मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ३४

3
प्रभासखण्डः · अर्बुदखण्डः · 34

कृष्णतीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

कृष्णतीर्थं ततो गच्छेत्कृष्णस्य दयितं सदा ॥

यत्र सन्निहितो नित्यं स्वयं विष्णुर्महीपते ॥

ययातिरुवाच ॥

कृष्णतीर्थं कथं तत्र जातं ब्राह्मणसत्तम ॥

कस्मिन्काले मुने ब्रूहि सर्वं विस्तरतो मम

॥२॥

पुलस्त्य उवाच

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे ॥

चंद्रार्कपवने नष्टे ज्योतिषि प्रलयं गते

॥३॥

ततो युगसहस्रांते विबुद्धः कमलासनः ॥

एकाकी चिंतयामास कथं सृष्टिर्भवेदिति

॥४॥

भ्रमंश्चापि चतुर्वक्त्रो यावत्पश्यति दूरतः ॥

चतुर्भुजं विशालाक्षं पुरुषं पुरतः स्थितम्

॥५॥

तं चोवाच चतुर्वक्त्रः कस्त्वं केन विनिर्मितः ॥

किमर्थमिह संप्राप्तः सर्वं विस्तरतो वद

॥६॥

तमुवाचाथ गोविंदः प्रहसञ्छ्लक्ष्णया गिरा

॥७॥

अहमाद्यः पुमानेको मया सृष्टो भवानपि ॥

स्रष्टुमिच्छामि भूयोऽपि भूतग्रामं चतुर्विधम्

॥८॥

पुलस्त्य उवाच

तस्य तद्वचनं श्रुत्वा क्रुद्धो देवः पितामहः ॥

अब्रवीत्परुषं वाक्यं भर्त्सयंश्च पुनःपुनः

॥९॥

सृष्टस्त्वं हि मया मूढ प्रथमोऽहमसंशयम् ॥

त्वादृशानां सहस्राणि करिष्येऽहमसंशयम्

॥१०॥

एवं विवदमानौ तौ मिथो राजन्महाद्युती ॥

स्पर्धया रोषताम्राक्षौ युयुधाते परस्परम्

॥११॥

मुष्टिभिर्बाहुभिश्चैव नखैर्दंतैर्विकर्षणैः ॥

एवं वर्षसहस्रं तु तयोर्युद्धमवर्त्तत

॥१२॥

ततो वर्षसहस्रांते तयोर्मध्ये नृपोत्तम ॥

प्रादुर्भूतं महालिंगं दिव्यं तेजोमयं शुभम्

॥१३॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

युद्धाद्ब्रह्मन्निवर्तस्व त्वं च विष्णो ममाज्ञया

॥१४॥

एतन्माहेश्वरं लिंगं योऽस्य चांते गमिष्यति ॥

स ज्येष्ठः स विभुः कर्त्ता युवयोर्नात्र संशयः

॥१५॥

अधोभागं व्रजत्वेक एकश्चोर्द्ध्वं ममाज्ञया ॥

तच्छ्रुत्वा सत्वरो ब्रह्मा व्योममार्गं समाश्रितः

॥१६॥

विदार्य वसुधां कृष्णोऽप्यधस्तात्सत्वरं गतः ॥

स भित्त्वा सप्तपातालानधो यावत्प्रयाति च ॥

तावत्कालाग्निरुद्रस्तु दृष्टस्तेन महात्मना

॥१७॥

गंतुमिच्छंस्ततोऽधस्ताद्यावद्वेगं करोति सः ॥

तावत्तस्यार्चिभिर्दग्धः कृष्णत्वं समपद्यत

॥१८॥

ततो मूर्छाभिसंतप्तो दह्यमानोऽद्भुताग्निना ॥

निवर्त्य सहसा विष्णुर्वैलक्ष्यं परमं गतः

॥१९॥

तथा लिंगं समासाद्य भक्त्या पूजा कृता ततः ॥

वेदोक्तैः परमैः सूक्ष्मैः स्तुतिं चक्रे महीपते

॥२०॥

ब्रह्माऽपि व्योममार्गेण गतो हंसविमानतः ॥

दिव्यं वर्षसहस्रं तु तस्यांतं नाभ्यपद्यत

॥२१॥

ततो वर्षसहस्रांते केतकीं सोऽप्यपश्यत ॥

आयांतीं व्योममार्गेण तया पृष्टश्चतुर्मुखः

॥२२॥

क्व त्वया गम्यते ब्रह्मन्निरालंबे महापथि ॥

शून्ये तत्त्वं समाचक्ष्व परं कौतूहलं हि मे

॥२३॥

ब्रह्मोवाच

मम स्पर्धा समुत्पन्ना विष्णुना सह शोभने ॥

लिंगस्यास्य हि पर्यंतं यो लभिष्यति चावयोः

॥२४॥

स ज्यायानितरो हीनो ह्येतदुक्तं पिनाकिना ॥

प्रस्थितोऽहं ततश्चोर्द्ध्वमधोमार्गं गतो हरिः

॥२५॥

लब्ध्वा लिंगस्य पर्यंतं यास्यामि क्षितिमंडले ॥

तस्य तद्वचनं श्रुत्वा तत्पुष्पमभ्यभाषत

॥२६॥

व्यर्थश्रमोऽसि लोकेश नांतो लिंगस्य विद्यते ॥

चतुर्युगसहस्राणां कोटिरेका पितामह

॥२७॥

लिंगमूर्ध्नः पतंत्या मे कालो जातो महाद्युते ॥

तथापि क्षिति पृष्ठं तु न प्राप्तास्मि कथंचन

॥२८॥

यावत्कालेन हंसस्ते योजनं संप्रगच्छति ॥

तावत्कालेन गच्छामि योजनानामहं शतम्

॥२९॥

तस्मान्निवर्तनं युक्तं मम वाक्येन ते विभो ॥

दर्शयित्वा च मां विष्णोर्ज्येष्ठत्वं व्रज सांप्रतम्

॥३०॥

ततो हृष्टमना भूत्वा गृहीत्वा तां चतुर्मुखः ॥

पुनर्वर्षसहस्रांते भूमिपृष्ठमुपागतः ॥

दर्शयामास तां विष्णोरेषा लिंगस्य मूर्धतः

॥३१॥

मयाऽऽनीता शुभा माला लब्धश्चांतं चतुर्भुज ॥

त्वया लब्धो न चासत्यं वद मे पुरुषोत्तम

॥३२॥

विष्णुरुवाच

अनंतस्याप्रमेयस्य देवदेवस्य शूलिनः ॥

नाहं शक्तः परं पारं गंतुं ब्रह्मन्कथंचन

॥३३॥

यदि त्वयाऽस्य पर्यंतो लब्धो ब्रह्मन्कथंचन ॥

तत्ते तुष्टिं गतो नूनं देवदेवो महेश्वरः

॥३४॥

नान्यथा चास्य पर्यंतो दृश्यते केन चित्क्वचित् ॥

तस्माज्ज्येष्ठो भवाञ्छ्रेष्ठः कनिष्ठोऽहमसंशयम्

॥३५॥

पुलस्त्य उवाच

एतस्मिन्नेव काले तु भगवान्वृषभध्वजः ॥

कोपं चक्रे महाराज ब्रह्माणं प्रति तत्क्षणात्

॥३६॥

अथाह दर्शनं गत्वा धिग्धिग्व्यर्थप्रजल्पक ॥

मिथ्या प्रजल्पमानेन किमिदं साहसं कृतम्

॥३७॥

यस्मात्त्वया मृषा प्रोक्तं मम पर्यंतदर्शनम् ॥

तस्मात्त्वं सर्ववर्णानां पूजार्हो न भविष्यसि

॥३८॥

ये च त्वां पूजयिष्यंति मानवा मोह संयुताः ॥

ते कृच्छ्रं परमं प्राप्य नाशं यास्यंति कृत्स्नशः

॥३९॥

केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया ॥

अस्या हि स्पर्शनाल्लोकः श्वपाकत्वं प्रयास्यति

॥४०॥

एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम् ॥

प्रसन्नवदनो भूत्वा तदा तुष्टो महेश्वरः

॥४१॥

भगवानुवाच

वासुदेव महाबाहो तुष्टस्तेऽहं महामते ॥

सत्यसंभाषणादेव वरं वरय सुव्रत

॥४२॥

श्रीवासुदेव उवाच

एष एव वरः श्लाघ्यो यत्त्वं तुष्टो महेश्वरः ॥

न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि ॥

अवश्यं यदि मे देयो वरो देवेश्वर त्वया

॥४३॥

लिंगमेतदनंताख्यं लघुतां नय मा चिरम् ॥

येन सृष्टिर्भवेल्लोके व्याप्तं विश्वमनेन तु

॥४४॥

पुलस्त्य उवाच

ततः संक्षिप्य तल्लिंगं लघु कृत्वा महेश्वरः ॥

अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे

॥४५॥

एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे ॥

पूजय त्वं विधानेन परं श्रेयः प्रपत्स्यसे

॥४६॥

मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः ॥

कृष्ण एव ततो नाम लोके ख्यातिं गमिष्यति

॥४७॥

कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः ॥

कीर्तयिष्यति यो भक्त्या स याति परमां गतिम्

॥४८॥

पुलस्त्य उवाच

एवमुक्त्वा तमीशानस्तत्रैवांतरधीयत ॥

वासुदेवोऽपि तल्लिंगं गृहीत्वाऽर्बुदपर्वते ॥

निर्झरे स्थापयामास सुपुण्ये विमलोदके

॥४९॥

कृष्णतीर्थं ततो जातं नाम्ना हि धरणीतले ॥

शृणु पार्थिवशार्दूल तत्र स्नातस्य यत्फलम्

॥५०॥

स्नात्वा कृष्णह्रदे पुण्ये तल्लिंगं पश्यते तु यः ॥

सर्वतीर्थोद्भवं श्रेयः स मर्त्त्यो लभतेऽखिलम्

॥५१॥

तथा च सर्वदानानां निष्कामः प्राप्नुयात्फलम् ॥

सकामोऽपि फलं चेष्टं यद्यपि स्यात्सुदुर्ल्लभम्

॥५२॥

तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥

य इच्छेच्छाश्वतं श्रेयो नात्र कार्या विचारणा

॥५३॥

एकादश्यां महाराज निराहारो जितेन्द्रियः ॥

यस्तत्र जागरं कृत्वा लिंगस्याग्रे सुभक्तितः

॥५४॥

प्रभाते कुरुते श्राद्धं यस्तु श्रद्धासमन्वितः ॥

पितृन्संतारयेत्सर्वान्पूर्वजैः सह धर्मवित्

॥५५॥

तिलान्कृष्णान्नरस्तत्र ब्राह्मणेभ्यो ददाति यः ॥

ब्रह्महत्यादिभिः पापैः स मर्त्त्यो मुच्यते ध्रुवम्

॥५६॥

दर्शनादेव राजेन्द्र कृष्णतीर्थस्य मानवः ॥

मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा

॥५७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कृष्णतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥