ईशानीशिखरमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ ईशानीशिखरं महत् ॥
यत्र गौर्या तपस्तप्तं सुपुण्यं लोकविश्रुतम्
॥१॥यस्य संदर्शनेनापि नरः पापात्प्रमुच्यते ॥
लभते चातिसौभाग्यं सप्तजन्मांतराणि च
॥२॥ययातिरुवाच
कस्मिन्काले तपस्तप्तं देव्या तत्र मुनीश्वर ॥
किमर्थं च महत्त्वेतत्कौतुकं वक्तुमर्हसि
॥३॥पुलस्त्य उवाच
शृणु राजन्कथां दिव्यामद्भुतां लोकविश्रुताम् ॥
यस्याः संश्रवणादेव मुच्यते सर्वपातकैः
॥४॥पुरा गौर्या समासक्तं ज्ञात्वा देवाः सवासवाः ॥
मंत्रं चक्रुर्भयाविष्टा एकांते समुपाश्रिताः
॥९॥वीर्यं यदि त्रिनेत्रस्य क्षेत्रे गौर्याः पतिष्यति ॥
अस्माकं पतनं नूनं जगतश्च भविष्यति
॥६॥संततेस्तु विनाशाय ततो गच्छामहे वयम्
॥७॥एवं संमंत्र्य देवास्ते कैलासं पर्वतं गताः ॥
ततस्तु नंदिना सर्वे निषिद्धाः समयं विना
॥८॥नंद्युवाच
एकांते भगवान्रुद्रः सहगौर्या व्यवस्थितः ॥
तस्माद्देवगणाः सर्वे गच्छध्वं निलयं स्वकम्
॥९॥अथ देवगणाः सर्वे वञ्चयित्वा च तं गणम् ॥
प्रैषयंस्तत्र वायुं च गुप्तमूचुर्वचस्त्विदम्
॥१०॥गत्वा वायो भवं ब्रूहि न कार्या संततिस्त्वया ॥
एवं देवगणा देव प्रार्थयंति भयातुराः
॥११॥ततो वायुर्द्रुतं गत्वा स्थितो यत्र महेश्वरः ॥
उच्चैर्जगाद तद्वाक्यं यदुक्तं त्रिदशालयैः
॥१२॥ततस्तु भगवाञ्छर्वो व्रीडया परया युतः ॥
गौरीं त्यक्त्वा समुत्तस्थौ बाढमित्येव चाब्रवीत्
॥१३॥ततो गौरी सुदुःखार्ता शशाप त्रिदशालयान्
॥१४॥गौर्युवाच
यस्मादहं कृता देवैः पुत्रहीना समागतैः ॥
तस्मात्तेऽपि भविष्यन्ति सन्तानेन विवर्ज्जिताः
॥१५॥यस्माद्वायो समायातः स्थानेऽस्मिञ्जनवर्जिते ॥
तस्मात्कायविनिर्मुक्तस्त्वं भविष्यसि सर्वदा
॥१६॥एवमुक्त्वा ततो दीर्घं भर्तुः कोपपरायणा ॥
त्यक्त्वा पार्श्वं गता राजन्नर्बुदं नगसत्तमम्
॥१७॥सुतार्थं सा तपस्तेपे यतवाक्कायमानसा ॥
ततो वर्षसहस्रान्ते देवदेवो महेश्वरः
॥९१८॥इन्द्राद्यैर्विबुधैः सार्द्धं तदंतिकमुपागमत् ॥
अथ शक्रो विनीतात्मा देवीं ता प्रत्यभाषत
॥१९॥एष देवः शिवः प्राप्तस्तव पार्श्वं स्वलज्जया ॥
नायाति तत्प्रसादोऽस्य क्रियता महती भव
॥२०॥देव्युवाच
त्यक्ताऽहं तव वाक्येन पतिना समयान्विता ॥
पुत्रं लब्ध्वा प्रयास्यामि तस्य पार्श्वे सुरेश्वर
॥२१॥तस्यास्तं निश्चयं ज्ञात्वा स्वयं देवः समाययौ ॥
अब्रवीत्प्रहसन्वाक्यं प्रसादः क्रियतामिति
॥२२॥दृष्टिदानेन देवेशि भाषणेन वरानने ॥
मया देवहितं कार्यं सर्वावस्थासु पार्वति
॥२३॥अकाले तेन मुक्ताऽसि निवृत्तिः सुरते कृता ॥
पुत्रार्थं ते समारंभो यतश्चासीत्सुरेश्वरि
॥२४॥तस्मात्ते भविता पुत्रो निजदेहसमुद्भवः ॥
मत्प्रसादादसंदिग्धं चतुर्थे दिवसे प्रिये
॥२५॥निजांगमलमादाय यादृग्रूपं सुरेश्वरि ॥
करिष्यसि न सन्देहस्तादृगेव भविष्यति
॥२६॥सद्यो देवगणानां च दैत्यानां च विशेषतः ॥
तथा वै सर्वमर्त्त्यानां सिद्धिदो बहुरूपधृक्
॥२७॥एवमुक्ता त्रिनेत्रेण परितुष्टा सुरेश्वरी ॥
आलापं पतिना चक्रे सार्द्धं हर्षसमन्विता
॥२८॥चतुर्थे दिवसे प्राप्ते ततः स्नात्वा शिवा नृप ॥
तदोद्वर्त्तनजं लेपं गृहीत्वा कौतुकात्किल ॥
चतुर्भुजं चकाराऽथ हरवाक्याद्विनायकम्
॥२९॥ततः सजीवतां प्राप्य हरवाक्येन तं तदा ॥
विशेषेण महाराज नायकोऽसौ कृतः क्षितौ ॥
सर्वेषां चैव मर्त्यानां ततः ख्यातो बभूव ह
॥३०॥विनायक इति श्रीमान्पूज्यस्त्रैलोक्यवासिनाम् ॥
सर्वेषां देवमुख्यानां बभूव हि विनायकः
॥३१॥ततो देवगणाः सर्वे देवीप्रियहिते रताः ॥
तस्मै ददुर्वरान्दिव्यान्प्रोचुर्देवीं च पार्थिव
॥३२॥देवा ऊचुः
तवायं तनयो देवि सर्वेषां नः पुरःसरः ॥
प्रथमं पूजिते चास्मिन्पूजा ग्राह्या ततः सुरैः
॥३३॥एतच्छृंगं गिरे रम्यं तव संसेवनाच्छुभे ॥
सर्वपापहरं नृणां दर्शनाच्च भविष्यति
॥३४॥येऽत्र स्नानं करिष्यन्ति सुपुण्ये सलिलाश्रये ॥
ते यांस्यंति परं स्थानं जरामरणवर्जितम्
॥३५॥माघमासे तृतीयायां शुक्लायां ये समाहिताः ॥
सप्तजन्मांतराण्येव भविष्यन्ति सुखान्विताः
॥३६॥एवमुक्त्वा सुराः सर्वे स्वस्थानं तु ततो गताः ॥
देवोऽपि सहितो देव्या कैलासं पर्वतं गतः
॥३७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड ईशानीशिखरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥