उद्दालकेश्वरमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ लिंगं पापहरं परम् ॥
उद्दालकेन मुनिना स्थापितं लोकविश्रुतम्
॥१॥तस्मिन्स्पृष्टेऽथ वा दृष्टे पूजिते च विशेषतः ॥
सर्वरोग विनिर्मुक्तो गार्हस्थ्यं प्राप्नुयान्नरः
॥२॥सर्वपापविनिर्मुक्तः शिवलोके महीयते
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड उद्दालकेश्वरमाहात्म्यवर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥