जंबूतीर्थप्रभाववर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ जंबूतीर्थमनुत्तमम् ॥
तत्र स्नातो नरः सम्यगिष्टं फलमवाप्नुयात्।
जंबूद्वीपसमुत्थानां तीर्थानां नृपसत्तम
॥१॥आसीत्पुरा निमिर्नाम क्षत्रियः सूर्यवंशजः ॥
वयसः परिणामे स पर्वतं चार्बुदं गतः
॥२॥प्रायोपवेशनं कृत्वा स्थितस्तत्र समाहितः ॥
अथाजग्मुर्मुनिगणास्तस्य पार्श्वे सहस्रशः
॥३॥चक्रुर्धर्मकथां पुण्यां राजर्षीणां महात्मनाम् ॥
देवर्षीणां पुराणानां तथान्येषां महात्मनाम्
॥४॥ततः कश्चित्कथांते च लोमशो नाम सन्मुनिः ॥
कीर्त्तयामास माहात्म्यं सर्वतीर्थसमुद्भवम्
॥५॥तच्छ्रुत्वा पार्थिवो राजन्निमिः परमदुर्मनाः ॥
बभूव न कृतं पूर्वं यतस्तीर्थावगाहनम्
॥६॥ततः प्रोवाच तं विप्रमस्त्युपायो द्विजोत्तम ॥
कश्चिद्येन च सर्वेषां तीर्थानां लभ्यते फलम्
॥७॥लोमश उवाच
दया मे नृप सञ्जाता त्वां दृष्ट्वा दुःखितं भृशम् ॥
तीर्थयात्राकृते यस्मात्करिष्येऽहं तव प्रियम्
॥८॥अत्रैव चानयिष्यामि जंबूद्वीपोद्भवानि च ॥
सर्वतीर्थानि राजेन्द्र मन्त्रशक्त्या न संशयः
॥९॥स्नानं कुरु महाराज ह्येकीभूतेषु तत्र च ॥
अस्मिञ्जलाशये पुण्ये सत्यमेतद्ब्रवीम्यहम्
॥१०॥एवमुक्त्वा स विप्रर्षिर्ध्यानं चक्रे समाहितः ॥
ततस्तीर्थानि सर्वाणि तत्रायातानि तत्क्षणात्
॥११॥प्रत्ययार्थं च राजर्षे जंबूवृक्षो व्यजायत ॥
तत्र स्नानं नृपश्चक्रे सर्वतीर्थमये ध्रुवे
॥१२॥सदेहश्च गतः स्वर्गे तीर्थस्नानादनन्तरम् ॥
ततः प्रभृति तत्तीर्थं जंबूतीर्थमनुस्मृतम्
॥१३॥कन्यागते रवौ तत्र यः श्राद्धं कुरुते नरः ॥
गयाशीर्षसमं तस्य पुण्यमाहुर्महर्षयः
॥१४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे जंबूतीर्थप्रभाववर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥