मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय २५

3
प्रभासखण्डः · अर्बुदखण्डः · 25

पिंडारकतीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततः पिंडारकं गच्छेत्तीर्थं पापहरं नृप ॥

यत्र पूर्वं तपस्तप्तं मंकिना ब्राह्मणेन च ॥

सिद्धिं गतस्तथा राजंस्तीर्थस्यास्य प्रभावतः

॥१॥

पुरा मंकिरभूद्विप्रो नाममात्रेण भूपते ॥

मूर्खो ब्राह्मणकृत्यानामनभिज्ञः सुमन्दधीः

॥२॥

अथासौ पर्वते रम्ये लोकानां नृपसत्तम ॥

महिषी रक्षयामास ततः पिंडारकर्मणि

॥३॥

कस्यचित्त्वथ कालस्य तेन वित्तमुपार्जितम् ॥

दूरात्कृच्छ्रेण च स्तोकं जगृहे गोयुगं ततः

॥४॥

ततस्तद्दमयामास गोयुगं नृपसत्तम ॥

अथ दैववशाद्राजन्दमितं तस्य गोयुगम्

॥५॥

निबद्धमुष्ट्रमासाद्य ग्रीवादेशे बलात्स्थितम् ॥

अथोष्ट्रस्त्वरया राजन्नुत्थितस्त्रासतत्परः

॥६॥

गोयुगेन हि ग्रीवायां लम्बमानेन भूपते ॥

तद्दृष्ट्वा सुमहाश्चर्यं विनाशं गोयुगस्य तु

॥७॥

मंकिर्वैराग्यमापन्नस्त्यक्त्वा ग्रामं वनं ययौ ॥

स गत्वा निर्झरं कञ्चिदर्बुदे नृपसत्तम

॥८॥

त्रिकालं कुरुते स्नानं गायत्रीजपमुत्तमम् ॥

तेनासौ गतपापोऽभूद्दिव्यदर्शी च भूमिप

॥९॥

एतस्मिन्नेव काले तु तेन मार्गेण शंकरः ॥

सह गौर्या विनिष्क्रांतः क्रीडार्थं रम्यपर्वते

॥१०॥

स दृष्टः सहसा तेन पिंडारेण महात्मना ॥

प्रणाममकरोद्राजंस्ततस्तं शंकरोऽब्रवीत्

॥११॥

न वृथा दर्शनं मे स्याद्वरो मे गृह्यतां द्विज ॥

यदभीष्टं महाराज यद्यपि स्यात्सुदुर्लभम्

॥१२॥

पिंडारक उवाच

गणोऽहं तव देवेश भवानि त्रिपुरांतक ॥

यथा तथा कुरु विभो नान्यन्मे हृदि वर्तते

॥१३॥

एतत्पिण्डारकं तीर्थ मम नाम्ना प्रसिध्यतु

॥१४॥

भगवानुवाच

भविष्यसि गणोऽस्माकं देहांते त्वं द्विजोत्तम ॥

एतत्पिंडारकंनाम तीर्थमत्र भविष्यति

॥१५॥

अहमत्र महाष्टम्यां निवेक्ष्यामि महामते ॥

ये च स्नानं करिष्यंति संप्राप्ते चाष्टमीदिने ॥

ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः

॥१६॥

पुलस्त्य उवाच

एवमुक्त्वा महादेवस्तत्रैवांतरधीयत ॥

मंकिः पिंडारकस्तत्र तपस्तेपे दिवानिशम्

॥१७॥

ततः कालेन महता त्यक्त्वा देहं दिवं गतः ॥

यत्रास्ते भगवान्रुद्रो गणस्तत्र बभूव ह

॥१८॥

तस्मात्सर्वप्रयत्नेन स्नानं मन्त्रेण चाचरेत्

॥१९॥

राजेन्द्र महिषीदानमथाष्टम्यां विशेषतः ॥

य इच्छति सदाऽभीष्टमिह लोके परत्र च

॥२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिंडारकतीर्थमाहात्म्यवर्णनंनाम पंचविंशोऽध्यायः ॥ २५ ॥