ततो गच्छेन्नृपश्रेष्ठ कपिलातीर्थमुत्तमम्
पौलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ कपिलातीर्थमुत्तमम् ॥
यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः
॥१॥पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा ॥
नित्यं च मृगयाशीलो मृगाणामहिते रतः
॥२॥न तथा स्त्रीषु नो भोगे नाश्वयाने न वारणे ॥
तस्याभूदनुरागश्च यथा मृगविमर्द्दने
॥३॥स कदाचिन्नृपश्रेष्ठ मृगासक्तोऽर्बुदं गतः ॥
अपश्यत्सानुदेशे च मृगीं शिशुसमावृताम्
॥४॥स्तनं धयन्तीं सुस्निग्धां शिशोः क्षीरानुरागिणः ॥
सा तेन विद्धा बाणेन सहसा नतपर्वणा
॥५॥अथ सा पार्थिवं दृष्ट्वा प्रगृहीतशरासनम् ॥
द्वितीयं योजयानं च मृगी बाणं सुनिर्मलम्
॥६॥ततः सा कोपसन्तप्ता भूपालं प्रत्यभाषत ॥
नायं धर्मः स्मृतः क्षात्त्रो यस्त्वयाद्य निषेवितः
॥७॥शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः ॥
न हंतव्यो मृगो राजन्मृगी च शिशुना वृता
॥८॥तदद्य मरणं जातं मम सर्वं नृपाधम ॥
तव बाणं समासाद्य पुत्रस्य च मया विना
॥९॥यस्मादहमधर्मेण हता भूमिपते त्वया ॥
तस्मादत्रैव सानौ त्वं रौद्रव्याघ्रो भविष्यसि
॥१०॥पुलस्त्य उवाच
तच्छ्रुत्वा सुमहत्पापं स नृपो भयसंकुलम् ॥
तां वै प्रसादयामास प्राणशेषां तदा मृगीम्
॥११॥अविवेकान्मया भद्रे हता त्वं निर्घृणेन च ॥
कुरु शापविमोक्षं त्वं तस्माद्दीनस्य सन्मृगि
॥१२॥मृग्युवाच
यदा तु कपिलां नाम द्रक्ष्यसे त्वं पयस्विनीम् ॥
धेनुं तया समालापात्प्रकृतिं यास्यसे पुनः
॥१३॥एवमुक्त्वा मृगी राजाग्रतः प्राणैर्व्ययुज्यत ॥
पीडिता शरघातेन पुत्रस्नेहाद्विशेषतः
॥१४॥अथाऽसौ पार्थिवः सद्यो रौद्रास्यः समजायत ॥
व्याघ्रो दशकरालश्च तीक्ष्णदन्तनखस्तथा ॥
भक्षयामास तां सेनामात्मीयां क्रोधमूर्च्छितः
॥१५॥ततस्ते सैनिका राजन्हतशेषाः सुदुःखिताः ॥
स्वगृहाणि ययुस्तत्र यथा वृत्तं जने पुरे
॥१६॥निवेदयन्तो वृत्तांतं चत्वरेषु त्रिकेषु च ॥
यथा वै व्याघ्रतां प्राप्तः स राजाऽर्बुदपर्वते
॥१७॥तच्छ्रुत्वा वचनं तस्य पुत्रं भूरिपराक्रमम् ॥
राज्येऽभिषेचयामासु नाम्ना ख्यातं महौजसम्
॥१८॥कस्यचित्त्वथ कालस्य तस्मिन्सानौ नृपोत्तम ॥
तृषार्तं गोकुलं प्राप्तं गोपगोपीसमाकुलम्
॥१९॥तत्रैका गौः परिभ्रष्टा स्वयूथात्तृणतृष्णया ॥
कपिलेति च विख्याता स्वयूथस्याग्रगामिनी
॥२०॥अच्छिन्नाग्रतृणं या तु सदा भक्षयते नृप ॥
अथ सा गह्वरं प्राप्ता गिरेः शून्यं भयंकरम्
॥२१॥तत्राससाद तां व्याघ्रो दंष्ट्रोत्कटमुखावहः ॥
सा तं दृष्टवती पापं त्रासमाप मृगीव हि
॥२२॥स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम् ॥
दुःखेन रुदतीं तां स दृष्ट्वोवाच मृगाधिपः
॥२३॥व्याघ्र उवाच
किं वृथा रुद्यते धेनो मां प्राप्य न हि जीवितम् ॥
विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः
॥२४॥कपिलोवाच
स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन ॥
पुत्रो मे बालको गोष्ठ्यां क्षीरपायी प्रतीक्षते
॥२५॥नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा ॥
रोद्मि व्याघ्र सुतस्नेहात्सत्येनात्मानमालभे
॥२६॥पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम् ॥
पुनः प्रत्यागमिष्यामि यदि त्वं मन्यसे विभो
॥२७॥व्याघ्र उवाच
गत्वा स्वसुतसांनिध्यं दृष्ट्वात्मीयं च गोकुलम् ॥
पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम्
॥२८॥भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम् ॥
तस्मात्प्राणभयान्न त्वमागमिष्यसि धेनुके
॥२९॥कपिलो वाच
शपथैरागमिष्यामि सत्यमेतच्छृणुष्व मे ॥
प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप
॥३०॥व्याघ्र उवाच
ब्रूहि ताञ्छपथान्भद्रे समागच्छसि यैः पुनः ॥
ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा
॥३१॥कपिलोवाच
वेदाध्ययनसंपन्नं ब्राह्मणं वंचयेत्तु यः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३२॥गुरुद्रोहरतानां च यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३३॥यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३४॥मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३५॥यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३६॥कूपारामतडागानां यो भंगं कुरुत नरः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३७॥कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३८॥मद्यमांसरतानां च यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥३९॥राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४०॥वेदविक्रयकर्तॄणां यत्पापं संप्रजायते ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४१॥दीयमानं द्विजातीनां निवारयति योऽल्पधीः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४२॥विश्वस्तघातकानां च यत्पापं समुदाहृतम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४३॥द्विजद्वेषरतानां हि यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४४॥परवादरतानां च पापं यच्च दुरात्मनाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४५॥रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४६॥वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
॥४७॥पुलस्त्य उवाच
स तस्याः शपथाञ्छ्रुत्वा विस्मयोत्फुल्ललोचनः ॥
प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत्
॥४८॥व्याघ्र उवाच
गच्छ त्वं गोकुले भद्रे पुनरागमनं कुरु ॥
न चैतदवगंतव्यं यदयं वञ्चितो मया
॥४९॥कपिले गच्छ पश्य त्वं तनयं सुतवत्सले ॥
पाययित्वा स्तनं पूर्णमवघ्राय च मूर्धनि
॥५०॥मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान् ॥
सत्यमेवाग्रतः कृत्वा नान्यथा कर्तुमर्हसि
॥५१॥पुलस्त्य उवाच
साऽनुज्ञाता मृगेन्द्रेण कपिला पुत्रवत्सला ॥
अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति
॥५२॥वेपमाना भयोद्विग्ना शोकसागरमध्यगा ॥
करिणीव हि रौद्रेण हरिणा सा बलीयसा ॥
ततः स्वगोकुलं प्राप्ता रभमाणा मुहुर्मुहुः
॥५३॥तस्याः शब्दं ततः श्रुत्वा ज्ञात्वा वत्सः स्वमातरम् ॥
सम्मुखः प्रययौ तूर्णमूर्द्ध्वपुच्छः प्रहर्षितः
॥५४॥अकालागमनं तस्या रौद्रं भंभारवं तथा ॥
दृष्ट्वा श्रुत्वा च वत्सोऽसौ शंकितः परिपृच्छति
॥५५॥वत्स उवाच
न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यमे ॥
किमर्थमन्यवेलायां समायाता वदस्व मे
॥५६॥कपिलोवाच
पिब पुत्र स्तनं पश्चात्कारणं चापि मे शृणु ॥
आगताऽहं तव स्नेहात्कुरु तृप्तिं यथेप्सिताम्
॥५७॥अपश्चिममिदं पुत्र दुर्लभं मातृदर्शनम् ॥
मयाऽद्य पुत्र गंतव्यं शपथैरागता यतः
॥५८॥व्याघ्रस्य कामरूपस्य दातव्यं जीवितं मया ॥
तेनाहं शपथैर्मुक्ता कारणात्तव पुत्रक
॥५९॥मयाऽद्य तत्र गंतव्यं मृगराजसमीपतः ॥
यदा च शपथैः पुत्र दास्यामि च कलेवरम्
॥६०॥वत्स उवाच
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि ॥
श्लाघ्यं हि मरणं मेऽद्य त्वया सह न संशयः
॥६१॥एकाकिनाऽपि मर्त्तव्यं यस्मान्मया त्वया विना ॥
यदि मां सहितं तत्र त्वया व्याघ्रो वधिष्यति
॥६२॥या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति ॥
तस्मादवश्यं यास्यामि त्वया सह न संशयः
॥६३॥अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव ॥
तव स्थाने प्रयास्यामि मातस्त्वं यदि मन्यसे
॥६४॥जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम् ॥
नास्ति मातृसमः कश्चिद्बालानां क्षीरजीविनाम्
॥६५॥नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥
ये मातृनिरताः पुत्रास्ते यांति परमां गतिम्
॥६६॥कपिलोवाच
ममैव विहितो मृत्युर्न ते पुत्रक सांप्रतम् ॥
न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः
॥६७॥अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम् ॥
शृणुष्वावहितो भूत्वा परिणामसुखावहम्
॥६८॥वने चर सदा वत्स अप्रमादपरो भव ॥
प्रमादात्सर्वभूतानि विनश्यंति न संशयः
॥६९॥न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् ॥
लोभाद्विनाशो जंतूनामिह लोके परत्र च
॥७०॥समुद्रमटवीं युद्धं विशंते लोभमोहिताः ॥
लोभादि कार्यमत्युग्रं कुर्वंति त्याज्य एव सः
॥७१॥लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः ॥
तस्माल्लोभो न कर्त्तव्यो न प्रमादो न विश्वसेत्
॥७२॥आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः ॥
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छेभ्यस्तस्करादितः
॥७३॥तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने ॥
न च शोकस्त्वया कार्यः सर्वेषां मरणं धुवम्
॥७४॥अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम् ॥
यथा हि पथिकः कश्चिच्छायार्थी वृक्षमास्थितः ॥
विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः
॥७५॥पुलस्त्य उवाच
एवं संभाष्य तं वत्समवघ्राय च मूर्द्धनि ॥
स्वमातरं सखीवर्गं ततो द्रष्टुं समागता
॥७६॥अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता ॥
अंबाः शृणुत मे वाक्यमपश्चिममिदं स्फुटम्
॥७७॥अनाथमबलं दीनं फेनपं मम पुत्रकम् ॥
मातृशोकाभिसंतप्तं सर्वास्तं पालयिष्यथ
॥७८॥भाविनीनामयं पुत्रः सांप्रतं च विशेषतः ॥
स्नपनीयः पायितव्यः पोष्यः पाल्यः स्वपुत्रवत्
॥७९॥चरंतं विषमे स्थाने चरंतं परगोकुले ॥
अकार्येषु प्रवर्तंतं हे सख्यो वारयिष्यथ
॥८०॥क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात् ॥
यत्राऽसौ तिष्ठते व्याघ्रो मुक्ताऽहं येन सांप्रतम्
॥८१॥सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः ॥
विषादं परमं गत्वा वाक्यमूचुः सुदुःखिताः
॥८२॥कपिले नैव गंतव्यं न ते दोषो भविष्यति ॥
प्राणात्यये न दोषोऽस्ति संपराये च दारुणे
॥८३॥अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः ॥
प्राणात्यये समुत्पन्ने शपथे नास्ति पातकम्
॥८४॥कपिलोवाच
प्राणिनां प्राण रक्षार्थं वदाम्येवानृतं वचः ॥
नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित्
॥८५॥अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
॥८६॥तस्मान्नानृतमात्मानं करिष्ये जीविताशया ॥
आज्ञापयतु मामार्या यास्ये यत्र मृगाधिपः
॥८७॥वयस्या ऊचुः
कपिले त्वं नमस्कार्या सर्वैरपि सुरासुरैः ॥
यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान्
॥८८॥अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन ॥
प्रमाणं यदि सत्यं हि व्रज पंथाः शिवोऽस्तु ते
॥८९॥पुलस्त्य उवाच
एवमुक्ता च कपिला गता यत्र मृगाधिपः ॥
अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥
अब्रवीत्प्रश्रितं वाक्यं हर्षगद्गदया गिरा
॥९०॥व्याघ्र उवाच
स्वागतं तव कल्याणि कपिले सत्यवादिनि ॥
नहि सत्यवतां किंचिदशुभं विद्यते क्वचित्
॥९१॥त्वयोक्तं कपिले पूर्वं शपथैरागमाय च ॥
तेन मे कौतुकं जातं याताऽऽगच्छेत्पुनः कथम्
॥९२॥तस्माद्गच्छ मया मुक्ता यत्राऽसौ तनयस्तव ॥
तिष्ठते गोकुले बद्धः क्षीरपायी सुदुःखितः
॥९३॥पुलस्त्य उवाच
एतस्मिन्नेव काले तु स राजा प्रकृतिं गतः ॥
मृगीशापेन निर्मुक्तो दिव्यरूपवपुर्धरः ॥
ततोऽब्रवीत्प्रहृष्टात्मा कपिलां सत्यवादिनीम्
॥९४॥राजोवाच
प्रसादात्तव मुक्तोऽहं शापादस्मात्सुदारुणात् ॥
किं ते प्रियं करोम्यद्य धेनुके ब्रूहि सत्वरम्
॥९५॥कपिलोवाच
कृतकृत्याऽस्मि राजेन्द यत्त्वं मुक्तोऽसि किल्बिषात् ॥
पिपासा बाधतेत्यर्थं सांप्रतं जलमानयम्
॥९६॥नैवानृतं विजानीहि सत्यमेतन्मयोदितम्
॥९७॥पुलस्त्य उवाच
अथासौ पार्थिवो हस्ते चापमादाय सत्वरम् ॥
सज्यं कृत्वा शरं गृह्य जघान धरणीतलम्
॥९८॥ततः सलिलमुत्तस्थौ निर्मलं शीतलं शुभम् ॥
तत्र सा कपिला स्नात्वा वितृषा समपद्यत
॥९९॥एतस्मिन्नन्तरे धर्मः स्वयं तत्र समागतः ॥
अब्रवीत्कपिलां हृष्टो वरं वरय शोभने
॥१००॥तव सत्येन तुष्टोऽहं नास्ति ते सदृशी क्वचित् ॥
त्रैलोक्ये सकले धेनुर्न भविष्यति वै शुभे
॥१०१॥कपिलोवाच
प्रसादात्तव गच्छेय सह राज्ञा सगोकुला ॥
सुप्रभेण पदं दिव्यं जरामरणवर्जितम्
॥१०२॥मन्नाम्ना ख्यातिमायातु पुण्यमेतज्जलाशयम् ॥
सर्वपापहरं नृणां सर्वकामप्रदं तथा
॥१०३॥धर्म उवाच
येऽत्र स्नानं करिष्यंति सुपुण्ये सलिले शुभे ॥
चतुर्द्दश्यां विशेषेण ते यास्यंति परां गतिम्
॥१०४॥तव नाम्ना सुपुण्यं हि तीर्थमेतद्भविष्यति ॥
दर्शमुद्दिश्य मर्त्यस्तु प्राप्स्यते गोसहस्रकम् ॥
स्नानाल्लक्षगुणं दानात्पुण्यं चैव तथाऽक्षयम्
॥१०५॥येऽत्र श्राद्धं करिष्यंति मानवाः सुसमाहिताः ॥
सर्वदानफलं तेषां भुक्तिमुक्ती महात्मनाम्
॥१०६॥अपि कीटपतंगा ये तृषार्ताः सलिले शुभे ॥
मज्जयिष्यति यास्यंति तेऽपि स्थानं दिवौकसाम्
॥१०७॥किं पुनर्भक्तिसंयुक्ता मानवाः सत्यवादिनः ॥
मनस्विनो महाभागाः श्रद्धावंतो विचक्षणाः
॥१०८॥पुलस्त्य उवाच
एतस्मिन्नेव काले तु विमानानि सहस्रशः ॥
समायातानि राजेंद्र कपिलायाः प्रभावतः
॥१०९॥तान्यारुह्याथ कपिला गोपगोकुलसंकुला ॥
सुप्रभेण समायुक्ता तत्पदं परमं गता
॥११०॥तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
श्राद्धं चैवात्मनः शक्त्या दानं पार्थिवसत्तम
॥१११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कपिलातीर्थमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥