्यंति पुनः स्नानं ते यास्यंति परां गतिम्
॥४८॥पिण्डदानाद्गयातुल्यं लप्स्यंते फलमुत्तमम् ॥
पुण्यदानफलं चात्र संख्याहीनं द्विजोत्तम
॥४९॥पुलस्त्य उवाच
एवमुक्त्वा ययौ स्वर्गं दूतमादाय वज्रभृत् ॥
मुद्गलोऽपि परं ब्रह्म चिंतयन्ह्यनिशं ततः
॥५०॥शुक्लध्यानपरो भूत्वा मोक्षं प्राप्तस्ततोऽक्षयम्
॥५१॥अत्र गाथा पुरा गीता नारदेन महात्मना ॥
बहुविप्रसमवाये पर्वतेस्मिन्महीपते
॥५२॥मामु ह्रदे नरः स्नात्वा दृष्ट्वा तं मुद्गलेश्वरम् ॥
इह भुक्त्वाऽखिलान्कामानन्ते मुक्तिमवाप्स्यति ॥
एतस्मात्कारणाद्राजन्मामुह्रदमिति स्मृतम्
॥५३॥तत्तीर्थं सर्वतीर्थानां प्रवरं लोकविश्रुतम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
॥५४॥मोक्षकामो विशेषेण य इच्छेत्परमं पदम् ॥
चण्डिकाश्रममासाद्य किं पुनः परितप्यते
॥५५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेऽर्बुदखण्डे मामुह्रदोत्पत्तिवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥