सिद्धेश्वरमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ देवं सिद्धेश्वरं परम् ॥
सिद्धिदं प्राणिनां सम्यक्सिद्धेन स्थापितं पुरा
॥१॥तत्र विश्वावसुर्नाम सिद्धस्तेपे महातपः ॥
बहुवर्षाणि संस्थाप्य शिवं भक्तिपरायणः
॥२॥जितक्रोधो जितमदो जितसर्वेंद्रियक्रियः ॥
तावद्वर्षसहस्रांते भगवान्वृषभध्वजः ॥
तुतोष नृपतेस्तस्य स्वयं दर्शनमाययौ
॥३॥अब्रवीत्तं महादेवो वरदोस्मीति पार्थिव
॥४॥श्रीभगवानुवाच
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥
दास्यामि ते प्रसन्नोऽहं यद्यपि स्यात्सुदुर्लभम्
॥५॥विश्वावसुरुवाच
एतल्लिंगं सुरश्रेष्ठ ध्यात्वा मनसि निश्चयम् ॥
सर्वान्कामानवाप्नोतु प्रसादात्तव शंकर
॥६॥पुलस्त्य उवाच
एवमस्त्विति स प्रोच्य तत्रैवांतरधीयत ॥
सिद्धेश्वरं ततो गत्वा सिद्धिं याति सहस्रशः
॥७॥प्रभावात्तस्य लिंगस्य कामानिष्टानवाप्नुयुः ॥
ततो धर्मक्रियाः सर्वा गता नाशं धरातले
॥८॥न कश्चिद्यजते यज्ञैर्न दानानि प्रयच्छति ॥
सिद्धेश्वरप्रसादेन सिद्धिं यांति नरा भुवि
॥९॥उच्छिन्नेषु च यज्ञेषु दानेषु नृपसत्तम ॥
इन्द्राद्यास्त्रिदशाः सर्वे परं दुःखमुपागताः
॥१०॥ज्ञात्वा यज्ञविघातं च तद्विघाताय वासवः ॥
वज्रेणाच्छादयामास यथा सिद्धिर्न जायते
॥११॥तथापि संनिधौ तस्य सिद्धेशस्य नृपोत्तम ॥
कर्मणो जायते सिद्धिः पातकस्य परिक्षयः
॥१२॥यस्तु माघचतुर्द्दश्यां सोमवारे नृपोत्तम ॥
शुक्लायां वाथ कृष्णायां स्पृष्ट्वा सिद्धो भवेन्नरः
॥१३॥अद्यापि जायते सिद्धिः सत्यमेतन्मयोदितम् ॥
तस्मात्सिद्धेश्वरं गत्वा नत्वा यास्यति सद्गतिम्
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे सिद्धेश्वरमाहात्म्यवर्णनंनाम चतुर्द्दशोऽध्यायः ॥ १४ ॥