श्रीमातामाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ श्रीमातां देववंदिताम् ॥
सर्वकामप्रदां नृणामिहलोके परत्र च
॥१॥या च सर्वमयी शक्तिर्यया व्याप्तमिदं जगत् ॥
सा तस्मिन्पर्वते साक्षात्स्वयं वासमरोचयत्
॥२॥पुरा देवयुगे राजा कलिंगोनाम दानवः ॥
जरामरणहीनोसौ देवानां च भयंकरः
॥३॥तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥
बलप्रभावतः स्वर्गो जितस्तेन सुराधिपः ॥
ब्रह्मलोकमनुप्राप्तो देवैः सर्वैः समन्वितः
॥४॥तेन दैत्येन सर्वेऽपि त्रासिताः सुरमानवाः ॥
कलिंगोनाम दैत्यः स स्वयमिन्द्रो बभूव ह
॥५॥वसवो मरुतः साध्या विश्वेदेवाः सुरर्षयः ॥
तेन सर्वे कृता दैत्या यथायोग्यं नराधिप
॥६॥यज्ञभागान्स्वयं सर्वे बुभुजुस्ते च दानवाः ॥
तपोऽर्थे च ततो देवा गताः सर्वेऽर्बुदाचलम्
॥७॥अद्यापि देवताखातं त्रैलोक्ये ख्यातिमागतम् ॥
तत्र व्रतपराः सर्वे पत्रमूलफलाशिनः
॥८॥अव्यक्ताः परमत्रासाद्ध्यायंतस्ते च संस्थिताः ॥
पंचाग्निसाधकाः केचित्तत्र व्रतपरायणाः
॥९॥एकाहारा निराहारा वायुभक्षास्तथा परे ॥
अन्ये मासोपवासाश्च चान्द्रायणपरायणाः
॥१०॥कृच्छ्रसांतपने निष्ठा महापाराकिणः परे ॥
अंबुभक्षा वायुभक्षाः फेनपाश्चोष्मपाः परे
॥११॥जपहोमपराश्चान्ये ध्यानासक्तास्तथा परे ॥
बलिनैवद्यदानैश्च गंधधूपैर्नराधिप
॥१२॥पूजयंतः परां शक्तिं देवीं स्वकार्यहेतवे ॥
एवं तेषां व्रतस्थानां तपसा भावितात्मनाम् ॥
विमुक्तिरभवद्राजन्सर्वेषां कर्मबन्धनात्
॥१३॥ततः पूर्णे सहस्रांते वर्षाणां नृपसत्तम ॥
देवी प्रत्यक्षतां प्राप्ता कन्यकारूपधारिणी
॥१४॥पूर्वं जाता महाराज धूममूर्तिर्भयावहा ॥
ततो ज्वाला ततः कन्या शुक्लवासोऽनुलेपना ॥
दृष्ट्वा तां तुष्टुवुर्देवाः कृतांजलिपुटास्ततः
॥१५॥नमोऽस्तु सर्वगे देवि नमस्ते सर्वपूजिते ॥
कामगेऽचिन्त्ये नमस्ते त्रिदशाश्रये
॥१६॥नमस्ते परमादेवि ब्रह्मयोने नमोनमः ॥
अर्धमात्रेक्षरे चैव तस्यार्धार्धे नमोनमः
॥१७॥नमस्ते पद्मपत्राक्षि विश्वमातर्नमोनमः ॥
नमस्ते वरदे देवि रजःसत्त्वतमोमयि
॥१८॥स्वस्वरूपस्थिते देवि त्वं च संसारलक्षणम् ॥
त्वं बुद्धिस्त्वं धृतिः क्षांतिस्त्वं स्वाहा त्वं स्वधा क्षमा
॥१९॥त्वं वृद्धिस्त्वं गतिः कर्त्री शची लक्ष्मीश्च पार्वती ॥
सावित्री त्वं च गायत्री अजेया पापनाशिनी
॥२०॥यच्चान्यदत्र देवेशि त्रैलोक्येऽस्तीतिसंज्ञितम् ॥
तद्रूपं तावकं देवि पर्वतेषु च संस्थितम्
॥२१॥वह्निना च यथा काष्ठं तंतुना च यथा पटः ॥
तथा त्वया जगद्व्याप्तं गुप्ता त्वं सर्वतः स्थिता
॥२२॥पुलस्त्य उवाच
एवं स्तुता जगन्माता तानुवाच सुरोत्तमान् ॥
वरो मे याच्यतां शीघ्रमभीष्टः सुरसत्तमाः
॥२३॥किमत्र गुप्तभावेन तिष्ठथ श्वभ्रमध्यगाः ॥
मद्भक्तानां भयं नास्ति त्रैलोक्येपि चराचरे
॥२४॥देवा ऊचुः
कलिंगेन वयं देवि निरस्ताः संगरे मुहुः ॥
तेन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्
॥२५॥यज्ञभागो हृतोऽस्माकं दैत्यानां स प्रकल्पितः ॥
तेन स्वर्गः समाक्रान्तः सुराः सर्वे निराकृताः
॥२६॥हत्वा दैत्यान्यथा भूयः शक्रः स्वपदमाप्नुयात् ॥
तथा कुरु महाभागे वर एषोऽस्मदीप्सितः
॥२७॥देव्युवाच
यथा यूयं मया सृष्टास्तथैवायं महासुरः ॥
विशेषो नास्ति मे कश्चिदुभयोः सुरसत्तमाः
॥२८॥तस्मात्तान्वारयिष्यामि शक्राद्यांस्त्रिदिवात्पुनः ॥
एवमुक्त्वा वरारोहा प्रेषयामास पार्थिव
॥२९॥दूतं कलिंगदैत्याय त्यज त्वं त्रिदिवं द्रुतम् ॥
स गत्वा बाष्कलिं दैत्यं सामपूर्वं वचोऽब्रवीत्
॥३०॥दूत उवाच
या सा सर्वगता देवी शक्तिरूपा शुचि स्मिता ॥
श्रीमाता जगतां माता देवैराराधिता परा ॥
तेषां तुष्टा च देवी त्वामिदं वचनमब्रवीत्
॥३१॥स्वस्थानं गच्छ शीघ्रं त्वं शक्रो यातु त्रिविष्टपम् ॥
मद्वाक्याद्दानवश्रेष्ठ देवत्वं न भवेत्तव
॥३२॥पुलस्त्य उवाच
स दूतवचनं श्रुत्वा दानवो मदगर्वितः
॥३४॥अहं लोकेश्वरो मत्वा सगर्वमिदमब्रवीत्
॥३३॥बाष्कलिरुवाच
का श्रीमातेति के देवा नास्मात्स्वर्गं त्यजाम्यहम् ॥
न तां जानामि तांश्चैव गत्वा ब्रूहि ममाज्ञया
॥३४॥न भवद्भ्यस्वहं स्वर्गं प्रयच्छामि कथंचन ॥
दूतोऽवध्यो भवेद्राज्ञामपि वैरे सुदारुणे ॥
एतस्मात्कारणाद्दूत न त्वां प्राणैर्वियोजये
॥३५॥श्रीमातां यदि मे दूत दर्शयिष्यसि चेत्ततः ॥
अभीष्टान्संप्रदास्यामि सत्यमेव ब्रवीम्यहम्
॥३६॥अहं त्वया समं तत्र यास्ये यत्र स्थिता च सा ॥
निग्रहं च करिष्यामि वाक्यं मे सत्यकारणम्
॥३७॥पुलस्त्य उवाच
एवमुक्त्वा मदोन्मत्तो दूतेन च स दानवः ॥
अर्बुदं प्रययौ तूर्णं रोषेण महता वृतः
॥३८॥दृष्ट्वा बाष्कलिमायांतं देवाः शक्रपुरोगमाः ॥
वार्यमाणास्तदा देव्या पलायनपरायणाः
॥३९॥भयेन महताविष्टा दिशो भेजुः समंततः ॥
अथासौ बाष्कलिः प्राप्तः सैन्येन महता वृतः
॥४०॥श्रीमाता तिष्ठते यत्र पर्वतेर्बुदसंज्ञके ॥
दूतं च प्रेषयामास तमुवाच नराधिपः
॥४१॥बाष्कलिरुवाच
गच्छ दूतवर ब्रूहि श्रीमातां चारुहासिनीम् ॥
भार्या मे भव सुश्रोणि अहं ते वशगः सदा
॥४२॥भविष्यति हि मे राज्यं सर्वं वशगतं तव ॥
अन्यथा धर्षयिष्यामि सर्वैः सार्द्धं सुरोत्तमैः
॥४३॥किमिंद्रेणाल्पवीर्येण किमन्यैश्च वरानने ॥
सहस्राक्षो न मे तुल्यो न मे तुल्याः सुरासुराः
॥४४॥पुलस्त्य उवाच
एतच्छ्रुत्वा ततो गत्वा स दूतः संन्यवेदयत् ॥
तस्य सर्वं यथावाक्यं तेनोक्तं च महीपते
॥४५॥ततः श्रुत्वा स्मितं कृत्वा चिंतयामास भामिनी ॥
जरा मरणहीनोयं दैत्येन्द्रः शंभुना कृतः
॥४६॥कथमस्य मया कार्यो निग्रहो देवताकृते ॥
पुनश्चिंतयते यावत्सा देवी दानवं प्रति ॥
तावत्तत्रागतः शीघ्रं स कामेन परिप्लुतः
॥४७॥अथ दृष्टिनिपातेन सा देवी दानवाधिपम् ॥
व्यलोकयत्ततस्तस्या निश्चयः संबभूव ह
॥४८॥ततो जहास सा देवीशनकैर्वृपसत्तम ॥
मुखात्तस्यास्ततः सैन्यं निष्क्रांतमतिभीषणम्
॥४९॥हस्तिनो हयवर्याश्च पादाताश्च पृथग्विधाः ॥
रथसाहस्रमारूढा योधाश्चापि सहस्रशः
॥५०॥तैः सैन्यं दानवेशस्य सर्वं शस्त्रैर्निपातितम् ॥
पश्यतस्तस्य दैत्यस्य निश्चलस्यासुरस्य च
॥५१॥हते सैन्य बले तस्मिन्निंद्राद्यास्त्रिदिवौकसः ॥
तामूचुर्वचनं देवि दानवं हन्तुमर्हसि ॥
नास्मिञ्जीवति नो राज्यं स्वर्गे देवि भविष्यति
॥५२॥पुलस्त्य उवाच
श्रुत्वा तद्वचनं तेषां ज्ञात्वा तं मृत्युवर्जितम् ॥
पर्वतस्य महाशृंगं दत्त्वा तस्योपरि स्वयम्
॥५३॥निविष्टा सा जगन्माता श्रीमाता कामरूपिणी ॥
हिताय जगतां राजन्नद्यापि वरपर्वते ॥
तत्रैव वसते साक्षान्नृणां कामप्रदायिनी
॥५४॥एतस्मिन्नेव काले तु सर्वे देवाः सवासवाः ॥
तुष्टुवुस्तां महाशक्तिं भयहन्त्रीं प्रहर्षिताः
॥५५॥प्रसन्नाऽभूत्ततो देवी तेषां तत्र नराधिप ॥
स्वंस्वं स्थानं सुराः सर्वे परियांतु गतव्यथाः ॥
गत्वा स्थानं स्वकं सर्वे परिपांतु गतव्यथाः
॥५६॥वरं वरय देवेन्द्र ब्रूहि यत्ते मनोगतम् ॥
तत्सर्वं संप्रदास्यामि तुष्टाहं भक्तितस्तव
॥५७॥इन्द्र उवाच
यदि तुष्टासि मे देवि शाश्वते भक्तिवत्सले ॥
अत्रैव स्थीयतां तावत्स्वर्गे यावदहं विभुः
॥५८॥प्रशास्मि राज्यं देवेशि शाश्वते भक्तवत्सले ॥
अजरश्चामरश्चैव यतो दैत्यः सुरेश्वरि
॥५९॥हरेण निर्मितः पूर्वं येन तिष्ठति निश्चलः ॥
प्रसादात्तव लोकाश्च त्रयः संतु निरामयाः
॥६०॥अत्र त्वां पूजयिष्यामो वयं सर्वे समेत्य च ॥
चैत्रशुक्लचतुर्द्दश्यां दृष्ट्वा त्वां यांतु सद्गतिम्
॥६१॥पुलस्त्य उवाच
एवमुक्त्वा सहस्राक्षः सर्वदेवैः समन्वितः ॥
हृष्टस्त्रिविष्टपं प्राप्तो देव्यास्तस्याः प्रभावतः
॥६२॥सापि तत्र स्थिता देवी देवानां हितकाम्यया
॥६३॥यस्तां पश्यति चैत्रस्य चतुर्द्दश्यां सिते नृप ॥
स याति परमं स्थानं जरामरणवर्ज्जितम्
॥६४॥किं व्रतैर्नियमैर्वापि दानैर्दत्ते नराधिप ॥
सर्वे तद्दर्शनस्यापि कलां नार्हंति षोडशीम्
॥६५॥तत्रैव पादुके दिव्ये तया न्यस्ते नराधिप ॥
यस्ते पश्यति भूयोऽसौ संसारं न हि पश्यति ॥
सर्वान्कामानवाप्नोति इह लोके परत्र च
॥६६॥ययातिरुवाच
कस्मिन्काले द्विजश्रेष्ठ देव्या मुक्तेऽत्र पादुके ॥
कस्माच्च कारणाद्ब्रूहि सर्वं विस्तरतो मम
॥६७॥पुलस्त्य उवाच
तां देवीं मानवाः सर्वे संवीक्ष्य नृपसत्तम ॥
प्राप्नुवंति परां सिद्धिं द्विविधां धर्मकारिणः
॥६८॥एतस्मिन्नेव काले तु यज्ञदानादिकाः क्रियाः ॥
प्रणष्टा भूतले राजंस्तीर्थयात्राव्रतोद्भवाः
॥६९॥शून्यास्ते नरकाः सर्वे संबभूवुर्यमस्य ये ॥
यज्ञभागविहीनाश्च देवाः कष्टमुपागताः
॥७०॥अथ सर्वे नृपश्रेष्ठ देवास्तत्र समागताः ॥
ऊचुर्गत्वाऽर्बुदं तत्र श्रीमातां परमे श्वरीम्
॥७१॥देवा ऊचुः
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टाः सुरेश्वरि ॥
मर्त्यलोके वयं तेन कर्मणातीव पीडिताः
॥७२॥दृष्ट्वा त्वां देवि पाप्मानः सिद्धिं यांति सपूर्वजाः ॥
तस्माद्यथा वयं पुष्टिं व्रजामस्ते प्रसादतः
॥७३॥न निष्क्रामति दैत्यश्च बाष्कलिस्त्वं तथा कुरु
॥७४॥पुलस्त्य उवाच
तेषां तद्वचनं श्रुत्वा संचिंत्य सुचिरं तदा ॥
मुक्त्वा स्वे पादुके तत्र कृत्वा चाश्मसमुद्भवे ॥
देवानुवाच राजेंद्र सर्वानर्त्तिमुपागतान्
॥७५॥श्रीदेव्युवाच
युष्मद्वाक्येन त्यक्तो हि मयाऽयं पर्वतोत्तमः ॥
विन्यस्ते पादुके तस्य रक्षार्थं बाष्कलेः सुराः
॥७६॥मत्पादुकाभराक्रांतो न स दैत्यः सुरोत्तमाः ॥
स्थानात्प्रचलितुं शक्तः स्तंभितः स्याद्यथा मया
॥७७॥एतच्छास्त्रं मया कृत्स्नं पादुकार्थं विनिर्मितम् ॥
अध्यात्मकं हितार्थाय प्राणिनां पृथिवीतले
॥७८॥शास्त्रमार्गेण चानेन भक्त्या यः पादुके मम ॥
पूजयिष्यति सिद्धिः स्यात्तस्य मद्दर्शनोद्भवा
॥७९॥चैत्रशुक्लचतुर्द्दश्यामहमत्रार्बुदे सदा ॥
अहोरात्रे वसिष्यामि सुगुप्ता गिरिगह्वरे
॥८०॥पर्वतोऽयं ममाभीष्टो न च त्यक्तुं मनो दधे ॥
तथापि संपरित्यक्तो युष्माकं हितकाम्यया
॥८१॥पुलस्त्य उवाच
एवमुक्त्वा तु सा देवी समंताद्देवकिंनरैः ॥
स्तूयमाना ययौ स्वर्गं मुक्त्वा ते पादुके शुभे
॥८२॥अद्यापि सिद्धिमायांति योगिनो ध्यानतत्पराः ॥
तन्निष्ठास्तद्गतप्राणा यथा देव्याः प्रदर्शनात्
॥८३॥एतत्ते सर्वमाख्यातं यन्मां त्व परिपृच्छसि ॥
श्रीमातासंभवं पुण्यं पादुकाभ्यां च भूमिप
॥८४॥यस्त्वेतत्पठते भक्त्या श्लाघते वाऽथ यो नरः ॥
सर्वपापैर्महाराज मुच्यते ज्ञानतत्परः
॥८५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे श्रीमातामाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥