ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम् ॥
वाराहस्य हरेरिष्टं सदा वाससुखप्रदम्
॥१॥वाराहेणावतारेण पृथ्वी तत्र समुद्धृता ॥
हरिणोक्ता स्थिरा तिष्ठ न भेतव्यं कदाचन
॥२॥अहं चेतो गमिष्यामि वैकुण्ठे च पुनः शुभे ॥
वरं वरय कल्याणि यद्यदिष्टं सुदुर्लभम्
॥३॥पृथिव्युवाच
यदि देयो वरो मह्यं शंखचक्रगदाधर ॥
अनेन वपुषा तिष्ठ ह्यस्मिंस्तीर्थे सदा हरे
॥४॥हरिरुवाच
अनेन वपुषा देवि पर्वतेऽर्बुदसंज्ञके ॥
अहं स्थास्यामि ते वाक्यात्सदा लोक हिते रतः
॥५॥ममाग्रे यो ह्रदः पुण्यः सुनिर्मलजलान्वितः ॥
माघमासे सिते पक्ष एकादश्यां समाहितः
॥६॥तत्र स्नात्वा नरो भक्त्या मुच्यते ब्रह्महत्यया ॥
तत्र श्राद्धं करिष्यंति मनुष्याः श्रद्धयान्विताः
॥७॥पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
॥८॥पुलस्त्य उवाच
इत्युक्त्वांतर्दधे राजन्गोविंदो गरुडध्वजः ॥
तस्मिन्दिने नृपश्रेष्ठ स्नात्वा व्रतं समाचरेत्
॥९॥तर्पणं पिंडदानं च यः कुर्याद्भक्तितत्परः ॥
स याति विष्णुसालोक्यं पूर्वजैः सह पार्थिव
॥१०॥तत्र दानं प्रशंसंति गत्वा ब्राह्मणसत्तमे ॥
अस्मिंस्तीर्थे नृपश्रेष्ठ गोदानं च करोति यः
॥११॥रोमसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः ॥
तस्मात्सर्वात्मना राजन्गोदानं च समाचरेत्
॥१२॥एकादश्यां विशेषेण कर्त्तव्यं स्नानमुत्तमम् ॥
दानं कुर्याद्यथाशक्त्या स याति परमां गतिम्
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे वाराहतीर्थमाहात्म्यवर्णनंनामैकोनविंशोध्यायः ॥ १९ ॥