मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५१

3
प्रभासखण्डः · अर्बुदखण्डः · 51

ततो गच्छेन्नृपश्रेष्ठ चंद्रोद्भेदमनुत्तमम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ चंद्रोद्भेदमनुत्तमम् ॥

तीर्थं पापहरं नृणां निशानाथेन निर्मितम्

॥१॥

प्रतिज्ञातं यदा राजन्ग्रहणे चंद्रसूर्ययोः ॥

राहुणा कृतवैरेण च्छिन्ने शिरसि विष्णुना

॥२॥

तदा भयान्वितश्चन्द्रो मत्वा दैत्यं दुरासदम् ॥

पीयूषभक्षणोद्युक्तं ततश्चार्बुदमभ्यगात्

॥३॥

तत्र भित्त्वा गिरेः शृंगे कृत्वा विवरमुत्तमम् ॥

प्रविष्टस्तस्य मध्ये तु तपस्तेपे सुदुश्चरम्

॥४॥

ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥

अब्रवीद्वृणु भद्रं ते वरं यत्ते हृदिस्थितम्

॥५॥

चंद्र उवाच

प्रतिज्ञातं सुरश्रेष्ठ राहुणा ग्रहणं मम ॥

बलवानेष दुर्धर्षः प्रकृत्या सिंहिकासुतः

॥६॥

सांप्रतं भक्षितं तेन पीयूषं सुरसत्तम ॥

अहं मध्ये धृतश्चापि राहुणाऽसौ दुरासदः

॥७॥

पीयमानेऽमृते देव देवैः पूर्वं पराजितैः ॥

दैवतं रूपमास्थाय दानवोऽसौ समागतः

॥८॥

अपिबच्चामृतं राहुस्तेनास्य मृत्युवर्जितम् ॥

अमृतं चाक्षयं जातं शिरो देवभयप्रदम्

॥९॥

ततो देवैः कृतं साम ग्रहमध्ये प्रतिष्ठितः ॥

प्रतिज्ञाते ग्रहेऽस्माकं ततो मे भयमाविशत्

॥१०॥

भयात्तस्य सुरश्रेष्ठ भित्त्वा शृंगं गिरेरिदम् ॥

कृतं श्वभ्रमगाधं च तपोऽर्थं सुरसत्तम ॥

तस्मादत्र प्रसादं मे कुरु कामनिषूदन

॥११॥

भगवानुवाच

अवध्यः सर्वदेवानामजेयः स महाबलः ॥

करिष्यति ग्रहं नूनं राहुः कोपपरायणः ॥

परं तव निशानाथ करिष्येऽहं प्रतिक्रियाम्

॥१२॥

ग्रहणे तव संप्राप्ते स्नानदानादिकाः क्रियाः ॥

करिष्यंति जना लोके सम्यक्छ्रेयःसमन्विताः

॥१३॥

ताभिस्तव न संतापः स्वल्पोऽप्येवं भविष्यति ॥

अक्षयं सुकृतं तेषां कृतं कर्म भविष्यति

॥१४॥

ग्रहणे तव संजाते मम वाक्यादसंशयम् ॥

एतद्भिन्नं त्वया यस्मात्तपोऽर्थं शिखरं गिरेः ॥

चन्द्रोद्भेदमिति ख्यातं तीर्थं लोके भविष्यति

॥१५॥

ग्रहणे तव संप्राप्ते योऽत्र स्नानं करिष्यति ॥

न तस्य पुनरेवात्र जन्म लोके भविष्यति

॥१६॥

यो वा सोमदिने स्नानं दर्शनं तत्र चाचरेत् ॥

तव लोके ध्रुवं वासस्तस्य चंद्र भविष्यति

॥१७॥

एवमुक्त्वा स भगवांस्ततश्चांतर्दधे हरः ॥

चन्द्रोऽपि प्रययौ हृष्टः स्वस्थानं नृपसत्तम

॥१८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥