मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५०

3
प्रभासखण्डः · अर्बुदखण्डः · 50

कोटितीर्थप्रभाववर्णनम्

पुलस्त्य उवाच

कोटितीर्थं ततो गच्छेत्सर्वपातकनाशनम् ॥

तीर्थानां यत्र संजाता कोटिः पार्थिव हेलया

॥१॥

यदा स्यात्कलिकालस्तु रौद्रो राजन्महीतले ॥

म्लेच्छभूता जनाः सर्वे तत्स्पर्शात्तीर्थविप्लवः

॥२॥

तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां भूमिवासिनाम् ॥

तेषां कोटिस्ततोऽवात्सीत्पर्वतेऽर्बुदसंज्ञके

॥३॥

पुष्करे च तथा कोटिः कुरुक्षेत्रे च पार्थिव ॥

वाराणस्यामर्धकोटिः स्तुता देवैः सवासवैः ॥

राजन्नेतानि रक्षंति सर्वे देवाः सवासवाः

॥४॥

यदा यदा भयार्त्तानि म्लेच्छस्पर्शात्समंततः ॥

स्थानेष्वेतेषु तिष्ठंति तीर्थान्युक्तेषु सत्वरम्

॥५॥

कोटितीर्थानि त्रीण्येव तत्र जातानि भूतले ॥

अर्ध कोटिसमेतानि सर्वपापहराणि च

॥६॥

तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥

कृष्णपक्षे त्रयोदश्यां नभस्ये च विशेषतः

॥७॥

तत्र स्नानादिकं सर्वं जपहोमादिकं च यत् ॥

सर्वं कोटिगुणं राजंस्तत्प्रसादादसंशयम्

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कोटितीर्थप्रभाववर्णनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥