मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४१

3
प्रभासखण्डः · अर्बुदखण्डः · 41

ततो गच्छेन्नृपश्रेष्ठ मार्कंडेयस्य चाश्रमम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ मार्कंडेयस्य चाश्रमम् ॥

यत्र पूर्वं तपस्तप्तं मार्कंडेन महात्मना

॥१॥

मृकण्डो ब्राह्मणोनाम पुराऽऽसीच्छंसितव्रतः ॥

अन्ते वयसि संजातस्तस्य पुत्रोऽतिसुन्दरः

॥२॥

सर्वलक्षणसंपूर्णः शांतः सूर्यसमप्रभः ॥

कस्यचित्त्वथ कालस्य तस्याश्रमपदे नृप

॥३॥

आगतो ब्राह्मणो ज्ञानी कश्चित्सामुद्रविच्छुभः ॥

ततोऽसौ क्रीडमानस्तु बालकः पंचवार्षिकः

॥४॥

आनासाग्रशिखाग्राभ्यां चिरं चैवावलोकितः ॥

ततोऽहसत्स सहसा तं मृकण्डो ह्यलक्षयत्

॥५॥

अथाऽब्रवीच्चिरं दृष्टस्त्वया पुत्रो मम द्विज ॥

ततो हसितवान्भूयः किमिदं कारणं वद

॥६॥

असकृत्स मृकण्डेन यावत्पृष्टो द्विजोत्तमः ॥

उपरोधवशात्तस्मै यथार्थं संन्यवेदयत्

॥७॥

अस्य बालस्य चिह्नानि यानि काये द्विजोत्तम ॥

अजरश्चामरश्चैव तैर्भवेत्पुरुषः किल

॥८॥

षण्मासेनास्य बालस्य नूनं मृत्युर्भविष्यति ॥

एतस्मात्कारणाद्धास्यं मयाऽकारि द्विजोत्तम ॥

अनृतं नोक्तपूर्वं मे वैरिष्वपि कदाचन

॥९॥

पुलस्त्य उवाच

एवमुक्त्वा तु स ज्ञानी उषित्वा तत्र शर्वरीम् ॥

मृकंडेनाभ्यनुज्ञात इष्टं देशं जगाम ह

॥१०॥

मृकंडोपि सुतं ज्ञात्वा ततः क्षीणायुषं नृप ॥

पंचवार्षिकमप्यार्त्तश्चकारोपनयान्वितम्

॥११॥

श्रुताध्ययनसंपन्नं यंयं पश्यसि चाग्रतः ॥

तस्याभिवादनं कार्यं त्वया पुत्रक नित्यशः

॥१२॥

ततश्चक्रे ब्रह्मचारी पितुर्वाक्यं विशेषतः

॥१३॥

बालं वृद्धं युवानं च यंयं पश्यति चक्षुषा ॥

नमस्करोति तं सर्वं ब्राह्मणं विनयान्वितः

॥१४॥

कस्यचित्त्वथ कालस्य तस्याश्रमसमीपतः ॥

सप्तर्षयः समायातास्तीर्थयात्रापरायणाः

॥१५॥

अथ तान्सत्वरं गत्वा वंदयामास पार्थिव ॥

बालः सविनयोपेतः सर्वांश्चैव यथाक्रमम्

॥१६॥

दीर्घायुर्भव तैरुक्तः स बालस्तुष्टितत्परैः ॥

आस्थिताश्च यथाभीष्टं देशं बालं विसर्ज्य तम्

॥१७॥

तेषां मध्येंऽगिरानाम दिव्यज्ञानसमन्वितः ॥

तेनावलोकितो बालः सूक्ष्मदृष्ट्या परंतप

॥१८॥

अथ तानब्रवीत्सर्वान्मुनीन्किंचित्सविस्मयः ॥

दीर्घायुर्न च बालोऽयं युष्माभिः संप्रकीर्तितः

॥१९॥

गमिष्यति कुमारोऽयं निधनं पंचमे दिने ॥

तन्न युक्तं हि नो वाक्यमसत्यं द्विजसत्तमाः

॥२०॥

यथाऽयं चिरजीवी स्यात्तथा नीतिर्विधीयताम् ॥

अथ ते मुनयो भीता मिथ्या वाक्यस्य पार्थिव

॥२१॥

बालकं तं समादाय ब्रह्मलोकं गतास्तदा ॥

तत्र दृष्ट्वा चतुर्वक्त्रं नमश्चक्रुर्मुनीश्वराः

॥२२॥

तेषामनंतरं तेन बालके नाभिवादितः ॥

दीर्घायुर्भव तेनाऽपि ब्रह्मणोक्तः स बालकः

॥२३॥

ततः सप्तर्षयो हृष्टाः स्वचित्ते नृपसत्तम ॥

सुखासीनान्सविश्रांतानब्रवीन्मुनिपुंगवान्

॥२४॥

ब्रह्मोवाच

परिपृच्छत किं कार्यं कुतो यूयमिहागताः

॥२५॥

ऋषय ऊचुः

तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ॥

अर्बुदं पर्वतं नाम तस्य तीर्थेषु वै गताः

॥२६॥

अथागत्य द्रुतं दूराद्बालेनानेन वंदिताः ॥

दीर्घायुर्भव संदिष्टस्ततश्चायमनेकधा ॥

पंचमे दिवसेऽस्यापि मृत्युर्देव भविष्यति

॥२७॥

यथा वयं त्वया सार्द्धमसत्या न चतुर्मुख ॥

भवामोऽस्य कृते देव तथा किंचिद्विधीयताम्

॥२८॥

अथ ब्रह्मा प्रहृष्टात्मा दृष्ट्वा तं मुनिदारकम् ॥

मत्प्रसादादयं बालो भावी कल्पायुरब्रवीत्

॥२९॥

ततस्ते मुनयो हृष्टास्तमादाय गृहं प्रति ॥

प्रस्थिता ब्रह्मलोकात्तु नमस्कृत्वा चतुर्मुखम्

॥३०॥

अथ तस्य पिता तत्र मृकंडो मुनिसत्तमः ॥

ततो भार्यासमायुक्तो विललाप सुदुःखितः

॥३१॥

हा पुत्रपुत्र करुणं रुदित्वा धर्मवत्सलः ॥

अनामंत्र्य च मां कस्माद्दीर्घं पंथानमाश्रितः

॥३२॥

अकृत्वापि क्रियाः कार्याः कथं मृत्युवशं गतः ॥

सोऽहं त्वया विना पुत्र न जीवामि कथंचन

॥३३॥

एवं विलपतस्तस्य बहुधा नृपसत्तम ॥

बालश्चाभ्यागतस्तत्र यत्र देशे पुरा स्थितः

॥३४॥

अथासौ प्रययौ बालः प्रहृष्टेनांतरात्मना ॥

तं दृष्ट्वा पथि तातश्च संप्रहृष्टो बभूव ह

॥३५॥

पप्रच्छांकं समारोप्य चिरागमन कारणम् ॥

ततः स कथयामास सर्वं मुनिविचेष्टितम् ॥

दर्शनं ब्रह्मलोकस्य पद्मयोनेर्वरं तथा

॥३६॥

बालक उवाच

अजरश्चामरश्चाहं कृतस्तात स्वयंभुवा ॥

तस्मात्सत्यं मदर्थे ते व्येत्वसौ मानसो ज्वरः

॥३७॥

सोऽहमाराधयिष्यामि तथैव चतुराननम् ॥

कृत्वाऽऽश्रमपदं रम्यमर्बुदे पर्वतोत्तमे

॥३८॥

अमृतस्रावि तद्वाक्यं श्रुत्वा पुत्रस्य स द्विजः ॥

मृकंडो हर्षसंयुक्तो वाचमित्यब्रवीच्च तम्

॥३९॥

मार्क्कंडोऽपि द्रुतं गत्वा रम्य मर्बुदपर्वतम् ॥

तपस्तेपे सुविस्तीर्णं ध्यायन्देवं पितामहम्

॥४०॥

तस्याश्रमपदे पुण्ये श्रावणे मासि पार्थिव ॥

पौर्णमास्यां विशेषेण यः कुर्यात्पितृतर्पणम् ॥

पितृमेधफलं तस्य सकलं स्यादसंशयम्

॥४१॥

ऋषियोगेन यस्तत्र तर्पयेद्ब्राह्मणोत्तमान् ॥

ब्रह्मलोके चिरं वासस्तस्य संजायते नृप

॥४२॥

यः स्नानं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः ॥

नाल्पमृत्युभयं तस्य कुले क्वापि प्रजायते

॥४३॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्ड तृतीयेऽर्बुदखण्डे मार्कंडेयाश्रमपदोत्पत्तिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥