मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय २४

3
प्रभासखण्डः · अर्बुदखण्डः · 24

कात्यायनीमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ गुहामध्यनिवासिनी ॥

देवी कात्यायनी यत्र शुंभदानवनाशिनी

॥१॥

शुंभोनाम महादैत्यः पुराऽऽसीत्पृथिवीतले ॥

तेन सर्वं जगद्व्याप्तं जित्वा देवान्रणाजिरे

॥२॥

स शंकरवराद्दैत्यो देवदानवरक्षसाम् ॥

अवध्यो योषितं मुक्त्वा सर्वेषां प्राणिनां भुवि

॥३॥

ततो देवगणाः सर्वे गत्वाऽर्बुदमथाचलम् ॥

तपस्तेपुर्वधार्थाय शुंभस्य जगतीपते ॥

देवीमाराधयामासुर्व्यक्तरूपां सुरेश्वरीम्

॥४॥

अथ तेषां प्रसन्ना सा दृष्टिगोचरमागता ॥

अब्रवीद्वरदास्मीति ब्रूत किं करवाणि च

॥५॥

देवा ऊचुः

सर्वं नोऽपहृतं देवि शुंभेन सुदुरात्मना ॥

तं निषूदय कल्याणि सोवध्योन्यैः सदा रणे

॥६॥

त्वया संरक्षिता देवि पुरा बाष्कलितो वयम्

॥७॥

नान्याऽस्माकं गतिर्मातस्त्वां मुक्त्वा चारुहासिनीम् ॥

पुलस्त्य उवाच ॥

एवमुक्ता सुरैर्देवी गत्वा शुंभनिकेतनम् ॥

आजुहाव रणे क्रुद्धा भर्त्सयित्वा मुहुर्मुहुः

॥७॥

स तया याचिते युद्धे ज्ञात्वा तां योषितं नृप ॥

अवज्ञाय ततो दैत्यः प्रेषयामास दानवान्

॥९॥

जीवग्राहेण दुष्टेयं गृह्यतां परुषस्वना ॥

क्रियतां दारुणो दंडो मम वाक्यान्न संशयः

॥१०॥

अथ तस्य समादेशाद्दानवास्तां ततो द्रुतम् ॥

गत्वा निर्भर्त्सयामासुर्वेष्टयित्वा दिशो दश

॥११॥

ततोऽवलोकनाद्दैत्यास्तया ते भस्मसात्कृताः ॥

ततः शुंभः प्रकुपितः स्वयमेव समाययौ

॥१२॥

अब्रवीत्तिष्ठतिष्ठेति खङ्गमुद्यम्य भीषणः ॥

सोऽपिदेव्या महाराज तथा चैवावलोकितः

॥१३॥

अभवद्भस्मसात्सद्यः पतंग इव पावकम् ॥

हते तस्मिंस्ततो दैत्याः शेषाः पार्थिवसत्तम ॥

भित्त्वा रसातलं जग्मुः पातालं भयसंयुताः

॥१४॥

ततो देवगणाः सर्वे तुष्टुवुस्तां सुरेश्वरीम् ॥

अब्रुवंश्च वरं ब्रूहि यत्ते मनसि वर्त्तते

॥१५॥

देव्युवाच

तत्रैव पर्वते स्थास्ये ह्यर्बुदेऽहं सुरोत्तमाः ॥

अभीष्टः पर्वतोऽस्माकं सं सदाऽर्बुदसंज्ञितः

॥१६॥

देवा ऊचुः

तत्रस्थां त्वां समालोक्य मर्त्त्या यांति त्रिविष्टपम् ॥

विना यज्ञैस्तथा दानैः स्वर्गः संकीर्णतां गतः ॥

नान्यत्कारणमस्तीह निषेधस्य सुरेश्वरि

॥१७॥

देव्युवाच

तत्राहं विजने रम्ये गुहामध्ये सुरेश्वराः ॥

स्थास्यामि विरलाः केचिद्यास्यंति प्राणिनो मम ॥

दृष्टिगोचरमार्गे हि गत्वा तं पर्वतं प्रति

॥१७॥

देवा ऊचुः

यद्येवं देवि तेऽभीष्टमेवं कुरु शुचिस्मिते ॥

वयं त्वां तत्र द्रक्ष्यामः शुक्लाष्टम्यां सदा शुचेः

॥१९॥

पुलस्त्य उवाच

एवमुक्ताः सुरा देव्या प्रहृष्टास्त्रिदिवं ययुः ॥

सापि देवी गिरौ तत्र गत्वा चैवार्बुदे नृप

॥२०॥

गुहामध्यं समासाद्य नित्यं जगद्धिताय वै ॥

विविक्ते न्यवसत्प्रीता दुर्ल्लभा सुरमानवैः

॥२१॥

यस्तां पश्यति राजेन्द्र शुक्लाष्टम्यां समाहितः ॥

अभीष्टं स सदाप्नोति यद्यपि स्यात्सुदुर्ल्लभम्

॥२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कात्यायनीमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥