नागतीर्थमाहात्म्यवर्णनम्
ऋषय ऊचुः
अर्बुदस्य च माहात्म्यं विस्तरेण वदस्व नः ॥
कौतुकं सूत नो जातं कथयस्व यथा शुभम्
॥१॥सूत उवाच
पुरासीच्च ऋषिश्रेष्ठः पुलस्त्यो भगवान्मुनिः ॥
ययातेश्च गृहे यातस्तं नत्वा चाब्रवीन्नृपः
॥२॥ययातिरुवाच
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्यजीवितम् ॥
कथयस्व प्रसादेन कथामर्बुदसंभवाम्
॥३॥अर्बुदाख्यो नगो नाम विख्यातो यो धरातले ॥
तस्य यात्राक्रमं ब्रूहि तत्फलं द्विजसत्तम
॥४॥सर्वं विस्तरतो ब्रूहि तीर्थयात्रापरायण ॥
तस्माद्वद मुनिश्रेष्ठ येन यात्रां करोम्यहम्
॥५॥पुलस्त्य उवाच
बहुधर्ममयो राजन्नर्बुदः पर्वतोत्तमः ॥
अशक्तो विस्तराद्वक्तुमपि वर्षशतैरपि
॥६॥संक्षेपादेव वक्ष्यामि तीर्थमुख्यानि ते तथा ॥
नागतीर्थं तु तत्राद्यं सर्वकामप्रदं नृणाम्
॥७॥नारीणां च विशेषेण पुत्रसौभाग्यदायकम् ॥
शृणु राजन्पुरावृत्तं यतोऽत्याश्चर्यमुत्तमम्
॥८॥गौतमी ब्राह्मणी नाम्ना सती साध्वी पतिव्रता ॥
बालवैधव्यसंप्राप्ता तीर्थयात्रापरायणा
॥९॥अर्बुदं सा च संप्राप्ता नागतीर्थं विवेश ह ॥
तस्मिञ्जले निमग्ना सा स्नातुमभ्याययौ पुरा
॥१०॥नायका पुत्रसंयुक्ता तत्तीर्थं समुपागता ॥
शुश्रूषां सा तस्तस्याश्चक्रे नानाविधां नृप
॥११॥सर्वोपकरणैर्दर्भैः सुमनोभिः पृथग्विधैः ॥
अथ सा चिंतयामास गौतमी पुत्रदुःखिता
॥१२॥धन्योऽयं तनयो ह्यस्याः शुश्रूषां कुरुते सदा ॥
पुत्रयुक्ता त्वियं धन्या धिगहं पुत्रवर्जिता
॥१३॥अहं भर्त्रा वियुक्ता च पुत्रहीना सुदुःखिता ॥
अथ सा निर्गता तस्मात्सलिलान्नृपसत्तम
॥१४॥विनाऽपि भर्तृसंयोगात्सद्यो गर्भवती ह्यभूत् ॥
सा गर्भलक्षणैर्युक्ता सुजनव्रीडयाऽन्विता
॥१५॥चकार मरणे बुद्धिं ज्वालयामास पावकम् ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी
॥१६॥वागुवाच
नो त्वं गौतमि चित्याग्नौ प्रवेशं कर्तुमर्हसि ॥
दोषो नास्ति तवात्रार्थे तीर्थस्यास्य प्रभावतः
॥१७॥यो यद्वांछति चित्ते च जलमध्ये स्थितो नरः ॥
चिन्तितं च तदाप्नोति नारी वा नात्र संशयः
॥१८॥त्वया तस्याः सुतं दृष्ट्वा पुत्रवांछा कृता हृदि ॥
तव गर्भगतो नूनं पुत्रः पुत्रि भविष्यति
॥१९॥तस्माद्विरम भद्रं ते निर्दोषासि पतिव्रते ॥
विरराम ततः साध्वी गौतमी मरणान्नृप
॥२०॥श्रुत्वाऽऽकाशगतां वाणीं देवदूतेन भाषिताम् ॥
दृष्ट्वा पतिं विना गर्भं वाक्यमेत दुवाच ह
॥२१॥अहो तीर्थप्रभावोऽयमपूर्वः प्रतिभाति मे ॥
यत्र संजायते गर्भः स्त्रीणां शुक्ररजोविना
॥२२॥नाहं कुत्रापि यास्यामि मुक्त्वेदं तीर्थमुत्तमम् ॥
एवमुक्त्वा ततः साध्वी तत्रैव न्यवसत्सदा
॥२३॥पुत्रं वै जनयामास सर्वलक्षणलक्षितम् ॥
तत्र पार्थिवशार्दूल कृष्णपक्षे ऽश्विनस्य च
॥२४॥यः पुनः कुरुते श्राद्धं तस्य वंशो न नश्यति ॥
न प्रेतो जायते राजन्वंशे तस्य कदाचन
॥२५॥यः पुमान्कामरहितः स्नानं तत्र समाचरेत् ॥
श्राद्धं च पार्थिवश्रेष्ठ तस्य लोकाः सनातनाः
॥२६॥या स्त्री पुष्पफलान्येव तीर्थे चास्मिन्विसर्जयेत् ॥
सा स्यात्पुत्रवती धन्या सौभाग्यं च प्रपद्यते
॥२७॥निष्कामा स्वर्गमाप्नोति दुष्प्राप्यं त्रिदशैरपि ॥
तस्मात्सर्वप्रयत्नेन यात्रां तस्य समाचरेत्
॥२८॥इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागतीर्थमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥